अथ अष्टचत्वारिंशः सर्गः
[अहल्याशापः]
॥ १।४८।१ ॥ पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
कथा ऽन्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥
अथाहल्याशापमोक्षणं, दिव्यरामचरितप्रतिपादनशेषतया अहल्याशापहेतूपदेशादिस्सर्गद्वयेन । पृष्ट्वा त्वित्यादि । कथा ऽन्ते व्याजहारेति । अनेन प्रसङ्गान्तरे चिन्ताव्याक्षेपपरिहरेण रामस्वरूपादिविषयप्रश्नादरातिशयो द्योत्यते ॥ १।४८।१ ॥
॥ १।४८।२ ॥ इमौ कुमरौ, १भद्रं ते, देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ २ ॥
गजसिंहगती शार्दूलवृषभोपमाविति च क्रमेण रामलक्ष्मणयोर्गमनाकारविषयकोपमाने । गजपती रामः, प्रभुत्वात् अन्यगतिर्लक्ष्मणः ऽ अत एव शार्दूलोपमो रामः, अन्यः अन्योपमः ॥ २ ॥
(१दृष्टिदोषो मामूदित्याहभद्रं त इतिगो ॥ एकवचनं तु जात्या वा एतादृशकुमारानयितृमुन्यभिप्रायेण वा स्यात् ।) ॥ १।४८।२ ॥
॥ १।४८।३ ॥ पद्मपत्रविशालाक्षौ खङ्गतूणीधनुर्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ ३ ॥
समुपस्थितयौवनौ । अत एव रूपेण अश्विनाविव स्थितौ ॥ १।४८।३ ॥
॥ १।४८।४ ॥ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ ? किमर्थं ? कस्य वा ? मुने ॥ ४ ॥
यदृच्छया–दैववशसम्पन्ननिमित्तविशेषेणेति यावत् । इदं तु वास्तवं किमर्थंकिं प्रयोजनमुद्दिश्य । कस्य वेति । सुताविति शेषः ॥ १।४८।४ ॥
॥ १।४८।५ ॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥
भूषयन्ताविति । निजतेजसेति शेषः । तादृशपुरुषान्तरस्याभावात्–परस्परस्येति । प्रमाणंआकारप्रमाणम् । इङ्गितंआन्तराशयबोधकस्मितादिः । चेष्टावचनगमनादि ॥ १।४८।५ ॥
॥ १।४८।६ ॥ किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ ६ ॥
किमर्थं प्राप्ताविति । आदरातिशयात् पुनः प्रश्नः ॥ १।४८।६ ॥
॥ १।४८।७ ॥ १ तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥
यथावृत्तं न्यवेदयदिति । दशरथकुमारावस्मद्यज्ञविघ्ननिवारणार्थं अस्मदाकरणात्सिद्धाश्रममागताविति सिद्धाश्रमनिवासपर्यन्तवृत्तान्तःराक्षसानामिति । तद्वधरूपयज्ञविघ्ननिवृत्तिप्रयोजनम्, चकाराज्जनकधनुर्दिदृक्षयैतद्देशगमनं च न्यवेदयदित्यर्थः ॥ ७ ॥
(आकरणं–आह्वानम् ।)
(१ एतदनन्तरं–अयोध्याधिपतेः पुत्रो राज्ञो दशरथस्य हि । मम यज्ञसमाप्तथर्थं मागतौ रामलक्ष्मणौ ॥ सिद्धाश्रममनुप्राप्य राक्षसानभिहत्य च । इमं देशमनुप्राप्तौ वीरौ दशरथात्मजौ ॥ –इत्यधिकंङ।) ॥ १।४८।७ ॥
॥ १।४८।८ ॥ विश्वामित्रवचःश्रुत्वा राजा २परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ ८ ॥
पूजयामास विधिवत् सत्कारार्हौ महाबलौ ।
ततः परमसत्कारं सुमतेः प्राप्य राघवौ ॥ ९ ॥
उष्य–उषित्वा ॥ ९ ॥
(२ परमविस्मितःङ।) ॥ १।४८।८ ॥
॥ १।४८।१० ॥ उष्य तत्र निशामेकां जग्मुतुर्मिथिलां ततः ।
१ तां दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम् ॥ १० ॥
समपूजयन्निति पूजाप्रकार एव–साधु साध्विति शंसनम् ॥ १० ॥
(तान्–पुरीं प्रति प्रस्थितान् रामादीन्गो।)
(१ तान् दृष्ट्वाते दृष्ट्वाङ।) ॥ १।४८।१० ॥
॥ १।४८।११ ॥ साधु साध्विति शंसन्तो मिथिलां समपूजयन् ।
मिथिलोपवने तत्र आश्रमं दृश्य राघवः । ॥ ११ ॥
मिथिलाया उप–समीपे वर्तमानं वनं तथा । दृश्य–दृष्ट्वा । पुराणत्वादिविशेषणमाश्रमस्य ॥ १।४८।११ ॥
॥ १।४८।१२ ॥ पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ।
श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् ॥ १२ ॥
आश्रमसङ्काशंआश्रमवदभासमानं, नापि चाश्रमशक्यवादम्, इदानीं मुनिवर्जितत्वात्, अत इदं किन्नु ? अस्यैव विवरणम्कस्यायं पूर्व आश्रम इति । पूर्वः–पूर्वकालस्वभूतः ॥ १।४८।१२ ॥
॥ १।४८।१३ ॥ श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ।
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ॥ १३ ॥
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ।
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ॥ १४ ॥
प्रश्नस्यास्य अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषःहन्तेति । महात्मना कोपात् शप्तंप्राप्तशापं इदं आश्रमपदं यस्य भवति, तत्, कथयिष्यामि तत्त्वेन तत् शृण्विति योजना ॥ १।४८।१४ ॥
॥ १।४८।१५ ॥ यस्येदमाश्रमपदं शप्तं कोपान्महात्मना ।
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ॥ १५ ॥
तदेव प्रतिपाद्यते–गौतमस्येत्यादि । दिव्यसङ्काशःदिव्यत्वेन सङ्काशमानः ॥ १।४८।१५ ॥
॥ १।४८।१६ ॥ आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ।
स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ १६ ॥
वर्षपूगानि–अनेकवर्षाणि ॥ १।४८।१६ ॥
॥ १।४८।१७ ॥ वर्ष१पूगान्यनेकानि राजपुत्र महायशः
तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ॥ १७ ॥
अन्तरंमुनिसन्निधानरहितकालं । मुनिवेषधर इति । गौतमवेषधर इत्यर्थः । ऽमम रूपं समास्थायऽ इति वक्ष्यमाणत्वादेवं व्याख्या ॥ १७ ॥
(१ पूगान्गो। एतदनन्तरं–ऽकदाचिद्दिवसे राम ततो दूरं गते मुनौऽइत्यधिकंङ) ॥ १।४८।१७ ॥
॥ १।४८।१८ ॥ मुनिवेषधरो ऽहल्यामिदं वचनमब्रवीत् ।
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते
सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ १९ ॥
ऋतुकालंशास्त्रीयस्त्रीसंसर्गकालं । अर्थिन इति । कामात् सम्भोगार्थिन इत्यर्थः ।
काले सुसमाहितेसङ्गमोचितकाले सुसङ्घट्टिते सति ऋतुकालं न प्रतीक्षन्त इति योजना । हे सुमध्यमे इत्यनेन स्वेनाप्यभिलष्यदिव्यस्त्रीत्वं सूचितम् ॥ १९ ॥
(सुसमाहितेसम्यक् ब्रह्मणा निर्मिते हे अतिसुन्दरीत्यर्थःगो।) ॥ १।४८।१९ ॥
॥ १।४८।२० ॥ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन
१ मतिं चकार दुर्मेधा देवराजकुत्हलात् ॥ २० ॥
मुनिवेषं सहस्राक्षं विज्ञायेति । ऽऋतुकालं प्रतीक्षन्ते नार्थिनःऽ इति वचनात् गौतमव्यतिरिक्तस्याश्रमवर्तिसर्वप्राणिजातस्य नैश्शङ्क्याय गौतमवेषधरो ऽयमिन्द्र इति विज्ञायेत्यर्थः । अथा ऽपि कथमिन्द्रत्वनिश्चयः ? अन्येनैवं मयि प्रवृत्तेरशक्तार्थत्वादित्यनुमानात्, इन्द्रेणैव स्वतस्तत्त्वप्रकाशनाद्वा । देवराजो मामभिलषितवानिति कुतूहलं तथा, तेन हेतुना सम्भोगे मतिं चकारकृतवती च ॥ २० ॥
(सहस्राक्षं विज्ञायकदाचिदपि मुनिना एवमर्थनाभावात्, अन्यस्यात्र प्रवेष्टुमशक्तेः, इन्द्रस्यैवात्मनि बहुकालमभिलाषश्रवणाच्चेति भावःगो। ऽमम रूपं समास्थायऽ (श्लो।२१) इत्युक्तेरत्र मुनिवेषः गौतमवेषः ।)
(१ रतिं चकारङ।) ॥ १।४८।२० ॥
॥ १।४८।२१ ॥ अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
२कृतार्था ऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥ २१ ॥
अथसम्भोगानन्तरम् ॥ २१ ॥
(२कृतार्थो ऽसिङ) ॥ १।४८।२ ॥
॥ १।४८।२२ ॥ आत्मानं मां च देवेश सर्वदा रक्ष मानद
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ २२ ॥
आत्मन् शब्दः इन्द्रार्थः ॥ २२ ॥
(विशिष्टस्त्रीचरितेन प्रहासः,रक्षणस्य दुर्लभत्वाद्वाति।) ॥ १।४८।२२ ॥
॥ १।४८।२३ ॥ सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथा ऽ ऽगतम् ।
एवं सङ्गम्य तु तया निश्चक्रामोटजात् ततः ॥ २३ ॥
स इति पृथक्पदम् । सम्भ्रमःमोहः ऽसम्भ्रमो ऽत्यादरे भयेऽ इति वैजयन्ती । गौतमं प्रति शङ्कितःशङ्कवान् ॥ १।४८।२३ ॥
॥ १।४८।२४ ॥ सं संभ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति ।
गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम् ।
देवदानवदुर्धर्षं तपोबलसमन्वितम् ॥ २४ ॥
अथउटजनिष्क्रमणसमनन्तरमेव । तं ददर्शेति । यं प्रति शङ्कितवान् तं ददर्श ॥ १।४८।२४ ॥
॥ १।४८।२५ ॥ तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ।
गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ २५ ॥
अत एवविषण्णवदनः ॥ १।४८।२५ ॥
॥ १।४८।२६ ॥ दृष्ट्वा सुरपतिस्रस्तो १विषण्णवदनो ऽभवत् ।
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ॥ २६ ॥
(१ विवर्णवदनःङ) ॥ १।४८।२६ ॥
॥ १।४८।२७ ॥ दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ।
मम रूपं समास्थाय कृतवानसि दुर्मते ॥ २७ ॥
मम रूपं इति । अस्मच्छब्दो गौतमार्थः । यस्मादिदं अकर्तव्यंकर्तुमनर्हं कृतवानसि तस्मात् त्वं विफलःविगतवृषणः भविष्यसि । ऽलाभनिष्पत्तिभोगेषु बीजे फाले धने फलम्ऽ ॥ १।४८।२७ ॥
॥ १।४८।२८ ॥ अकर्तव्यमिदं, तस्मात् विफलस्त्वं भविष्यसि ।
गोतमनैवमुक्तस्य सरोषेण महात्मना ॥ २८ ॥
२पेततुर्वषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ।
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ॥ २९ ॥
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ।
वायुभक्षा ३निराहारा तप्यन्ती भस्मशायिनी ॥ ३० ॥
इहेत्यादि । इहआश्रमे बहूनि वर्षसहस्राणि त्वं निवत्स्यसि । कामेन पीडितवतीत्यतः–वाय्वित्यादि । इहाश्रम एव निराहाराअन्नपानप्राप्तिरहिता, अत एव तप्यन्तीपरितप्यमाना भस्मशायिनीनित्यभस्मावृता सर्वभूतानां अदृश्यादृष्ट्यगोचरा केवलं वायुभक्षा सती वसिष्यसि ॥ ३० ॥
(२ एतदनन्तरं ऽव्यथितस्सहसा चासीद्धतौजा विफलीकृतः । धर्षितस्तपसोग्रेण कश्मलं चैवमाविशत् ॥ इत्यधिकंङ।)
(अत्र बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते । ेवं व्यक्ततया वाल्मीकिवचने स्थिते शैलीभवेति शापः, रामपादस्पर्शात् शिलात्वमुक्तिरिति पुराणकथा कल्पान्तरवृत्तमनुसृत्येति बोध्यम्गो।)
(३ शिला भूत्वाङ) ॥ १।४८।३० ॥
॥ १।४८।३१ ॥ १अदृश्या सर्वभूतानां आश्रमे ऽस्मिन् वसिष्यसि ।
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ॥ ३१ ॥
इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३२ ॥
इत्यार्षे श्रीमद्रामाणे बालकाण्डे अष्टचत्वारिंशः सर्गः
–
एवं शापं उक्त्वा इममाश्रममुत्सृज्य हिमवच्छिखरे तपस्तेपे ।
ननु शिलारूपेणावस्थाने शापं तस्य च रामपादस्पर्शे मोक्षं चोक्तवान् गौतम इति वदन्ति । तत्कथं ? त्वमेव पश्य शिलारूपा भवेति शापग्रन्थिः, तथा शिलारूपं जहाविति तन्मोक्षप्रति पादको ग्रन्थो ऽस्तीति सा प्रसिद्धिर्निर्मूला वा ? समूलैव । कथं ? किञ्चित्पुराणप्रसिद्धिमूला । तर्हि तद्वेदं वा प्रमाणं ? रामेण शरसेतुबन्धप्रसिद्धिवत्कल्पभेदे शिलाशापादिप्रसिद्धिरिति । वाल्मीक्यनुभवगोचररामावतारे शिलाहल्यामोक्षणं रामचरिते नास्तीत्येव । कश्चित्तु पुराणश्लोकं ऽएवमुक्त्वा महातेजास्संहारं तु तदा ऽकरोत् । यदा चैतद्वनं घोरम्ऽ इत्यादि सार्धश्लोकद्वयं गौतमेन शापमोक्षप्रतिपादकं प्राक्षिपत् । व्याकरोच्च शिलाकथामपि । व्याकरोत् । किं नः ? राग(३२) मानः ॥ ३२ ॥
(१एतदनन्तरंयदा चैतद्वनं घोरं रामो दशरथात्मजः । आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ तस्यातिथ्येन दुर्वत्ते लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ इदमधिकम्ङ।)
(पुराणादिप्रसिद्धशिलारूपप्राप्तिशापस्तु कल्पान्तरीण इति न विरोधः । अत्र शिलारूपत्वे तात्पर्यकल्पने वातभक्षेत्यनेन विरोधः स्पष्ट एवेति केचित् । वस्तुतस्तु अदृश्येत्यस्य स्वरूपेणादृश्या, शिलाप्रतिमारूपेण संवदृश्येत्यर्थः । न व तावता चैतन्यहानिरिति, क्षुधादिपीडा स्यादेवेत्यतः–वातभक्षा–इति न कश्चिद्विरोधःतदुक्तं पाद्मे–ऽशापदग्धा पुरा भर्त्रा राम शक्रापराधतः । अहल्याख्या शिला जज्ञे शतलिङ्गः कृतः स्वराट्ऽ इति–ति– । ।)
(महेश्वरतीर्थः । तथा हि–ऽघोरमित्यनेनऽ इदं वनं मुनिवर्ज भवत्विति गौतमेन शप्तमित्यवगम्यते–ऽस्वं वपुर्धारयिष्यतिऽ इत्यनेन पद्मपुराणोक्तपाषाणावस्था सूच्यते–तथा च पाद्मे ऽ सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत् सुरूपा वनिता समाक्रान्ता महाशिलाऽ इति ॥ )
(अयं भागः तिलके ऽनूदितः ॥ ) ॥ १।४८।३२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टचत्वारिंशः सर्गः