अथ पञ्चचत्वारिंशः सर्गः
[क्षीरार्णवमथनम्]
॥ १।४५।१ ॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥
अथ महेन्द्रचरितपुण्यकथा च प्रसङ्गात्सर्गत्रयेण–विश्वामित्रवच इत्यादि । विश्वामित्रमब्रवीत् । रात्रिकाले इति शेषः ॥ १।४५।१ ॥
॥ १।४५।२,३ ॥ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया ।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ २ ॥
क्षणभूतैव नौ रात्रिः संवृत्तेयं महातपः
इमां चिन्तयतस्सर्वां निखिलेन कथां तव ॥ ३ ॥
तव कथामिति । वोपदेशश्रुतार्थमित्यर्थः ॥ १।४५।३ ॥
॥ १।४५।४ ॥ सन्तुष्टं मे मनो ब्रह्मन् इत्युक्त्वा विरराम ह ।
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ॥ ४ ॥
तस्य रामस्य चिन्तयानस्य जगामेति । तच्चिन्तोपेततया अतीतेत्यर्थः ॥ १।४५।४ ॥
॥ १।४५।५ ॥ जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ॥ ५ ॥
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ।
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥ ६ ॥
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ॥ ७ ॥
राघववचनप्रकारः–गतेत्यादि । तरामःतरणं कुर्मः । शुभमास्तीर्णंआस्तरणं यस्यास्सा तथा । ऋषीणां नौस्त्वरितमागतेति योजना ॥ १।४५।७ ॥
॥ १।४५।८ ॥ भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ।
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ ८ ॥
कारयामासेति । स्वार्थे णिः । अकरोदिति यावत् । । ८ ॥
(कोशिक इति शेषः) ॥ १।४५।८ ॥
॥ १।४५।९ ॥ संतारं कारयामास १सर्षिसङ्घः सराघवः ।
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ॥ ९ ॥
सम्पूज्यर्षिगणमिति । नावानायकमिति शेषः ॥ ९ ॥
(१ सर्षिसङ्घस्य कौशिकःङ) ॥ १।४५।९ ॥
॥ १।४५।१० ॥ गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।
ततो मुनिवरस्तूर्णं जगाम सह राघवः ॥ १० ॥
दृष्ट्वा विशालां जगामेति योजना ॥ १।४५।१० ॥
॥ १।४५।११ ॥ विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ।
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ॥ ११ ॥
विशालां पप्रच्छेति । विशालाविषयं प्रश्नं कृतवानित्यर्थः ॥ १।४५।११ ॥
॥ १।४५।१२,१३ ॥ पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।
कतरो राजवंशो ऽयं विशालायां महामुने
श्रोतुमिच्छामि, भद्रं ते, परं कौतूहलं हि मे ॥ १२ ॥
विशालां पप्रच्छेति । विशालाविषयं प्रश्नं कृतवानित्यर्थः ॥ १।४५।१२ ॥
॥ १।४५।१३ ॥ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
अख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥
एवं प्रश्ने सम्प्रत्ययं वर्तत इत्युत्तरशेषतया विशालाया महादेवतासिद्धिश्रेत्रत्वेन महाक्षेत्रत्वं, पश्चात्काले विशालपुरीनिर्मितिश्चोच्यतेआख्यातुमित्यादिना । विशालस्येति । विशालापुर्यधिष्ठानदेशस्येत्यर्थः । तस्य पुरातनमिति । विशालापुरीनिर्मितेः प्राक्तनं वृत्तान्तमिति शेषः ॥ १।४५।१३ ॥
॥ १।४५।१४ ॥ श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् ।
अस्मिन् देशे तु यद्वृत्तं तदपि श्रृणु राघव ॥ १४ ॥
शक्रस्य कथां विशालावैभवप्रतिपादनशेषतया कथयतो मत्तः सकाशात् कथा श्रूयतां । अस्मिन् देशेविशालपुर्यधिष्ठानदेशे । यद्वृत्तमिति । पुरातनं भूतत्वेन श्रृण्विति योजना ॥ १।४५।१४ ॥
॥ १।४५।१५ ॥ पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महामाग वीर्यवन्तः सुधार्मिकाः ॥ १५ ॥
अदितिपुत्राणामभ्यधिकं विशेषणंसुधार्मिका इति । आसन्निति शेषः ॥ १।४५।१५ ॥
॥ १।४५।१६ ॥ ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयाः ॥ १६ ॥
म्रियन्त इति मराः पचाद्यच् । अमराःमरणधर्मरहिता इति यावत् । जराकालवशावर्ज्यप्राप्तदुःखं, आमयाःशक्याशक्यप्रतिक्रिया व्याधयः । एतावदेव सांसारिकदुःखम् ॥ १।४५।१६ ॥
॥ १।४५।१७ ॥ तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १७ ॥
तत्र वैक्षीरोदे प्रसिद्धं रसंसारममृतरूपरसायनमित्यर्थः ॥ १।४५।१७ ॥
॥ १।४५।१८ ॥ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
१मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥
योक्त्रंमथनरज्जुः । ऽवशाखे मन्थमन्थानौऽ ॥ १८ ॥
(१ एतदनन्तरं–
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च । वमन्त्यतिविषं तत्र ददंशुः दशनैश्शिलाः ॥
उत्पपाताग्निसङ्काशं हालाहलमहाविषम् । तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् ॥
अथ देवा महादेवं शङ्कर शरणार्थिनः । जग्मु पशुपतिं रुद्रं त्राहि त्राहिति तुष्टुवुः ॥
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः । प्रादुरासीत्ततोत्रैव शङ्खचक्रधरो हरिः ॥
उवाचैनं स्मितं कृत्वा रुद्रं शूलभूतं हरिः । दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥
तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रजोसि यत् । अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत । देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शाङ्गिणः ॥
हालाहलविषं घोरं स जग्राहामृतोपमम् । देवान्निमृज्य देवेशो जगाम भगवान् हरः ॥
ततो देवाः सगन्धर्वारतुष्टुवुर्मधुसूदनम् । त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि । इति श्रुत्वा हृवीकेशः कामठं रूपमास्थितः ॥
पर्वंतं पृष्ठतः कृत्वा शिश्ये तत्रोधर्धौ हरिः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः । उदतिष्ठत्स धर्मात्मा आयुर्वेदमयः पुमान् ॥
इत्यधिकम्ङ एतच्श्लोकस्थाने कुत्रचिदेवं पाठःङ। अथ दीर्घेण कालेन कालाग्निसदृशं विषम् । उदतिष्ठन्नरश्रेष्ठ हालहलमिति श्रुतम् ॥
सुरासुराश्च वित्रस्ताः दग्धास्तेन विषाग्निना । शरण्यं जग्मुर्भगवन्तं महेश्वरम् ॥
कृत्वा ऽल्पपिण्डं पाणिस्थं तद्विषं भगवान् हरः । सर्वलोकहितार्थाय भगवान् परमेश्वरः ॥
कण्ठस्थमकरोत् प्राश्य लीलया लोकपूजित । प्रणम्य विज्वरा जग्मुः देवदेवं वृषध्वजम् । ।
मन्दरं पूर्ववत् कृत्वा ममन्थुरमितौजसः । ततः पर्वतमूलं तु पातालं तु प्रवेशितम् ॥
सुरासुराश्च निश्चेष्टाः बभूवुः क्लेशविक्लवाः । देवदुःखनिवृत्त्यर्थं आगतः पुरुषोत्तमः ॥
भयं त्यजत भद्रं वः उद्धरिष्याम्यहं गिरिम् । इत्युक्त्वा कूर्मरूपेण विशेश क्षीरवारिधौ ॥
मन्दरं पृष्ठतः कृत्वा ववृधे कूर्मरूपधृत् । सुरासुरैरनाक्रान्तमुद्गतो ऽथ नरोत्तम ॥
नगाग्रं पीडयामास वामहस्तेन माधवः । ममन्थ देवतानां च मध्ये नारायणो हरिः ॥
अथ वर्षसहस्रेण ज्येष्ठा नाम वराङ्गना । उत्पपात वरारोहा सागरेरेव कल्पिता ॥
अभवत् पारिजाताख्यः वृक्षः इन्द्राय कल्पितः ॥ ) ॥ १।४५।१८ ॥
॥ १।४५।१९ ॥ अथ वर्षसहस्रेण सदण्डः सकमण्डलुः ।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ १९ ॥
धन्वन्तरिरिति । उत्पपातेति योजना । अप्सरा इत्याकारान्तात् बहुवचनम् ॥ १।४५।१९ ॥
॥ १।४५।२० ॥ अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसो ऽभवन् ॥ २० ॥
अप्सु निर्मिथनादिति । अव्विकारक्षीरनिर्मथनादित्यर्थः । अलुक् छान्दसः । तस्मादिति । मथ्यमानात् क्षीरोदलवणादपां सरसो रसादुत्पन्नत्वादेवेत्यर्थः । पृषोदरादित्वात्साधुः ॥ १।४५।२० ॥
॥ १।४५।२१ ॥ षष्टिः कोट्यो ऽभवंस्तासां अप्सराणां सुवर्चसाम् ।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ २१ ॥
तासामिति । षष्ठिकोटिसङ्ख्यानां प्रधानाप्सरसामित्यर्थः ॥ १।४५।२१ ॥
॥ १।४५।२२ ॥ न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।
अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ॥ २२ ॥
न ताः प्रतिगृह्णन्ति स्मेति । अपरिमितपरिचारकोपेतषष्टिकोट्यप्सरस इति यावत् । ममैवमा नान्यस्येत्यसाधारण्येन न प्रतिगृह्णन्ति स्म, देवा दानवाश्चेत्यर्थः । किं विरक्ताः ? उत ताः दुर्भगाः ? यतो ऽप्रतिग्रहःउच्यते–तासां देवदानवमध्ये विशिष्य वारुणीवत् किञ्चित्पतिमार्गणाभावेन य आयाति स आयातु न इति सम्मुग्धाकारतया स्थितत्वादेव विशिष्य तासां प्रतिग्रहाभावः । तदेवोक्तम्–अप्रतिग्रहणादित्यादि ॥ १।४५।२२ ॥
॥ १।४५।२३ ॥ वरुणस्य ततः कन्या वारुणी रघुनन्दन
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ २३ ॥
वरुणस्येति । क्षीरार्णवाधिष्ठातृदेवताया इत्यर्थः । परिग्रहमिति । केनचित् पत्या असाधारण्येन परिग्रहमित्यर्थः ॥ १।४५।२३ ॥
॥ १।४५।२४ ॥ दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ २४ ॥
अदितिसुतैर्वारुणीपरिग्रहे हेतुः–अनिन्दितामिति । कथं एतत् ?–शास्त्रेणाधिकारिविशेषविषये ऽविगानात् शास्त्रस्य च देवतानधिकारात् स्वरूपतस्तद्ग्राहिणां सुखहेतुत्वश्रवणाच्च अनिन्दितत्वम् ॥ १।४५।२४ ॥
॥ १।४५।२५ ॥ असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
हष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥ २५ ॥
सुरास्तेनेति मत्वर्थीयाजन्तः । येन सुरापरिग्रह एषामस्ति तेनेत्यर्थः ॥ १।४५।२५ ॥
॥ १।४५।२६,२७ ॥ १उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ २६ ॥
अथ तस्य कृते राम महानासीत् कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ २७ ॥
अथ तस्य कृत इति । तस्यामृतस्य ग्रहणनिमित्तमित्यर्थः । ततः–कलहप्रवृत्यनन्तरं ॥ २७ ॥
(१ एतदनन्तरं–
उदातेष्टन्नरश्रेष्ठ सोमदेवस्तथैव च । तुरगं देवराजाय कौस्तुभं केशवाय च ॥
धन्वन्तरिर्महातेजा लोकरक्षणतत्परः । आयुर्वेदमयो राम तथा साधारणः स्मृतः ॥
सुरासुराश्च गन्धर्वाः क्षोभयामासुरम्बुधिम् । ततो दीर्घेण कालेन चोत्पन्ना कमलालया ॥
अतीव रूपसम्पन्ना प्रथमे वयसि स्थिता । सर्वाभरणपूर्णाङ्गी सर्वलक्षणलक्षिता ॥
मकुटाङ्गदचित्राङ्गी नीलकुञ्चितमूर्धजा । तप्तहाटकसङ्काशा मुक्ताभरणभूषिता ॥
चतुभुजा महादेवी पद्महस्ता वरानना । सा च देवी तथोत्पन्ना पद्मा श्रीर्लोकपूजिता ॥
सा पद्मा पद्मनाभस्य ययौ वक्षःस्थलं हरेः । इत्यधिकं क्वचित्ङ) ॥ १।४५।२७ ॥
॥ १।४५।२८ ॥ एकतामगमन् सर्वे ह्यसुरा राक्षसैस्सह ।
युद्धमासीन्महाघेरं वीर त्रैलोक्यमोहनम् ॥ २८ ॥
असुरा राक्षसैः सह एकतामगमन् । अदितिपुत्रसूद्यमानानां स्वेषां बलसिद्ध्यर्थमिति शेषः । वीरेति सम्बुद्धिः ॥ १।४५।२८ ॥
॥ १।४५।२९ ॥ यदा १क्षयं गताः सर्वे तदा विष्णुर्महाबलः ।
अमृतं सो ऽहरत्तूर्णं मायामास्थाय मोहिनीम् ॥ २९ ॥
सर्व इति । परस्परप्रहारेण सामान्यात् सर्वदेवासुरा अमृता?मानिनो यदा क्षयं गताःक्षयप्रायं गताः, तदा अमृतस्य सुहरवात् सःप्रसिद्धः विष्णुः मध्यस्थत्वबुद्ध्युत्पादनाय मोहिनींकाममोहजननीं मायांमायातनुमास्थाय तूर्णममृतमहरत् ॥ २९ ॥
(१ क्षयं गतं सर्वम्ङ) ॥ १।४५।२९ ॥
॥ १।४५।३० ॥ ये गता ऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ ३० ॥
अथ ये गताभिमुखं, सवर्णदीर्घ आर्षः, ये सुरा असुरा वा मायामूर्त्या गृहीतामृतं विष्णुमभिमुखा अमृतजिघृक्षया गताः–प्राप्ताः, ते सर्वे तदा सूर्त्यन्तरास्थानेन प्रभविष्णुना विष्णुना युद्धे (सर्वे) सम्पिष्टाः । उभयेषां मध्ये ये जितास्तेभ्य इदं अमृतं २दास्यति, बलात्कारेणास्यामृतादितृनहं हन्मीत्युक्त्वा सामान्यतस्सर्वे सुरा निवारिता इत्यर्थः ॥ ३० ॥
(२ दास्यामि, इति स्यात् ) ॥ १।४५।३० ॥
॥ १।४५।३१ ॥ अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥ ३१ ॥
ततश्चामृतजिघृक्षया जयाय दैतेयादित्ययोः–दितिशब्द औणादिककृतीकारान्तः । तस्मात् ऽकृतिकारादक्तिनःऽ इति ङीषि ऽस्त्रीभ्यो ढक्ऽ इति ढकि दैतेयाः, ऽदित्यदित्यादित्यऽ इत्यदितिशब्दात् ण्यःआदित्याः तयोरुभयोः भृशं प्रवृत्ते तस्मिन् युद्धे अदितेरात्मजाः दितेः पुत्रान्निजघ्निरे । धार्मिकत्वतो भगवद्विष्ण्वनुग्रहवत्त्वादिति शेषः ॥ १।४५।३१ ॥
॥ १।४५।३२ ॥ निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः
–
दितिपुत्रांश्च राज्यमित्यत्र चकारेण राज्यममृतं च प्राप्येत्यर्थः । अत्र ऽममन्थुरमितौजसःऽ इत्यनन्तरं हालाहलोत्पत्त्यादिप्रतिपादकं पुराणान्तरस्थमत्र प्रक्षिप्य अन्यस्तद्व्याचकार । नास्माभिः प्राचीनसुशुद्धपुस्तकेषु ते श्लोका दृश्यन्ते । ननु कथं तत्प्रसङ्गस्येहावर्णनं ? अमृतप्रदानराहुशिरच्छेदप्रसङ्गस्य वा कुतो न वर्णनं ? सङ्क्षेपादिति चेत्सा दृष्टिरत्रापि दीयताम् । खल(३२)मानः सर्गः ॥ ३२ ॥ ॥ १।४५।३२ ॥
(महेश्वरतीर्थः।)
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चचत्वारिंशः सर्गः