अथ त्रिपञ्चाशः सर्गः
[कामधेनुप्राप्त्युद्यमः]
॥ १।५३।१ ॥ एवमुक्ता वसिष्ठेन शबला, शत्रुसूदन
विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् ॥ १ ॥
अथ यथानियोगानुष्ठानोपदेशःएवमित्यादि । यस्य यस्य यथा यथा ईप्सितं तथा तथा तस्य तस्य सर्वान् कामान् विदधे ॥ १।५३।१ ॥
॥ १।५३।२ ॥ इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥
अस्यैव प्रपञ्चःइक्षूनित्यादि । इक्षून्तद्विकारान्, मधून्ऽमकरन्दस्य मद्यस्य माक्षिकस्य च वाचकःऽ अर्धर्चादिषु दृष्टत्वात् पुंनपुंसकयोः मधुःक्षौद्रमैरेयाख्यानासवविशेषान् । ऽमैरेयमासवो धात्रीधातकीगुडवारिभिःऽ । कृतमिति शेषः । भक्षयान्अपूपविशेषान् ॥ १।५३।२ ॥
॥ १।५३।३ ॥ उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥
पर्वतोपमा इति । आसन्निति शेषः । मृष्टान्नानिपायसभेदाः ॥ १।५३।३ ॥
॥ १।५३।४ ॥ नानास्वादुरसानां च १षाडवानां तथैव च ।
२भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥
षाडवानामिति । षण्णां रसानां विकाराः, शैषिको ऽण्, गुणप्रधानस्फुरत्षड्रसको भक्ष्यविशेषः । औत्तरीत्या ऽ ऽहुः । भोजनानिभोजनपात्राणि । गौडानिराजतानि, ऽप्राणिरजतादिभ्यो ऽञ्ऽ ऽरजतं गुडःऽ ॥ ४ ॥
(षाडवाः भक्ष्यविशषाःतेषां पूर्णानितैः पूर्णानीत्यर्थः ऽपुरणगुणऽ इत्यादिना तृतीयार्थे षष्ठी । गौडानि–गुडविकाराः । अत्रापि आसन्निति शेषःगो।)
(१ षड्ररसानां, खाण्डवानांङ।ज।)
(२ भागजनानिङ) ॥ १।५३।४ ॥
॥ १।५३।५ ॥ सर्वमासीत् सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥ ५ ॥
हृष्टपुष्टजनैरासमन्ताद्युतंआयुतम् ॥ १।५३।५ ॥
॥ १।५३।६ ॥ विश्वामित्रो ऽपि राजर्षिः हृष्टः पुष्टस्तदा ऽभवत् ।
सान्तःपुरवरो राजा सब्रह्माणपुरोहितः ॥ ६ ॥
हर्षःअन्तश्चित्तसन्तोषः । पुष्टिःदेहपुष्टिः ॥ १।५३।६ ॥
॥ १।५३।७ ॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥
अमात्यःकर्मसचिवः । मन्त्रीमन्त्रसचिवः ॥ १।५३।७ ॥
॥ १।५३।८ ॥ पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ ८ ॥
पूजार्हेणअस्मदादिभिरिति शेषः ॥ १।५३।८ ॥
॥ १।५३।९,१० ॥ गवां शतसहस्रेण दीयतां शबला मम ॥ ९ ॥
रत्नं हि भगवन्नेतत् रत्नहारी च पार्थिवः ।
तस्मान्मे शबलां देहि ममैषा धर्मतौ द्विज ॥ १० ॥
शतसहस्रेणेति । निष्क्रयभूतेनेति शेषः । धर्मतो ममैषा योग्येति शेषः ॥ १।५३।१० ॥
॥ १।५३।११,१२,१३ ॥ एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ।
विश्वामित्रेण धर्मात्मा, प्रत्युवाच महीपतिम् ॥ ११ ॥
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
राजन् दास्यामि शबलां राशिभी रजतस्य वा ॥ १२ ॥
न परित्यागमर्हेयं मत्सकाशमंरिदम
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १३ ॥
कुतः परित्यागानर्हेत्यतःशाश्वातीत्यादि । आत्मवतः–राजयोगवतो यथा विद्यादिजा कीर्तिः शाश्वतीनित्या, एवं मह्यं ब्रह्मदत्ता शबला शाश्वतीमन्निनित्यसम्बद्धा ॥ १३ ॥
(पारत्यागं प्रत्यर्हा, यद्वा परित्यागं प्राप्तुमर्हा न इत्यर्थः ।) ॥ १।५३।१३ ॥
॥ १।५३।१४ ॥ अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १४ ॥
कथमस्यामेवं अत्यादर इत्यतःअस्यां हव्यमित्यादि । प्राणयात्राजीवनं आयत्तंअधीनम् । अस्य सर्वत्रानुकर्षः । बलिःबलिहरणं । होमःवैश्वदेवादिः ॥ १४ ॥
(अस्यआयत्तपदस्य) ॥ १।५३।१४ ॥
॥ १।५३।१५ ॥ स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।
आयत्तमत्र, राजर्षे सर्वमेतन्न संशयः ॥ १५ ॥
विविधा विद्याश्चास्यामायत्ताः । एतत्पयआदिप्रदानेन चित्तशुद्धेः, प्राणतृप्तेर्देहबलादेव साध्यत्वात्तदेकमूलशब्दविद्विद्यासिद्धिश्चास्यामायत्तैव ॥ १।५३।१५ ॥
॥ १।५३।१६ ॥ सर्वस्वमेतत् सत्येन मम तुष्टिकरी सदा ।
कारणैर्बहुभी राजन् न दास्ये शबलां तव ॥ १६ ॥
मम सर्वस्वमेतदेवशबलास्वरूपमेव । कारणान्युक्तरूपाणि ॥ १।५३।१६ ॥
॥ १।५३।१७ ॥ वसिष्ठेनैवमुक्तस्तु विश्वामित्रो ऽब्रवीत्ततः ।
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १७ ॥
संरब्धतरंअत्यन्ताग्रहयुक्तम् ॥ १।५३।१७ ॥
॥ १।५३।१८ ॥ हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
ददामि कुञ्चराणां ते सहस्रामि चतुर्दश ॥ १८ ॥
हैरण्यानि–हिरण्यविकाराणि कक्ष्याग्रैवेयाणि येषां ते तथा । कक्ष्याघण्टोपेतमध्यबन्धनशृङ्खलाविशेषः । ग्रैवेयंग्रीवाभूषणभूतस्वर्णशऋङ्खलादिः, “ग्रीवाभ्यो ऽण् च” इति चात् ढञ् ॥ १।५३।१८ ॥
॥ १।५३।१९ ॥ हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम् ।
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १९ ॥
चतुर्भिर्युक्ताः चतुर्युजः । गमकत्वात् समासः । किङ्किणीकैर्विभूषितांस्तथा ॥ १९ ॥
(श्वेताश्वानां चतुर्भिः युजः ।) ॥ १।५३।१९ ॥
॥ १।५३।२० ॥ हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ॥ २० ॥
देशःबाह्वीकादिः । कुलंउच्चैश्रवआदेः ॥ १।५३।२० ॥
॥ १।५३।२१ ॥ नानावर्णविभक्तानां वयस्स्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ २१ ॥
वयस्स्थाःतरुण्यः" वयस्स्थस्तरुणो युवा" ॥ १।५३।२१ ॥
॥ १।५३।२२ ॥ यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम
तावद्ददामि तत्सर्वं, शबला दीयतां मम ॥ २२ ॥
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह, राजन् कथञ्चन ॥ २३ ॥
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ २४ ॥
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ २५ ॥
१अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिपञ्चाशः सर्गः
–
अदोमूला इति । एतन्मूला इत्यर्थः । कामान् दोग्धुं शीलमस्या इतिकामदोहिनी"सुप्यजातौ" इति णिनिः । तरु (२६) मानः सर्गः ॥ २६ ॥
(हे राजन् कथञ्चन शबलां न दास्यामीति भगवान् प्राह–इति योजना ।)
(१ अतोमूलाःच।ज) ॥ १।५३।२६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिपञ्चाशः सर्गः