०५० मिथिला-गतिः

अथ पञ्चाशः सर्गः

[जनकसमागमः]

॥ १।५०।१ ॥ ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।

विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १ ॥

एवमहल्या ऽनुग्रहरूपश्रीरामचरितवर्णनानन्तरं जनकधनुर्भङ्गादिदिव्यचरितवर्णनशेषतया जनकदर्शने प्रतिपाद्यतेततः प्रागुत्तरामित्यादि । ईशानदिशमित्यर्थः । तत इति । तस्माद्गौतनाश्रमादित्यर्थः ॥ १।५०।१ ॥

॥ १।५०।२ ॥ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।

साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २ ॥

बहूनीह्व सहस्राणि नानादेशनिवासिनाम् ।

ब्राह्मणानां, महाभाग वेदाध्ययनशालिनाम् ॥ ३ ॥

अध्ययनशालिनामिति । सङ्घो दृश्यत इति शेषः ॥ १।५०।३ ॥

॥ १।५०।४ ॥ ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुलाः ।

देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥ ४ ॥

शकटीशतेति । अग्निसम्भारशकटीशतैः सङ्कुलाः ऋषिवाटाःयज्ञार्थमागताग्निहोत्रिमहर्षिनिवासा इत्यर्थः । एवं नैबिड्यात् स्वावासदेशप्रश्नः–देश इत्यादि ॥ १।५०।४ ॥

॥ १।५०।५ ॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।

१निवेशमकरोद्देशे विविक्ते सलिलान्विते ॥ ५ ॥

विविक्ते सलिलान्वित इत्यनेन २योगानुष्ठानसौकर्यमुत्तमम् ॥ ५ ॥

(१ निवासङ।)

(२ यागानुष्ठानग।) ॥ १।५०।५ ॥

॥ १।५०।६ ॥ विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।

शतानन्दं पुरस्कृत्य पुरोहित३मनिन्दितम् ॥ ६ ॥

प्रत्युज्जगामेति । दीक्षितविमितप्रदेशसीमाकमनतिलङ्घयन्निति शेषः ॥ ६ ॥

(३ मनिन्दितःङ।) ॥ १।५०।६ ॥

॥ १।५०।७ ॥ प्रत्युञ्जगाम सहसा४ विनयेन समन्वितः ।

ऋत्विजो ऽपि महात्मानस्त्वर्ध्यमादाय सत्वरम् ॥ ७ ॥

विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ।

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥ ८ ॥

निरामयं–निर्विघ्नम् ॥ ८ ॥

(४ विस्मयेनङ) ॥ १।५०।८ ॥

॥ १।५०।९ ॥ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ।

सं तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥ ९ ॥

स तांश्चेति । स्वस्यार्ध्यदातृन् ऋत्विजश्च कुशलं पृष्ट्वेत्यर्थः । प्रहृष्टवदिति । भावे निष्ठान्तान्मतुप् । सन्तोषसहितं यथा तथा सर्वैः संगतो बभूवेत्यर्थः । कश्चित् ऽतदर्हम्ऽ इति वतिरित्याह–तदसत्–राजानमर्हति छत्रं राजवदिति अहेक्रियावत् द्वितीया समर्थां का चन क्रिया ऽपीह दृश्यते ? ॥ १।५०।९ ॥

॥ १।५०।१० ॥ यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत् ।

अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ १० ॥

आसने भगवन्नास्तां सहैभिर्मृनिसत्तमैः ।

जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥ ११ ॥

निषसाद महामुनिरित्यादिना यथान्यायमासनोपवेशः ॥ १।५०।११ ॥

॥ १।५०।१२ ॥ पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ।

आसनेषु यतान्यायमुपविष्टान् समन्ततः ॥ १२ ॥

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।

अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥ १३ ॥

समृद्धिःअङ्गवैकल्यराहित्येन सद्गुणसमग्राङ्गोपेता जाता । अत एव सफला कृता । इष्टिरिति शेषः ॥ १।५०।१३ ॥

॥ १।५०।१४ ॥ अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव ॥ १४ ॥

यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह ।

द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ॥ १५ ॥

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक

इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ १६ ॥

यज्ञोपसदनं–देवयजनम् । द्वादशाहमिति । द्वादश अहानि समाहृतानि, ऽराजाहःऽ इति टच्, ऽन संख्यादेःऽ इत्यह्वादेशाभावः, द्वादशदिनान्येवावशिष्टानि यज्ञस्येति मनीषिणो विद्वदृत्विज आहुः–वदन्ति । बुवो लटि उसाहौ । देवान् द्रष्टुमर्हसीति । विश्वामित्रे तत्सामर्थ्याविस्मयात् ॥ १।५०।१६ ॥

॥ १।५०।१७२२ ॥ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ।

इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ ॥ १७ ॥

गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ॥ १८ ॥

अश्विनाविव रूपेण समुपस्थितयौवनौ ।

१ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥ १९ ॥

कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ २० ॥

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने

भूपयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २१ ॥

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।

काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २२ ॥

इमौ कुमारावित्यादि गतार्थम् ॥ १७ ॥

(१ एतदनन्तरं–पुण्डरीकविशालाक्षौ वरायुधधरावुभौ ॥ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती । काकपक्षधरौ वीरौ कुमाराविव पावकी । रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणौ ॥ प्राकाश्यं कुलमस्माक मामुद्धतुमिहागतौ । इत्यधिकं क्कचित् ॥ ङ।) ॥ १।५०।१७ ॥

॥ १।५०।२३२६ ॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।

न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २३ ॥

सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।

तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ २४ ॥

अहल्यादर्शनं चैव गौतमेन समागमम् ।

महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ २५ ॥

एतत्सर्वं महातेजा जनकाय महात्मने ।

निवेद्य विररामाथ विश्वामित्रौ महामुनिः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चाशः सर्गः

महाधनुषि जिज्ञासां कर्तुं आगमनमिति । ज्ञानमिहापरोक्षं गृह्यते । महाधनुर्विषये रामस्य दिदृक्षां, तथा दृष्टस्य तस्य सज्जीकरणादिकं च कर्तुमिच्छया आगमनमित्येतत् सर्वं निवेद्य विरराम । चारु (२६)मानः सर्गः ॥ २६ ॥ ॥ १।५०।२३२६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चाशः सर्गः