०५१ विश्वामित्र-वंश-वर्णनम्

अथ एकपञ्चाशः सर्गः

[विश्वामित्रचरितोपक्रमः]

॥ १।५१।१ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।

हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १ ॥

अथ शतानन्देन निजमात्रनुग्रहाय रामनेतरि विश्वामित्रे परमप्रीत्या तद्वैभववर्णनमुत्तरैस्सर्गैः । तस्येत्यादि । हृष्टरोमा–स्वमातुः प्रत्यापतिश्रवणजसन्तोषेण सञ्जातरोमाञ्जः ॥ १।५१।१ ॥

॥ १।५१।२ ॥ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।

रामसन्दर्शनादेव परं विस्मयमागतः ॥ २ ॥

स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।

शातानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ ॥

तौ निषण्णौ संप्रेक्ष्य, तत्रापि रामसंदर्शनादेव परं विस्मयमागतः । अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्त इत्यर्थः ॥ १।५१।३ ॥

॥ १।५१।४ ॥ अपि ते मुनिशार्दूल मम माता यशस्विनी ।

दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४ ॥

स एव विस्मयहेतुः प्रकाश्यते–अपि ते मुनिशार्दूलेत्यादिना ॥ १।५१।४ ॥

॥ १।५१।५ ॥ अपि रामे महातेजा मम माता यशस्विनी ।

वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥ ५ ॥

रामे । रामविषय इति यावत् ॥ १।५१।५ ॥

॥ १।५१।६ ॥ अपि रामाय कथितं १यद्वृत्तं तत् पुरातनम् ।

मम मातुर्महातेजः २ देवेन ३ दुरनुष्ठितम् ॥ ६ ॥

हे महातेजः विश्वामित्र मम मातुर्विषये देवेनइन्द्रेण दुरनुष्ठितरूपं पुरातनं यद्वृत्तं–चरितमस्ति तत् यथा–यथावत् कथितमपि–कथितं किं सर्वतः ? अपिः प्रश्ने ॥ ६ ॥

(१ यथावृत्तं पुरातनम्ङ)

(२ दैवेनघ।ङ)

(३ यदनुष्ठिङ) ॥ १।५१।६ ॥

॥ १।५१।७ ॥ अपि कौशिक भद्रं ते, गुरुणा मम सङ्गता ।

माता मम, मुनिश्रेष्ठ रामसन्दर्शनादितः ॥ ७ ॥

गुरुणापित्रा । रामसन्दर्शनादित इति । गतशापेति शेषः ॥

(रामसन्दर्शनादित इति । तृतीयार्थे तसिःगो। इतः अस्मात् रामसन्दर्शनात् मम माता मम गुरुणा–पित्रा सह संगता अपि ?रा।) ॥ १।५१।७ ॥

॥ १।५१।८,९ ॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज

इहागतो महातेजाः पूजां १प्राप्य महात्मनः ॥ ८ ॥

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज

इहागतेन रामेण २प्रयत्नेनाभिवादितः ॥ ९ ॥

इह अस्मदाश्रये समागतो महातेजा रामः पूजितोपि ? महात्मनो मम गुरोस्सकाशात् पूजां प्राप्य शान्तेन मनसा उपलक्षितेनेहागतेन रामेण मम गुरुः प्रयत्नेनाभिवादितः किम् ? ॥ ८९ ॥

(शान्तेन मनसा उपलक्षितो गुरुःगो।ति)

(१ प्राप्तःङ)

(२ पूजितेनाङ।ज।) ॥ १।५१।८,९ ॥

॥ १।५१।१० ॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।

प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥

नातिक्रान्तं, मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।

सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥

यत् कर्तव्यं तन्नातिक्रान्तं–नातिपतितं, अपि तु मया कृतमेव । किं कृतमित्यतः–संगतेत्यादि । मुनिनागौतमेन । भार्गवेणेति । भार्गवकोपहता रेणुका परशुराममाता यथा पुनर्भार्गवेण–जमदग्निना संगता तद्वदित्यर्थः ॥ १।५१।११ ॥

॥ १।५१।१२,१३ ॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।

शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव

विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १३ ॥

दिष्ट्यादैवयोगेन । विश्वामित्रपुरस्कारेणेह प्राप्तिर्दैवयोगलभ्येति विश्वामित्रस्यैव स्तुतिः । तथैवाग्रे प्रतिपाद्यते । अपराजितं–अप्रतिहतशक्तिम् ॥ १।५१।१३ ॥

॥ १।५१।१४ ॥ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।

विश्वामित्रो महातेजाः, १वेझ्येनं परमां गतिम् ॥ १४ ॥

अचिन्त्यकर्मेति । मनसा ऽप्यन्येनाशक्यचिन्तनप्रतिसृष्ट्यादि कर्तारमेनं तव परां गतिंपरमहितप्रदं वेद्मि ॥ १४ ॥

(वेत्सीत्यत्र काकुःगो।)

(१वेत्स्येनंघ।) ॥ १।५१।१४ ॥

॥ १।५१।१५ ॥ नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन ।

गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १५ ॥

तदेव प्रतिपाद्यतेनास्ति धन्येत्यादि ॥ १।५१।१५ ॥

॥ १।५१।१६ ॥ श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।

यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥ १६ ॥

बलंतपोबलं यथायादृशे, वृत्तंचरितश्च यथा, तथा तत्सर्वं निगदतो मत्तः शृणु ॥ १।५१।१६ ॥

॥ १।५१।१७,१८ ॥ राजा ऽभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।

२ धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७ ॥

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।

कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १८ ॥

राजा ऽभूदित्युक्ते कस्य राज्ञः पुत्र इत्यपेक्षायामुच्यते–प्रजापतिसुत इत्यादि । गतार्थम् ॥ १८ ॥

(२ सर्वज्ञःङ) ॥ १।५१।१८ ॥

॥ १।५१।१९,२०,२१ ॥ कुशनाभसुतस्त्वासीत् गाधिरित्येव विश्रुतः ।

गाधेः पुत्रो महातेजाः विश्वामित्रो महामुनिः ॥ १९ ॥

विश्वामित्रो महातेजाः पालयामास मोदिनीम् ।

बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ २० ॥

कदाचित्तु महातेजाः योजयित्वा वरूथिनीम् ।

अक्षौहीणीपरिवृतः परिचक्राम मेदिनीम् ॥ २१ ॥

वरूथिनींचतुरङ्गबलं योजयित्वासमुपस्थाप्य । अथ अक्षौहिणीसङ्ख्यसेनापरिवृतो भूत्वा ॥ १।५१।२१ ॥

॥ १।५१।२२२५ ॥ नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।

आश्रमान् क्रमशो राम विचरन्नाजगाम ह ॥ २२ ॥

वसिष्टस्याश्रमपदं नानावृक्षसमाकुलम् ।

नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ २३ ॥

देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।

प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ २४ ॥

ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।

तपश्चरणसंसिद्धैः श्रीमद् ब्रह्मकल्पैर्महात्मभिः ।

विद्यामात्राधिकृताः देवाः । लोकसञ्चारिणो नारदाद्या देवर्षयः । विद्याकर्मोभयाधिकृता १भूप्रतिष्ठा वसिष्ठाद्या ब्रह्मर्षथः । श्रीमान् यश्चतुर्मुखो भगवान् ब्रह्मा, तत्तुल्यवैभवैरित्यर्थः ॥ २५ ॥

(१ भूप्रतिष्ठा प्रधाना वसिष्ठाघ।) ॥ १।५१।२५ ॥

॥ १।५१।२६ ॥ अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।

फलमूलाशनैर्दान्तैः जितरोपैर्जितेन्द्रियैः ॥ २६ ॥

ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ २७ ॥

सहजतपोवैभवकर्ता स एव भगवान् ब्रह्मा, तद्रोमनखजवालखिल्याः वैखानसाश्च नित्यतपस्विनो भगवानिव तज्जत्वं तु ऽये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याःऽ इति श्रुतेः ॥ १।५१।२७ ॥

॥ १।५१।२८ ॥ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।

ददर्श जयतां श्रष्ठो विश्वामित्रो महाबलः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकपञ्चाशः सर्गः

सर्वात्मना परमकल्याणस्वभावत्वेन ब्रह्मलोकदृष्टान्तः । उदार(२८ १२)मानः सर्गः ॥ १।५१।२८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकपञ्चाशः सर्गः