अथ चतुष्पञ्चाशः सर्गः
[विश्वामित्रबलविमर्दनम्]
॥ १।५४।१ ॥ कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः ।
तदा ऽस्य शबलां राम विश्वामित्रो ऽन्वकर्षत ॥ १ ॥
एवं सामदानाभ्यां शबलाया अप्राप्तौ दण्डोपाये प्रवृत्तिर्विश्वामित्रस्य–कामधेनुमित्यादि । यदा न त्यजतेतङार्षः, न त्यजति स्म, तदा अन्वकर्षत । बलात्कारेणेति शेषः ॥ १।५४।१ ॥
॥ १।५४।२,३ ॥ नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २ ॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
या ऽहं १राजभृतैर्दीना २ह्रियेय भृशदुःकिता ॥ ३ ॥
राज्ञो भृताः–भ्रियन्त इति भृताःभृतकास्सेवका इति यावत् । ह्रियेय–कर्मणि संप्रश्ने लिङ्–कथमपह्रियेयेत्यर्थः । भृशदुःखिताभृशं दुःखिता–वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥ ३ ॥
(१ राजभटैःङ।)
(२ द्वियेयंङ।ज।) ॥ १।५४।४ ॥
॥ १।५४।४ ॥ किं मया ऽपकृतं तस्य महर्षेर्भावितात्मनः ।
३ यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥
किमपकृतं–किपराद्धम् ॥ ४ ॥
(३ एतदनन्तरं–इति सा चिन्तयित्वा तु विनिश्वस्य पुनःपुनः । नगाम वेगेन वसिष्ठं परमौजसम् ॥ –इत्यधिकंङ।) ॥ १।५४।४ ॥
॥ १।५४।५,६ ॥ निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन
जगामानिलवेगेन पादमूलं महात्मनः ॥ ५ ॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ ६ ॥
शतशो भृत्यानिति । आवारकानिति शेषः । पादमूलं–पादसमीपम् ॥ १।५४।५,६ ॥
॥ १।५४।७ ॥ भगवन् किं परित्यक्ता त्वया ऽहं ब्रह्मणः सुत
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ ७ ॥
त्वत्सकाशतः–त्वत्समीपात् ॥ १।५४।७ ॥
॥ १।५४।८ ॥ एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८ ॥
स्वसाभगिनी ॥ १।५४।८ ॥
॥ १।५४।९,१० ॥ न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया ।
एष त्वां नयते राजा १बलोन्मत्तो महाबलः ॥ ९ ॥
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ १० ॥
बलोन्मत्तेन ह्रियत इति किं भवतो बलं नास्ति ? नेत्याहन हीत्यादि ॥ १० ॥
(मह्यं–मम बलं न हि तद्बलेन तुल्यमित्यर्थः । तपोबलेन तर्हि दण्ड्यतामित्यत्राह–राजा त्विति । राजत्वात् तपोबलेन न दण्ड्य इति भावः । तद्वक्ष्यति किष्किन्धायां–ऽराजानो वानरेश्रेष्ठ৷৷৷৷तान्न हिस्यात्৷৷৷৷ऽइति । अद्यकृतातिथ्यके दिने, अतिथित्वात् विशेषतो ऽवध्यःति। ॥ )
(१ बलान्मत्तोज।) ॥ १।५४।१० ॥
॥ १।५४।११,१२ ॥ इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥
विनीतवत्–विनयोपेतं यथा तथा उवाच ॥ १।५४।१२ ॥
॥ १।५४।१३ ॥ न बलं क्षत्रियस्याहुः ब्राह्मणो बलवत्तरः ।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ १३ ॥
बलवत्तर इति । क्षत्रियादिति शेषः । यदेवमतःब्रह्मन्नित्यादि ॥ १।५४।१३ ॥
॥ १।५४।१४ ॥ १अप्रमेयं बलं तुभ्यं, न २त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यः, तेजस्तव दुरासदम् ॥ १४ ॥
त्वया बलवत्तर इति न, त्वया सदृशो ऽपि त्वत्तो बलवत्तर इति दूरे इत्यर्थः ॥ १४ ॥
(तुभ्यंतव बलं अप्रमेयम् । महावीर्यो ऽपि विश्वामित्रः त्वयात्वत्तः न बलवत्तरः ॥ )
(१अप्रमेयबलंङ।)
(२ त्वत्तो, त्वस्यङ।) ॥ १।५४।१४ ॥
॥ १।५४।१५ ॥ नियुङ्क्ष्व मां महातेजः त्वद्ब्रह्मबलसम्भृताम् ।
तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १५ ॥
त्वदाश्रिततया ममापि अयं न पर्याप्त इत्याह–नियुङ्क्ष्वेत्यादि ॥ १५ ॥
(कामधेनुत्वान्नियोगापेक्षा परकाम्यार्थसृष्टावेव तस्याः सामर्थ्यात्ति।) ॥ १।५४।१५ ॥
॥ १।५४।१६ ॥ इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।
सृजस्वेति तदोवाच बलं ३परबलारुजम् ॥ १६ ॥
तस्य तद्वचनं श्रुत्वा सुरभिः सा ऽसृजत्तदा ॥ १७ ॥
तस्या ४हुम्भारवोत्सृष्टाः ५पप्लवाः शतशो नृप
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥
पप्लवशकयवनकाम्भोजद्वैप्यजना अवान्तरजातिविशेषाः । पश्यत इति अनादरे षष्ठी ॥ १८ ॥
(आरुजतिहिनस्तीतिआरुजंगो।)
(३ परबलार्दनम्ङ।ज।)
(४ हुङ्कारङ।)
(५ पह्ववाः।ङ। पहवाज। पल्लवाझ। [एवमुत्तरत्रापि]) ॥ १।५४।१८ ॥
॥ १।५४।१९ ॥ बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
स राजा परमक्रुद्धः क्रोधविष्फारितेक्षणः ।
पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥
विष्फारितं–विवृतं, स्फुरेः ण्यन्तात् निष्ठायां, ऽस्फुरतिस्फुलत्योर्घाञिऽ इत्यात्वे, ऽस्फुरतिस्फुलत्योर्निर्निविभ्यःऽ इति षत्वम् ॥ १।५४।१९ ॥
॥ १।५४।२० ॥ विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।
भूय एवासृजत् कोपात् शकान् यवनमिश्रितान् ॥ २० ॥
अर्दिताः–पीडिताः ॥ १।५४।२० ॥
॥ १।५४।२१ ॥ तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ।
प्रभावद्भिर्महावीर्यैः हेमकिञ्जल्कसन्निभैः ॥ २१ ॥
प्रभादुर्निरीक्षतेजः । हेम्नः किञ्जल्कस्य सन्निभास्तथा ॥ १।५४।२१ ॥
॥ १।५४।२२ ॥ दीर्घासिपट्टसधरैः हेमवर्णाम्बरावृतैः ।
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ २२ ॥
हेमवर्णाम्बरेति । पीताम्बरेति यावत् ॥ १।५४।२२ ॥
॥ १।५४।२३ ॥ ततो ऽस्त्राणि महातेजाः विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्पञ्चाशः सर्गः
–
गर (२३) मानः सर्गः ॥ १।५४।२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्पञ्चाशः सर्गः