अथ चतुश्चात्वारिंशः सर्गः
[सगरपुत्रोद्धारः]
॥ १।४४।१ ॥ स गत्वा सागरं राजा गङ्गया ऽनुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥
अथ ऽप्लावयत् पूतपाप्मानःऽ इति प्राक् सङ्क्षोपोक्तबीजार्थस्य विस्तरःस गत्वेत्यादि । भस्मसात्कृताःसर्वात्मना भस्मभावापत्तये सम्पादिताः । ऽविभाषा साति कार्त्स्न्येऽ इति सातिः ॥ १।४४।१ ॥
॥ १।४४।२ ॥ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ २ ॥
सर्वलोकानांसर्वभूवनानां सर्वभुवनवर्तिप्राणिनां च प्रभुःअसङ्कोचोपचारेण ईश्वरः ॥ १।४४।२ ॥
॥ १।४४।३ ॥ तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥
तारिताःप्रेत्यभावादुत्तारिताः देववत् ॥ १।४४।३ ॥
॥ १।४४।४ ॥ सागरस्य जलं लोके यावत् स्थास्यति पार्थिव
सागरस्यात्मजास्तावत् स्वर्गे स्थास्यन्ति देववत् ॥ ४ ॥
स्वर्गप्राप्तेर्विशेषं चानुगृह्णातिसागरस्येत्यादि ॥ १।४४।४ ॥
॥ १।४४।५ ॥ इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्ना ऽथ लोके स्थास्यति विश्रुता ॥ ५ ॥
त्वत्कृतेनेति । त्वन्मूलत्रिपथगत्वधर्मकृतेनेति यावत् ॥ १।४४।५ ॥
॥ १।४४।६ ॥ गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ ६ ॥
तत्कृतनामादिविश्रुतत्वमेव प्रकाशयति–गङ्गा त्रिपथगेत्यादि । तत्कृतनाम्नो ऽन्वर्थत्वं दर्शयति–त्रीनित्यादि । अनेन कथं गङ्गा त्रिपथगा श्रुतेत्यस्योत्तरं संवृत्तम् ॥ १।४४।६ ॥
॥ १।४४।७ ॥ पितामहानां सर्वेषां त्वमत्र मनुजाधिप
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ ७ ॥
कुरुष्वेति । गङ्गाजलसेकतः कृतप्रायश्चित्तत्वेन सलिलदानार्हतस्सलिलदानाद्युत्तरक्रियानुमतिः । अपवर्जय । अपवर्गस्समाप्तिः । गरुत्मदुपदिष्टस्य गङ्गोदकेन सलिलक्रियाप्रतिज्ञानोपदेशस्यानुष्ठानसमाप्तिं कुर्वित्यर्थः ॥ १।४४।७ ॥
॥ १।४४।८ ॥ पूर्वकेण हि ते राजन् तेनातियशसा तदा ।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ ८ ॥
पूर्वकेणेति । सागरेणेति यावत् । तस्य गङ्गा ऽलाभदुःखित्वकुत्सा कप्रत्ययेन द्योत्यते ॥ १।४४।८ ॥
॥ १।४४।९,१० ॥ तथैवांशुमता तात लोके ऽप्रतिमतेजसा ।
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ ९ ॥
राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १० ॥
क्षत्रधर्मे स्थितेनापि मत्तुल्यतपसा । तपः–स्वाध्यायः । अयं ब्रह्मवद्बर्मर्षिवच्च दुर्लभः क्षत्रियेणेति स्तुतिः । महर्षिसमतेजसेति । अनेन पूर्णतपस्त्वं स्वाध्यायातिरिक्तमुक्तमेव ॥ १।४४।१० ॥
॥ १।४४।११ ॥ दिलीपेन महाभाग तव पित्रातितेजसा ।
पुनर्न १शकितां नेतुं गङ्गां प्रार्थयता ऽवनघ ॥ ११ ॥
गङ्गां पुनर्नेतुं प्रार्थयता ऽपि सा पुनर्नेतुं न शकिता सौ नामतेतस्येद्यत्वट् । अशक्या भूदित्यर्थः । कश्चित् शङ्कितेति मृषोक्तिव्याख्याने प्रायतिष्ट । तथा ऽग्रेपि ॥ ११ ॥ ॥ १।४४।११ ॥
(१ न शङ्कितान विचारितागो)
(महेश्वरतीर्थः गोविन्दराजो वा।)
॥ १।४४।१२ ॥ सा त्वया १समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ
प्राप्तो ऽसि परमं लोके यशः परमसंमतम् ॥ १२ ॥
समनुक्रान्तासमनुतिष्ठितपारा ॥ १२ ॥
(१ समतिक्रान्ताङ) ॥ १।४४।१२ ॥
॥ १।४४।१३,१४ ॥ यच्च गङ्गावतरणं त्वया कृतमरिन्दम
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ १३ ॥
प्लावयस्वं त्वमात्मानं नरोत्तम सदोचिते ।
सलिले, पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ १४ ॥
प्लावयस्वेत्यादिरूपसंहारेम वादः । अत्मानंत्वद्देहं । सदोचित इति । कर्कटकमध्ये ऽपि स्नानोचिते भूप्रभवनदीनामेव तत्काले भौमत्वमूलरजस्सम्बन्धात् स्नानाद्यनर्हत्वम् । पुण्यफल इति । मत्वर्थीयो ऽजन्यः ॥ १४ ॥
(बहुव्रीहिर्वाति) ॥ १।४४।१४ ॥
॥ १।४४।१५ ॥ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्तिते ऽस्तु, गमिष्यामि स्वं लोकं, गम्यतां नृप ॥ १५ ॥
स्वं लोकं गमिष्यामि इति । त्वया च गम्यतां स्वपुरं, कृतोदकक्रियेणेति शेषः । अयं नियोगो राजधर्मपरिपालनाय ॥ १।४४।१५ ॥
॥ १।४४।१६,१७,१८,१९,२० ॥ इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
यथा ऽ ऽगतं तथा ऽगच्छत् देवलोकं महायशाः ॥ १६ ॥
भगीरथो ऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
यथाक्रमं यथान्यायं सागराणां महायशाः ॥ १७ ॥
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥ १८ ॥
प्रमुमोद च लोकस्तं नृपमासाद्य राघव
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ १९ ॥
एष ते, राम गङ्गाया विस्तरो ऽभिहितो मया ।
स्वस्ति प्राप्नुहि, भद्रं ते, सन्ध्याकालो ऽतिवर्तते ॥ २० ॥
उपसंहारःएष त इत्यादि । स्वस्ति प्राप्नुहिभद्रं प्राप्नुहि । भद्रं तवास्तु । सन्ध्याकालःसायंसन्ध्याकालः ॥ १।४४।२० ॥
॥ १।४४।२१ ॥ धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्गमतीव च ।
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ २१ ॥
स्कन्दाख्यानस्येव गङ्गावतरणाख्यानस्य च श्रवणादिफलंधन्यमित्यादि । ऽगोव्द्यचो ऽसङ्ख्यापरिमाणाश्वादेर्यत्ऽ इति यत् । इतरेषुविट्शूद्रेष्वति यावत् ।
प्रीयन्तेप्रीञ् प्रणिने । पितरः प्रीयन्ते–प्रीता भवन्ति ॥ १।४४।२१ ॥
॥ १।४४।२२ ॥ प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।
इदमाख्यानमव्यग्रो गङ्गावतरणां शुभम् ॥ २२ ॥
यः श्रुणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः
–
गिरि(२३)मानः सर्गः ॥ १।४४।२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुश्चत्वारिंशः सर्गः