अथ षट्चत्वारिंशः सर्गः
[दितिगर्भभेदनम्]
॥ १।४६।१ ॥ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥ १ ॥
किन्तत इत्यतो ब्रूते–हतेष्वित्यादि ॥ १।४६।१ ॥
॥ १।४६।२ ॥ हतपुत्रा ऽस्मि भगवन् तव पुत्रैर्महा१बलैः ।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपो ऽर्जितम् ॥ २ ॥
दीर्घेण तपसा अर्जितो दीर्घतपो ऽर्जितः ॥ २ ॥
(१ त्मभिःङ) ॥ १।४६।२ ॥
॥ १।४६।३ ॥ २सा ऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ ३ ॥
ईश्वरंत्रैलोक्यनाथम् ॥ ३ ॥
(२ अतदनन्तरं ऽबलवन्तं महेष्वासं स्थितिज्ञं समदर्शनम् इत्यधिकंङ) ॥ १।४६।३ ॥
॥ १।४६।४ ॥ तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४ ॥
एवं भवतु, भद्रं ते, शुचिर्भव तपोधने
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ ५ ॥
शुचिर्भवेति । यावत्पुत्रोत्पत्तीति शेषः ॥ १।४६।५ ॥
॥ १।४६।६ ॥ पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ ६ ॥
शुचिर्यदि भविष्यसीति । संवत्सरसहस्रमपीति शेषः ॥ १।४६।६ ॥
॥ १।४६।७ ॥ एवमुक्त्वा महातेजा पाणिना सम्ममार्ज ताम् ।
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥
पाणिना तां सम्ममार्जेति । दिव्यपुत्रप्रतिबन्धहेतुपापक्षयार्थमिति शेषः । अथ समालभ्यउदरं स्पृष्ट्वा स्वस्तिगर्भरूपं भद्रं तवास्त्वित्यनुगृह्य सः काश्यपः तपसे ययौ ॥ १।४६।७ ॥
॥ १।४६।८ ॥ गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ।
कुशप्लवनंविशालानिर्मितेः पूर्वं तद्देशतपोवनम् ॥ ८ ॥
कुशप्लवनंविशालानिर्मितेः पूर्वं तद्देशतपोवनम् ॥ १।४६।८ ॥
॥ १।४६।९ ॥ तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ ९ ॥
परया गुणसम्पदेति । शुश्रूषकसुपुत्रगुमगणसम्पदेत्यर्थः ॥ १।४६।९ ॥
॥ १।४६।१० ॥ अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ १० ॥
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ ११ ॥
सैव गुणसम्पत् प्रकाश्यते–अग्निं कुशानित्यादि । पुत्रत्वाद्गात्रसंवाहनादिः । दितिं परिचचारेति कथनं एवं पितृवचनस्याशक्यान्यथातनत्वात् भविष्यदरातेः मातृप्रीत्या आराददितिवक्ष्यमाणरीत्या सौमनस्यसिद्ध्ये ऽसत्याशुच्यवकाशे न्यायप्राप्तारातिविनाशाय । अथापि कथमेतत्परिचर्यामियेष दितिः ? दैवभाययैवेति केवलमिहोत्तरम् ॥ १।४६।१०,११ ॥
॥ १।४६।१२ ॥ अथ वर्षसहस्रे तु दशोने रघुनन्दन
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥
दशभिरूनंदशोनम् ॥ १।४६।१२ ॥
॥ १।४६।१३ ॥ याचितेन सुरश्रेष्ठ पित्रा तव महात्मना ।
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १३ ॥
सुतं प्रतीति । सुतप्राप्तिं प्रतीत्यर्थः ॥ १।४६।१३ ॥
॥ १।४६।१४ ॥ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर
अवशिष्टानि, भद्रं ते, भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥
तदर्थंतपश्चरन्त्या इति षष्ठी ॥ १।४६।१४ ॥
॥ १।४६।१५ ॥ तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥
हे पुत्र अहं तंत्वद्भ्रातरं त्वज्जयोत्सुकं त्वत्कृतेत्वत्सुखार्थं समाधास्ये–गतवैरं भ्रातृस्नेहवन्तमेव करिष्ये इत्यर्थः । त्रैलोक्यविजयमिति–त्वद्भातृपतमिति शेषः ॥ १।४६।१५ ॥
॥ १।४६।१६ ॥ एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रया ऽपहृता देवी पादौ कृत्वा ऽथ शीर्षतः ॥ १६ ॥
ऽप्राप्ते मध्यं दिवाकरेऽ इत्यनेन दिवास्वारूपं पापं सूचितम् । पादौ कृत्वा ऽथ शीर्षत इति । आद्यादित्वात् षष्ठ्यर्थे तसिः । शीर्षस्याधस्स्थाने पादौ कृत्वा । कथमेवं भवति ? शिरसस्तु निद्रावशात् पादयोः प्रह्वता यदा भवति तदैव स्पष्टमुच्यते, पादयोर्निद्रावशतः शिरसः स्थापनेन मूर्धजानामपि पादयोः कृतत्वं भवति ॥ १।४६।१६ ॥
॥ १।४६।१७ ॥ दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।
शिरस्स्थाने कृतौ पादौ, जहास च मुमोद च ॥ १७ ॥
उक्त एवार्थ उपपाद्यते–शिर इत्यादि । शिरसो ऽधस्स्थाने पादौ सुस्पष्टौ कृतौ । एवं च ब्राह्मणस्य शूद्रस्पर्शेनेव शिरःपादस्पर्शतः अशुचिं–प्राप्ताशुचिं तां दृष्ट्वा प्राप्तरन्ध्रत्वात् मुमोद । मोदवशात् जहास च–स्मितमपि प्राप्तवानित्यर्थः । कश्चित्तु शय्यायां यत्र पादौ निधीय्येति तत्र पादयोः स्थाने कृतमूर्धजामित्याह । परिवृत्य शयनमपि किं पापं ? कुतश्च मध्याह्णे यथाप्राप्तशय्याप्रसक्तिः ? तपश्चरन्त्यास्तस्याः कदा ऽपि शय्यामात्रस्य ? वक्तत्रः वदतु यथेष्टमज्ञानात् ॥ १।४६।१७ ॥
॥ १।४६।१८ ॥ तस्याः शरीरविवरं प्रविवेश पुरन्दरः ।
गर्भं च सप्तधा, राम बिभेद्र परमात्मवान् ॥ १८ ॥
शरीरविवरं गर्भच्छेदाय प्रविवेश । प्रवेशोचितं योनिविवरमित्यर्थः ॥ १।४६।१८ ॥
॥ १।४६।१९ ॥ भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सस्वरं, राम ततो दितिरबुध्यत ॥ १९ ॥
शतपर्वणेति । ऽशतकोटिःऽ इति प्रसिद्धं शतपर्वत्वं । तत इति । भिद्यमानगर्भस्य रोदनशब्देनेत्यर्थः ॥ १।४६।१९ ॥
॥ १।४६।२०,२१ ॥ मा रुद्रो मा रुद्रश्चेति गर्भं शक्रो ऽभ्यभाषत ।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ २० ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततश्शक्रो मातुर्वचनगौरवात् ॥ २१ ॥
न हन्तव्य इति । विभागे ऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥ १।४६।२०,२१ ॥
॥ १।४६।२२,२३ ॥ प्राञ्जलिर्वज्रसहितो दितिं शक्रो ऽभ्यभाषत ।
अशुचिर्देवि सुप्ता ऽसि पादयोः कृतमूर्धजा ॥ २२ ॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा, देवि तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
(पादयोः कृतमूर्धजा, अत एव अशुचिरसती त्वं सुप्ता ऽसि इत्यन्वयः ।)
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्चत्वारिंशः सर्गः
–
आहवे शक्रस्य–मम हन्तारं अङ्कुरच्छेदन्यायेन अभिन्दं । तन्मे अपचारं त्वं क्षन्तुं अर्हसि । ऽयो हिंसार्थमभिक्रान्तं हन्ति, मन्युरेव मन्युं स्पृशति, न तस्मिन् दोषःऽ इत्यादिधर्मशास्त्रात्
स्ववधप्राप्तगवादेरपि हननमदोष इति मत्वैवेदं कृतं, अतस्त्वया क्षन्तव्यमेव न मयि को ऽपि दोष इत्यर्थः । गर (२३) मानः सर्गः ॥ २३ ॥ ॥ १।४६।२२,२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्चत्वारिंशः सर्गः