अथ सप्तचत्वारिंशः सर्गः
[विशालागमनम्]
॥ १।४७।१ ॥ सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनया ऽब्रवीत् ॥ १ ॥
अथ गर्भेभेदात्परं किं वृत्तं दितिशक्रयोरित्यतःसप्तधेत्यादि । दुराधर्षमिति । न्याय्योपायजेतृत्वादित्याशयः ॥ १।४७।१ ॥
॥ १।४७।२ ॥ ममापराधाद्गर्भो ऽयं सप्तधा विफलीकृतः ।
नापराधो ऽस्ति, देवेश तवात्र बलसूदन ॥ २ ॥
स एवोच्यतेममेत्यादि ॥ १।४७।२ ॥
॥ १।४७।३,४ ॥ प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ ३ ॥
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ॥
गर्भस्य विपर्ययःविपत्तिः, तन्निमित्तप्राप्तौ यत्त्वया कृतं सप्तधा विभागरूपं कर्म, तत् तव यथा प्रियं भवति तथा कर्तुं इच्छामि । कथमित्यतः–मरुतामित्यादि । इमे त्वत्तो विभक्ताः सप्त वातस्कन्धाः–वातसंस्थानविशेषाः सप्तानां मरुतां सप्तसङ्ख्याका स्थानपाला भवन्तुलोकरक्षिणो भवन्तु । तदर्थमेव चेमे सप्त मे पुत्रका दिविस्वे चरन्तु । अपि च दिव्यरूपा ममात्मजाः मारुता इति विख्याताश्च भवन्तु ॥ १।४७।३,४ ॥
॥ १।४७।५ ॥ ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथा ऽपरः ।
दिवि वायुरिति ख्यातस्तृतीयो ऽपि महायशाः ॥ ५ ॥
केषां सप्तमरुतां स्थानपाला इमे भवन्त्वित्यतःब्रह्मलोकमिति । ब्रह्मलोकंब्रह्मस्थानं पालयन् चरतु । तथा इन्द्रलोकमित्यादि । दिविअन्तरिक्षे, विष्णुलोक इत्यर्थः ॥ १।४७।५ ॥
॥ १।४७।६ ॥ चत्वारस्तु, सुरश्रेष्ठ दिशो वै तव शास ऽनात् ।
सञ्चरिष्यन्तु, भद्रं ते, देवभूता ममात्मजाः ॥ ६ ॥
दिशःपूर्वादिमहादिशः । त्वत्कृतेनेति । मारुदो मारुद इति वचनमूलेनेति शेषः ॥ १।४७।६ ॥
॥ १।४७।७ ॥ त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ।
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ॥ ७ ॥
उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ।
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ॥ ८ ॥
यथोक्तमिति । ब्रह्मविष्णुरुद्रचतुर्दिक्पालस्थानपालकतादिरूपमित्यर्थः । अत्र ब्रह्मादिस्थानपालवायूनां नामानि तु–“गगनस्स्पर्शनो वायुरनिलश्च तथा ऽपरः । प्राणः प्राणेश्वरो जीव इत्येते मारुताः स्मृताः” इति । तेषां कर्मनामानि तु–ऽआवहप्रवहसंवहोद्वहानुवहपरिवहपरिवहविहवाःऽ इति । तत्र आसमन्ताद्वाही आवहो गगनमयब्रह्मलोकपालकत्वात् गगनाख्यो ज्येष्ठः । तथा ऽन्येपि
द्रष्टव्याः ॥ १।४७।८ ॥
॥ १।४७।९ ॥ विचरिष्यन्ति, भद्रं ते, देवरूपास्तवात्मजाः ।
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥ ९ ॥
मातापुत्राविति । ऽआनङृतःऽ इत्यत्र ऋत इति पुत्र इत्यप्यनुवर्तनात् पुत्रेत्युत्तरपदे ऋकारान्तस्य आनङ् । नः
श्रुतमिति । मतिबुद्धीत्यादिना वर्तमानोक्तेः ऽक्तस्य च वर्तमानेऽ इति कर्तरि षष्ठी । अस्माभिः श्रूयत इत्यर्थः ॥ १।४७।९ ॥
॥ १।४७।१० ॥ जग्मतुस्त्रिदिवं, राम कृतार्थाविति नः श्रुतम् ।
एष देशस्स काकुत्स्थ महेन्द्राध्युपितः पुरा ॥ १० ॥
एवं वर्णितेन्द्रचरितस्य प्रकृतशेषत्वं प्रदर्श्यतेएष इत्यादि । स एष इत्यन्वयः । एवमिति प्रागुक्तरीत्यनुवादः ॥ १।४७।१० ॥
॥ १।४७।११ ॥ दितिं यत्र तपस्सिद्धामेवं परिचचार सः ।
इक्ष्वाकोस्तु, नरव्याघ्र पुत्रः परमधार्मिकः ॥ ११ ॥
एवमुक्तप्राशस्त्ये देशे विशालोत्पत्तिकथनम्इक्ष्वाकोस्त्वित्यादि ॥ १।४७।११ ॥
॥ १।४७।१२ ॥ अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ १२ ॥
कृता आसीत् इत्यन्वयः । एवं विशालामुपवर्ण्य, ऽकतरो राजवंशो ऽद्य विशालायाम्ऽ इत्युत्तरशेषतया वंशपरम्परा प्रतिपाद्यतेविशालस्येत्यादि ॥ १।४७।१२ ॥
॥ १।४७।१३ ॥ विशालस्य सुतो राम हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ १३ ॥
सुचन्द्रतनयो राम घूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १४ ॥
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १५ ॥
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ १७ ॥
पुरीमावसतीति । ऽउपान्वध्वाङ्वसःऽ इत्याधारस्य कर्मत्वम् ॥ १।४७।१७ ॥
॥ १।४७।१८ ॥ इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १८ ॥
विशाला निवासः येषां ते वैशालिकाः । कुमुदादित्वात् ठक् ॥ १।४७।१८ ॥
॥ १।४७।१९ ॥ इहाद्य रजनीं, राम सुखं वत्स्यामहे वयम् ।
श्वः प्रभाते, नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ १९ ॥
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ २० ॥
प्रत्युद्गच्छदिति । अभ्युत्थानमकरोदित्यर्थः ॥ १।४७।२० ॥
॥ १।४७।२१,२२ ॥ पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमधाब्रवीत् ॥ २१ ॥
धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे विषयं मुनिः ।
संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः
–
मया सदृशो ऽन्यो धन्यतरो नास्तीति योजना । वर(२४)मानः सर्गः ? ॥ २२ ॥ ॥ १।४७।२१,२२ ॥
(खरमान इति स्याद्वा । खकारवकारयोः ग्रन्थलिप्यामक्षरसाम्यात् ।)
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तचत्वारिंशः सर्गः