अथ द्विपञ्चाशः सर्गः
[वसिष्ठातिथ्यम्]
॥ १।५२।१ ॥ स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ १ ॥
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ २ ॥
अथ वसिष्ठेनाश्रमगतराजर्षिसत्कारः–स दृष्ट्वेत्यादि । आश्रममिति शेषः । वसिष्ठं प्रणतः, वसिष्ठेन तव स्वागतमित्युक्तश्चेति योजना । व्यादिदेशदापयति स्म ॥ १।५२।२ ॥
॥ १।५२।३ ॥ उपविष्टाय च तदा विश्वामित्राय धीमते ।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥
फलमूलमिति । ऽजातिरप्राणिनाम्ऽ इत्येकत्वम् ॥ १।५२।३ ॥
॥ १।५२।४ ॥ प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।
तपो ऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ ४ ॥
विश्वामित्रो महातेजा वनस्पतिगणे तदा ।
सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥ ५ ॥
विपुष्पफलवन्तो वनस्पतयः । इदं उपलक्षणं वानस्पत्यानां पुष्पपूर्वफलवतामाम्रादीनाम् । तद्विषये ऽपि कुशलं पर्यपृच्छत् । सर्वत्रेति ।
विश्वामित्रपृष्टसर्वविषय इत्यर्थः ॥ १।५२।५ ॥
॥ १।५२।६,७ ॥ सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ ६ ॥
कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् ।
प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ ७ ॥
राजवृत्तेनेति । “न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ " इति स्मृतेनोपलक्षितस्सन् ॥ १।५२।७ ॥
॥ १।५२।८,९ ॥ कच्चित्ते १सम्भृता भृत्या) कच्चित्तिष्ठन्ति शासने ।
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूजन् ॥ ८ ॥
कच्चिद्धर्मेषु कोशेषु मित्रेषु च परंतप
कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ ९ ॥
कोशःनानाविधधनधान्यार्थनिचयः । पुत्रपौत्र इति । गवाश्वप्रभृतित्वादेकत्वम् ॥ ९ ॥
(१ सुभृताःङ) ॥ १।५२।९ ॥
॥ १।५२।१०,११ ॥ सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठं २विनयान्वितः ॥ १० ॥
कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥
तौ उक्तविशेषणकौ विश्वामित्रवसिष्ठौ उभौ प्रीयेतामिति । अडभाव आर्षः ॥ ११ ॥
(२ विनयान्वितम्ङज) ॥ १।५२।११ ॥
॥ १।५२।१२ ॥ ततो वसिष्ठो भगवान् कथा ऽन्ते रघुनन्दन
विश्वामित्रमिदं वाक्यं उवाच प्रहसन्निव ॥ १२ ॥
प्रहस ऽन्निवेति । प्रसन्नमुख इति शेषः ॥ १२ ॥
(प्रहसन्निवोत्तमातिथिलाभजहर्षेणति, इव शब्द एवार्थे, प्रहसन् सन्नेवशि।) ॥ १।५२।१२ ॥
॥ १।५२।१३,१४ ॥ आतिथ्यं कर्तुमिच्छामि वलस्यास्य महाबल
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ १३ ॥
सत्क्रियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।
राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १४ ॥
प्रतीच्छतु–अङ्गीकरोतु ॥ १।५२।१४ ॥
॥ १।५२।१५ ॥ एवमुक्तो वसिष्ठेन विश्वामित्रो १महामतिः ।
कृतमित्यब्रवीद्राजा २पूजावाक्येन मे त्वया ॥ १५ ॥
पूजावाक्येनेति । आतिथ्यं करिष्यामीत्येवं पूजावाक्येनैव मम पूजनं कृतमिति राजा ऽब्रवीत् ॥ १५ ॥
(१ महामुनिःङ।)
(२ प्रियवाक्येनङ) ॥ १।५२।१५ ॥
॥ १।५२।१६,१७ ॥ फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १६ ॥
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ।
गमिष्यामि, नमस्ते ऽस्तु, मैत्रेणेक्षस्व चक्षुपा ॥ १७ ॥
पूजार्हेणत्वयेति शेषः । मैत्रेणमत्वर्थीयो ऽजन्तः ॥ १।५२।१७ ॥
॥ १।५२।१८ ॥ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
न्यमन्त्रयत धर्मात्मा पुनःपुनरुदारधीः ॥ १८ ॥
निमन्त्रणं–भोजनाय प्रार्थनम् ॥ १।५२।१८ ॥
॥ १।५२।१९ ॥ बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
यथा प्रियं भगवतस्तथा ऽस्तु मुनिसत्तम ॥ १९ ॥
बाढमित्यस्यैव विवरणम्–यथा प्रियमित्यादि ॥ १।५२।१९ ॥
॥ १।५२।२० ॥ एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
आजुहाव ततः प्रीतः कल्मापीं धूतकल्मषाम् ॥ २० ॥
एवमुक्त इत्यादि । विश्वामित्रेणेति शेषः । कल्माषींविचित्रवर्णां, शबलामिति शेषः, ऽवर्णादनुदात्तात्तोपधात्तो नः” इत्यतो ङीष् ॥ १।५२।२० ॥
॥ १।५२।२१ ॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम ।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्यहम् ॥
भोजनेन महार्हेण सत्कारं, संविधत्स्व मे ॥ २१ ॥
शबलेति संज्ञात्वतो वर्णार्थत्वाभावान्न ङीष् । महार्हेण भोजनेन सत्कारं कर्तुं व्यवसित इति योजना । तदर्थं संविधत्स्वस्वतस्तदुपयोगिवस्तुजातं संपादय ॥ १।५२।२१ ॥
॥ १।५२।२२ ॥ यस्य यस्य यथाकामं षड्गसेष्वभिपूजितम् ।
तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम ॥ २२ ॥
मधुरादिषड्गसेषु यस्य यस्य यदभिपूजितं–अभीष्टं तत्सर्वं यथाकामंतत्तत्प्रीत्यनतिक्रमेण मम कृतेमत्प्रयोजनार्थमिति मदर्थकृते इति च तादर्थ्ये निपातद्वयमीरितं, अभिवर्ष ॥ १।५२।२२ ॥
॥ १।५२।२३ ॥ रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विपञ्चाशः सर्गः
–
रसेन–रसायनभेदेन । लेह्यंजिह्वाग्राह्यक्षौद्रादि । चोष्यंअधरपुटग्राह्यमरीचिरसादिः ।
लेह्यचोष्यमिति । ऽसर्वो द्वन्द्वो विभाषाऽ इत्येकत्वम् । एवमुक्तरूपाणां निचयंराशिं कृत्स्नं सृदस्व । अगार(२३ १२)मानः सर्गः ॥ १।५२।२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विपञ्चाशः सर्गः