अथ एकोनपञ्चाशः सर्गः
[अहल्याशापनिवृत्तिः]
॥ १।४९।१ ॥ विफलस्तु ततः शक्रो देवानग्निपुरो१गमान् ।
अब्रवीत् २त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ १ ॥
अथ कथं शतक्रतोर्धर्मबन्धोः अधर्मप्रवृत्तिरिति शङ्कापरिहाराद्युपदेशपूर्वं प्रकृताश्रमप्रवेशादिव्यापारोपदेशः । विफलस्त्वित्यादि । त्रस्तवदन इति । त्रासेन तत्कार्यं दैन्यं लक्ष्यते । दीनवदन इति यावत् ॥ १ ॥
(१ धसःङ।)
(२ आर्तवदनःङ।) ॥ १।४९।१ ॥
॥ १।४९।२ ॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥
गौतमस्य तपसो विघ्नं कुर्वतेति । अस्मदादिदेवपदापहारहेतुत्वात्तत्तपसः विघ्नस्य
स्वात्मरक्षार्थमवश्यकर्तव्यत्वादिति शेषः । एवं च क्रोधमुत्पाद्य तपोनाशरूपं इदं सुरकार्यमेव कृतम् ॥ १।४९।२ ॥
॥ १।४९।३ ॥ विफलो ऽस्मि कृतस्तेन क्रोधात्, सा च निराकृता ।
शापमोक्षेण महता तपो ऽस्यापहृतं मया ॥ ३ ॥
क्रोधविनश्यत्तपसा तेन ऋषिणा ऽहं विफलः कृतो ऽस्मि । सा च अहल्या दुष्टचारिणीति निराकृता परित्यक्ता प्रागुक्तरूपशापपूर्वं । एवं महता उभयत्र शापमोक्षेणास्य तपो मया ऽपहृतम् ॥ १।४९।३ ॥
॥ १।४९।४ ॥ तस्मात् सुरवराः सर्वे सर्षिसङ्घाः सचारणाः
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥
यस्मात् एवं, तस्मात् सर्वे यूयं सुरसाह्यकरं मां सफलं कर्तुमर्हथ ॥ १।४९।४ ॥
॥ १।४९।५ ॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।
१पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥ ५ ॥
पितृदेवाःअग्निकव्यवाहनादयः, तानुपेत्य हव्यवाहनाग्निमुखेन आहुः ऽअग्नेस्तु वचनं श्रुत्वाऽ (श्लो।१०) इति वक्ष्यमाणात्वादिहायं विशेषः ॥ ५ ॥
(१एतदनन्तरंपुरा ऽविचार्य मोहेन ऋषिपत्नीं शतक्रतुः । धर्षयित्वा मुनेश्शापात्तत्रैव विफलः कृतः इदानीं कुष्यते देवान् देवराजः पुरन्दरः ॥ इत्यधिकंङ।) ॥ १।४९।५ ॥
॥ १।४९।६ ॥ अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य २शक्रस्याशु प्रयच्छत ॥ ६ ॥
अयं मेष इति । यो ऽयं भवतां हविष्ट्वेन वाहनत्वेन च कल्पितः अयमित्यर्थः । गृह्यगृहीत्वा । मेषस्य वृषणौ अपहृत्य शक्रस्याशु प्रयच्छत । शक्रस्य वृषणौ मेषस्य च प्रयच्छतेति शेषः । न हि मेषानवृषणान् पश्यामः ॥ ६ ॥
(२ शक्रायाशुङ।) ॥ १।४९।६ ॥
॥ १।४९।७ ॥ अफलस्तु कृतो मेषः परां १ पुष्टिं प्रदास्यति ।
भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ।
२अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥ ७ ॥
कथं तर्हि अफलस्तु कृतो मेषः परां पुष्टिं प्रदास्यति ? युष्माभ्यंयुष्मत्प्रीत्यर्थं ये च मानवाः–अफलं मेषं हविष्ट्वेन दास्यन्ति तेषामक्षयं–स्वार्गादिफलं च दास्यथेति वचनमुच्यते । युष्मभ्यं यदा मेषो हविः सम्पद्यते तदा अफलः–फलांशव्यतिरिक्त एव कृतः–हविष्ट्वेन कृतो युष्मात्पीतये ऽस्तु, तदीयवृषणस्यैन्द्रत्वेन युष्मत्पशव्यत्वात् त्यक्तवृषणकमेव युष्मत्प्रीतये ऽस्तु ॥ ७ ॥
(नन्विदमयुक्तम्, न हि मेषा अवृषणा दृश्यन्त इति चेन्न–अफलः–वृषणभिन्नो यो मेषावयवः भवद्धविष्ट्वेन कल्पितः सः भवतां परां तुष्टिं दास्यतीत्यन्वयात्–ति ॥ )
(१ तुष्टिंङ)
(२ इदमर्धं कुत्रचिन्नास्तिङ) ॥ १।४९।७ ॥
॥ १।४९।८ ॥ अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ ८ ॥
अग्नेस्तु वचनं श्रुत्वेति । अग्निमुखेन कृतं देवनियोगमित्यर्थः । समागताःपितृपितामहप्रपितामहत्रिप्रकारस्वगणैस्सम्भूयागताः तथा, तथैव किल तेषामाराधनम् ॥ १।४९।८ ॥
॥ १।४९।९ ॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः ।
अफलान् भुञ्जते मेषान्, फलैस्तेषामयोजयन् ॥ ९ ॥
अफलान्–फलांशव्यतिरिक्तान् ॥ ९ ॥
(अफलान् मेषान् भुञ्जते । अथापि तेषांसवृषणानां फलैःसवृषमेषदानफलैरयोजयन् । दातृनिति शेषःगो।शि। अफलान्षण्ढान् तदंशरहितान् वा । यतः तेषां फलैः–फलाभ्यामिन्द्रमयोजयन्ति।) ॥ १।४९।९ ॥
॥ १।४९।१० ॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव
गौतमस्य प्रभावेन १तपसश्च महात्मनः ॥ १० ॥
तपसः प्रभावेणावृषणः पितृदेवतानुप्रहेण सवृषणश्चेत्यर्थः ॥ १० ॥
(१ तपसा चङ) ॥ १।४९।१० ॥
॥ १।४९।११ ॥ तदागच्छ महातेजः आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ ११ ॥
हे महातेजः राम पुण्यकर्मणः–गौतमस्य तत्–आश्रमपदं आगच्छ । ननु भगवन् ताटकावत् शापात् घोररूपाहल्यया अवष्टब्धमाश्रमं कथं गच्छेयमित्य२त्रोक्तम्–अहल्यां देवरूपिणीमिति । शापस्य त्वेतदाश्रमावकाशगमनावधिकत्वतो ऽद्य मुक्तशापत्वतो देवरूपिणींदेवगणतुल्यरूपिणीं महाभागामेनांस्वभर्तृप्रतिपत्तिफलकं तदीयमातिथ्यं गृहीत्वा एनां तारय–भर्तृप्रापणेनानुग्रहाण ॥ ११ ॥
(२ त्रोत्तरमुक्तंग।) ॥ १।४९।११ ॥
॥ १।४९।१२ ॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १२ ॥
ददर्श च महाभागां तपसाद्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्षां सुरासुरैः ॥ १३ ॥
अथाश्रमं प्रविश्य यथा विश्वामित्रोक्तं तथैव तां पश्यति स्मेत्युच्यते–ददर्श चेत्यादि । मुक्तप्रतिबन्धेन तपसा सहजभूतेन द्योतिता–प्रकाशिता विद्युदादेरिव दुर्निरीक्षा प्रभा यस्यास्मा तथा । अत एव समागम्य–तस्यास्समीपमागत्य सुरासुरैरपि लोकैर्दुर्निरीक्षाम् ॥ १।४९।१३ ॥
॥ १।४९।१४ ॥ प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
३सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥ १४ ॥
प्रयत्नान्निर्मितामित्यादिना देवराजाभिलषीयदिव्यरूपत्वमुक्तम् । १सतुषारावृतसाभ्रपूर्णचन्द्रप्रभोपमानं, निबिडवृक्षाश्रममध्यवर्तिशान्ततेजोरूपत्वात् । मर्ध्ये ऽभस इत्यादिना प्रतिमासूर्योपमानं । पृष्ठीकृतावरणोपाधिशुद्धसहजतेजसि इदानीं शापान्त एवं स्वभावा एषा ॥ १४ ॥
(३ एतदनन्तरं ऽधूमेनापि परीताङ्गी दीप्तामग्निशिखामिवऽ इत्यधिकम्ङ)
(१ सतुषारावरणसाभ्रघ।) ॥ १।४९।१४ ॥
॥ १।४९।१५,१६ ॥ मर्ध्ये ऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ १५ ॥
त्रयाणामपि लोकानां यावत् रामस्य दर्शनम् ।
शापस्थान्तमुपागम्य तेषां दर्शनमागता ॥ १६ ॥
सा हि गौतमशापवाक्येन यावद्रामस्य दर्शनं दुर्निरीक्ष्या बभूव । सैषा शापस्यान्तमुपागम्य दिव्यरूपा सती तेषां दर्शनमागता ॥ १।४९।१५,१६ ॥
॥ १।४९।१७ ॥ राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १७ ॥
गौतमवचः स्मरन्ती–अस्मदाश्रमप्राप्तराघवपूजया पुनरस्मत्सम्बन्धो ऽस्त्वित्येवंरूपं स्वभर्तृवचनं स्मरन्ती । तत एव हेतोः तौ प्रतिजग्राह । तयोः पूजनीयत्वबुद्धिमकरोदित्यर्थः ॥ १७ ॥
(तौ पादौ प्रतिजग्राह । यत्तु–पूज्यत्वबुद्धिमकरोदिति–तन्न–अग्रे काकुत्स्थ इति एकवचनात्ति।) ॥ १।४९।१७ ॥
॥ १।४९।१८ ॥ पाद्यमर्ध्यं तथा ऽ ऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥
पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।
गन्धर्वाप्सरसां चापि महानासीत् समागमः ॥ १९ ॥
पुष्पवृष्टिरासीदिति । रामस्येति शेषः ॥ १९ ॥
(काकुत्स्थः–लक्ष्मणसहितः रामःशि) ॥ १।४९।१८,१९ ॥
॥ १।४९।२० ॥ साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २० ॥
भगवतो रामस्य ब्रह्मणः पूजया कुतार्थायाः सत्या अहल्यायाः पूजा ॥ १।४९।२० ॥
॥ १।४९।२१ ॥ गौतमो हि महातेजा अहल्यासहितः सुखी ।
रामं संपूज्य विधिवत् तपस्तेपे महातपः ॥ २१ ॥
अहल्यासहितस्सुखी रामं संपूज्येत्यनेन पुनस्तत्काल आश्रमप्राप्तिरिति सूचितम् ॥ १।४९।२१ ॥
॥ १।४९।२२ ॥ रामो ऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनपञ्चाशः सर्गः
–
खुर (२२)मानः सर्गः ॥ १।४९।२२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनपञ्चाशः सर्गः