०५५ विश्वामित्रास्त्रमोक्षणम्

अथ पञ्चपञ्चाशः सर्गः

[विश्वामित्रधनुर्वेदाधिगमः]

॥ १।५५।१ ॥ ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।

वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥ १ ॥

अथ विश्वामित्रास्त्राकुलीकृतस्वबलस्य च पुनः सर्गत उपोद्बलनेन वैश्वामित्रसर्वबलनाशः–ततस्तानित्यादि । कामधुगिति सम्बुद्धिः ॥ १ ॥

(योगतःयोगमहिम्ना । तिरश्चो ऽपि ब्रह्मप्रसादात् योगशक्तिरस्तीति ज्ञेयम्गो।) ॥ १।५५।१ ॥

॥ १।५५।२,३ ॥ तस्या १हुंभारवाञ्जाताः काम्भोजा रविसन्निभाः ।

ऊधसस्त्वथ सञ्जाताः २पप्लवाः शस्त्रपाणयः ॥ २ ॥

योनिदेशाच्च यवनाः शकृद्देशाच्छकाः तथा ।

रोमकूपेषु च म्लेच्छाः ३हारीतास्सकिरातकाः ॥ ३ ॥

म्लेच्छकिरातयवनाः जातिविशेषाः ॥ ३ ॥

(अत्र ऽतस्या इत्यादि चत्वारःऽ ऽदृष्ट्वेत्यादि षट्ऽ इति गोविन्दराजीये दृश्यते, दृश्यते तु सर्वत्र तस्या इत्यादि श्लोकत्रयमेव ।)

(१ हुंकारवाङ।ज।)

(२ वर्बराःङ।ज)

(३ हारीकाःज।) ॥ १।५५।३ ॥

॥ १।५५।४,५,६ ॥ तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।

सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४ ॥

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।

विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥

अभ्यधावत् सुसंकुद्धं वसिष्ठं जपतां वरम् ।

हुंकारेणैव तान् सर्वान् ददाह भगवान् ऋषिः ॥ ६ ॥

विश्वामित्रसुतानां शतं वसिष्ठमभ्यधावदिति । अयमेव किल धेनोर्बलम्, अतो ऽयमेव संहर्तव्य इत्याशयेनेति शेषः । हुंकारेण निर्ददाहेत्यस्य बीजं–जपतां वरमिति । सघोरबीजदेवीजप एव तद्बलमिति सूचितम् ॥ १।५५।६ ॥

॥ १।५५।७ ॥ ते साश्वरथपादाता वसिष्ठेन महात्मना ।

भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ ७ ॥

मुहूर्तेन विश्वामित्रसुता भस्मीकृता इति । मासेनानुवाको ऽधीत इतिवदपवर्गे तृतीया ॥ १।५५।७ ॥

॥ १।५५।८,९ ॥ दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।

सव्रीडश्चिन्तया ऽ ऽविष्टो विश्वामित्रो ऽभवत् तदा ॥ ८ ॥

समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

निर्वेग इति । युद्धप्रवृत्तिरहित इत्यर्थः । निर्वेगत्वे समुद्रदृष्टान्तः, १भग्नदंष्ट्रोरगदृष्टान्तः । निष्प्रभत्वे उपरक्तादित्यदृष्टान्तः । उपरक्तःराहुग्रस्तः ॥ ९ ॥

(भग्नदंष्ट्र उरग इव निश्शक्तिरिति शेषः–गोः निर्वेगत्वे समुद्रोपमा, निष्प्रभत्वे इतरे उपमेति। निर्वेगः समुद्र इव भग्नदंष्ट्र उरग इव उपरक्तः–आदित्य इव सद्यो निष्प्रभतां गतःशि।)

(१ निष्प्रभत्वे भग्नदंष्ट्रोरगदृष्टान्तःग) ॥ १।५५।९ ॥

॥ १।५५।१० ॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।

हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥

निर्वेदःवृथाप्रयासत्वबुद्धिजः चित्तखेदः ॥ १।५५।१० ॥

॥ १।५५।११ ॥ स पुत्रमेकं राज्याय पालयेति नियुज्य च ।

पृथिवीं क्षात्रधर्मेण, वनमेवान्वपद्यत ॥ ११ ॥

एकमिति । अवशिष्टमिति शेषः ॥ १।५५।११ ॥

॥ १।५५।१२ ॥ स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।

महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥

केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।

दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥

दर्शयामासेति । विश्वामित्रं प्रति स्वात्मानमिति शेषः ॥ १।५५।१३ ॥

॥ १।५५।१४,१५,१६ ॥ किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।

वरदो ऽस्मि वरो यस्ते काङ्क्षितस्सो ऽभिधीयताम् ॥ १४ ॥

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।

प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ ॥

यदि तुष्टो महादेव धनुर्वेदो ममानघ

साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

साक्षादारादुपकारकत्वलक्षणान्यङ्गोपाङ्गानि प्रधानस्य, तत्साधकरहस्यमन्त्र उपनिषदः । तत्राङ्गोपाङ्गमन्त्रसहितस्साङ्गोपाङ्गोपनिषदः । सदेः पचाद्यचि ऽसदिरप्रतेःऽ इति षत्वम् । रहस्यंशास्त्राशक्यनिबन्धनमाचार्यमुखैकगम्यं विद्याजातम् ॥ १६ ॥

(उपनिषद इति । ऽद्वन्द्वात् चुदषहान्तात् समाहारेऽ इति टच् । अदन्तो वाशि।) ॥ १।५५।१६ ॥

॥ १।५५।१७ ॥ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।

गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ॥ १७ ॥

तव प्रसादादिति । न तु प्रातिस्विकत्वदुपदेशमपेक्ष्येत्यर्थः ॥ १।५५।१७ ॥

॥ १।५५।१८ ॥ तव प्रसादाद्भवतु देवदेव ममेप्सितम् ।

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।

दर्पेण महता युक्तो दर्पपूर्णो ऽभवत् तदा ॥ १९ ॥

क्षत्रियत्वादेव दर्पः सहजः, तस्य पूर्तिर्दिव्यास्त्रलाभात् ॥ १।५५।१९ ॥

॥ १।५५।२० ॥ विवर्धमानो वीर्येम समुद्र इव पर्वणि ।

हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥

ततो गत्वा ऽ ऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।

यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

यैर्निर्दग्धं तादृशास्त्राणीति योजना ॥ १।५५।२१ ॥

॥ १।५५।२२ ॥ उदीर्यमाणमस्त्रं तत् विश्वामित्रस्य धीमतः ।

दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

उदीर्यमाणं–विसृज्यमानमिति यावत् । विश्वामित्रेणेति शेषः ॥ १।५५।२२ ॥

॥ १।५५।२३ ॥ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।

विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ २३ ॥

भयादिति । भयहेतोरस्त्रजालादित्यर्थः ॥ २३ ॥

(नानादिग्भ्य इति द्वितीयार्थे चतुर्थीगो।ति। ऽगत्यर्थानां द्वितीयाचतुर्थ्थौ इत्यनुशासनविहिता चतुर्थीशि।) ॥ १।५५।२३ ॥

॥ १।५५।२४ ॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।

मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम् ॥ २४ ॥

सर्वप्राणिपलायनात् शून्यं वसिष्ठस्याश्रमपदं, अत एव निश्शब्दं, अत एव मुहूर्तमिरिणसन्निभंनिर्वृक्षवृथागुल्मनिर्मानुष्ककान्तारसन्निभमासीत् ॥ १।५५।२४ ॥

॥ १।५५।२५ ॥ वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।

नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

ननु कथं वसिष्ठे विद्यमाने विद्रवणमाश्रमवासिनामित्यत्रोक्तम्वदत इत्यादि । गाधेयऽ द्व्यचःऽ इति ढक्, गाधेयं नाशयामि, मा भैः हे प्रजाः इति वदतो वसिष्ठस्य अभिवादनमनादृत्य विद्रुवुरित्यन्वयः ॥ २५ ॥

(वदतो वसिष्ठस्येत्यत्र अनादरे षष्ठी।) ॥ १।५५।२५ ॥

॥ १।५५।२६ ॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।

विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥

अथ वसिष्ठः पलायमानप्राणिजातं एवमुक्त्वा, विश्वामित्रमिदं वक्ष्यमाणं वाक्यं अब्रवीत् ॥ १।५५।२६ ॥

॥ १।५५।२७ ॥ आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।

दुराचारो ऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ २७ ॥

न भविष्यसीतिनशिष्यसीति यावत् ॥ १।५५।२७ ॥

॥ १।५५।२८ ॥ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।

१ विधूम इव कालाग्निः यमदण्डमिवापरम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चपञ्चाशस्सर्गः

विधूमः कालाग्निरिव परमक्रुद्धः वसिष्ठो ऽपरं यमदण्डमिव स्थितं ब्रह्मदण्डं उद्यम्यउद्धृत्य गृहीत्वा तस्थाविति शेषः राज (२८) मानः सर्गः ॥ २८ ॥

(१ विधूममिव कालाग्निंउ।) ॥ १।५५।२८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चपञ्चाशः सर्गः