अथ त्रिचत्वारिंशः सर्गः
[गङ्गावतरणम्]
॥ १।४३।१ ॥ देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतिं राम संवत्सरमुपासत ॥ १ ॥
अथ भगीरथस्य गङ्गावतरणयात्राशेषकथनम्–देवदेव इत्यादि । आजानजानामपि देवानां देवः, सर्वालङ्कारोपचारभूतिकृत्यविमुक्ततानीत्यादियोगाद्देवतानामीशस्स्वेशित्रनुग्रहादित्युच्यमानदिविदेवधर्मत्वसम्पादकः । अङ्गुष्ठाग्रेति । एकाङ्गुष्ठाग्रेणेति यावत् । उपासतेति । छान्दसं बहुवचनम् । उमापतिमिति शेषः ॥ १।४३।१ ॥
॥ १।४३।२,३,४ ॥ [ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः ।
अचलस्स्थाणुवत् स्थित्वा रात्रिंदिवमरिन्दम ॥ ]
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ २ ॥
प्रीतस्ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
[तमब्रवीन्नृपवरो गङ्गां धारय वै हर ॥
इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव ।]
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३ ॥
१ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तथा सतिमहद्रूपं कृत्वा वेगं च दुस्सहम् ॥ ४ ॥
आकाशादपतद्राम शिवे शिवशिरस्युत ।
तथा सतीति । ईश्वरेण धारणाङ्गीकारे सतीत्यर्थः । शिवेशोभने । उतअनन्तरम् ॥ १।४३।४ ॥
॥ १।४३।५ ॥ अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ।
विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥ ५ ॥
ननु महद्रूपं वेगं दुस्सहं च किमर्थमकरोदित्यतः–अचिन्तयदित्यादि ॥ १।४३।५ ॥
॥ १।४३।६ ॥ तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ॥ ६ ॥
तस्यावलेपनमिति । छान्दसस्सन्धिः । अवलेपनंस्वस्यापि स्रोतसा ऽभिभवनचिन्तारूपं गर्वम् । तिरोभावयितुंतिरोहितांअभिभूतां कर्तुम् ॥ १।४३।६ ॥
॥ १।४३।७ ॥ सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ।
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ॥ ७ ॥
जटामण्डलेन गह्वरेदुष्प्रवेशनिर्गमे ॥ १।४३।७ ॥
॥ १।४३।८ ॥ सा कथंचिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ।
नैव निर्गमनं लेभे जटामण्डलमोहिता ॥ ८ ॥
यत्नमास्थिता ऽपि महीं गन्तुं नाशक्नोत् । अन्ततः निर्गमनंजटामण्डलाद्बहिर्निर्गमनमपि न लभे ॥ १।४३।८ ॥
॥ १।४३।९ ॥ तत्रैवा १बभ्रमद्देवी संवत्सरगणान् बहून् ।
तामपश्यन् पुनस्तत्र तपः परममास्थितः ॥ ९ ॥
तर्हि किं कृतवतीत्यत्रोच्यते–तत्रैवेत्यादि । अबभ्रमदिति । भ्रान्ता ऽभूत् । सन्वदित्वाभावः छान्दसः । अथ जटया तिरोहितां गङ्गां अपश्यन् भगीरथः पुनश्च तत्र तत्प्राप्तिविषये हरमुद्दिश्य परमं तप आस्थितः ॥ ९ ॥
(१ बभ्रमत्ङ) ॥ १।४३।९ ॥
॥ १।४३।१० ॥ अनेन तोषितश्चासीत् अत्यर्थं रघुनन्दन
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ १० ॥
ततः अनेन तपसा हरः तोषितश्चासीत् । ततस्तुष्टस्सन् हरो बिन्दुसरः प्रति, हिमवति ब्रह्मनिर्मितसरोविशेषो बिन्दुसरः, तत्प्रति विससर्ज ॥ १।४३।१० ॥
॥ १।४३।११ ॥ तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।
ह्लादिनी पावनी चैव नलिनी च तथा ऽपरा ॥ ११ ॥
तस्यामित्यादिना त्रिपथगमनं भगीरथतपोहेतुकमुक्तम् ॥ १।४३।११ ॥
॥ १।४३।१२,१३ ॥ तिस्रः प्राचीं दिशं जग्मुः गङ्गाश्शिवजलाश्शुभाः ।
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ॥ १२ ॥
१ तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १३ ॥
एतेन त्रीन् पथः केन हेतुनेत्यस्योत्तरं जातमेव ॥ १३ ॥
(१ एतदनन्तरं–ऽतथैव चालिका नाम विश्रुता लोकपावनी ।ऽ इत्यधिकं क्कचित्ङ।) ॥ १।४३।१३ ॥
॥ १।४३।१४ ॥ भगीरथो ऽपि राजर्षिः दिव्यं स्यन्दनमाश्रितः ।
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १४ ॥
अतः परं ऽकर्मभिः कैस्समन्विताऽ इति बहुवचनदर्शितचरितभेदप्रश्नस्योत्तरम्–भगीरथो ऽपीत्यादि । तं चापीति । प्रागुत्तरदिशीव दक्षिणाञ्जिगमिषुञ्चाप्यनुव्रजत् । अडभाव आर्षः ॥ १।४३।१४ ॥
॥ १।४३।१५ ॥ गगनाच्छङ्करशिरः, ततो धरणिमाश्रिता ।
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ १५ ॥
तीव्रशब्दपुरस्कृतमित्यत्र हेतुः–गगनादित्यादि ॥ १।४३।१५ ॥
॥ १।४३।१६ ॥ मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा ।
पतद्भिः पतितैश्चान्यैः व्यरोचत वसुन्धरा ॥ १६ ॥
“शिंशुमारस्त्वम्बुकपिः” इति वैजयन्ती । कप्याकारो जलचरविशेष इत्यार्थः । पतद्भिरिति वर्तमानप्रयोगः ॥ १।४३।१६ ॥
॥ १।४३।१७ ॥ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।
व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ १७ ॥
गगनात् गां गतामिति । रुद्रजटाकाशात् भुवमित्यर्थः ॥ १।४३।१७ ॥
॥ १।४३।१८ ॥ विमानै१र्गगनाकारैर्हयैर्गजवरैस्तदा ।
पारिप्लव२गताश्चापि देवतास्तत्र विष्ठिताः ॥ १८ ॥
गजवरैरिति । चरन्त इति शेषः । गगनशब्देन मेधा लक्ष्यन्ते । पारिप्लवो यानभेदः (शिबिकादिभेदः) शिबिकादिरूपः कुबेरादेः तं गताः । द्वितीयासमासः ॥ १८ ॥
(घारिप्लवं संभ्रमं गतैरिति विमानादिविशेषणम्गो)
(१ र्नगराकारैःङ)
(गतैःङ) ॥ १।४३।१८ ॥
॥ १।४३।१९ ॥ तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।
दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ १९ ॥
अमितौजसो देवगणाः इत्यनेन वस्वादय उच्यन्ते ॥ १।४३।१९ ॥
॥ १।४३।२० ॥ सम्पतद्भिस्सुरगणैस्तेषामाभरणौजसा ।
शतादित्यमिवाभाति गगनं गततोयदम् ॥ २० ॥
उक्तविशेषणमूलमुपमानं–सम्पतद्भिरित्यादि ॥ १।४३।२० ॥
॥ १।४३।२१ ॥ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ।
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २१ ॥
विक्षिप्तैः–निस्सृतैरिति यावत् । विद्युच्छब्दो ऽपि पुल्लिङ्गः, लिङ्गमशास्यमिति प्रयोगैकावसेयत्ववादाल्लिङ्गस्य । कथं तर्हि विद्युदादेर्नियतलिङ्गपाठः ? प्रायो ऽभिप्रायादित्येव ॥ १।४३।२१ ॥
॥ १।४३।२२ ॥ पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।
शारदाभ्रैरिवाकीर्णैः गगनं हंससंप्लवैः ॥ २२ ॥
सलिलोत्पीडःफेनः । सहस्रधा कीर्यमाणैरिति । वाय्वाद्युपाधित इति शेषः । अत एव आकीर्णैश्शारदाभ्रैरिव हंससंप्लवैः हंससमूहैरिव च गगनं आभातीति पूर्वेणान्वयः । एवं पाङ्क्ते पाठे अर्थे च स्थिते आकीर्णमिति पठति । सलिलोत्पीडो जलपिण्ड इति च १व्याकरोति ॥
(१ मज्ञेश्वरतीर्थः) ॥ १।४३।२२ ॥
॥ १।४३।२३ ॥ क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।
विनतं २क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ २३ ॥
क्वचिद्दूततरं यातीति । ३गङ्गासलिलमिति शेषः । आयतं–बहुप्रेदेशव्यापितया विस्तृतप्रवाहं, क्वचिद्विनतंअगाधदेशे सङ्कुचितप्रवाहं । उद्धूतमिति । पाषाणादिताडनादिति शेषः । इदमेवोर्ध्वपथगमने ऽपि निमित्तम् ॥ २३ ॥
(२ क्वचिदुद्भूतम्–ङ)
(३ गाङ्ग सलीलमित्यार्षःग) ॥ १।४३।२३ ॥
॥ १।४३।२४,२५ ॥ सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
महुरूर्ध्वमुखं गत्वा पपात वसुधातलम् ॥ २४ ॥
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २५ ॥
निर्मलत्वे हेतुः भ्रंशद्वयम् ॥ १।४३।२५ ॥
॥ १।४३।२६ ॥ तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ २६ ॥
भवाङ्गं–जटा ॥ १।४३।२६ ॥
॥ १।४३।२७,२८ ॥ शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ २७ ॥
१ धूतपापाः पुनस्तेन तोयेनाथ २शुभान्विताः ।
पुनराकाशमाविश्य स्वांल्लोकान् प्रतिपेदिरे ॥ २८ ॥
न केवलं पापसंहारमात्रं कृत्यं गङ्गायाः अपि तु पुण्यलोकप्रापणमपीत्युच्यते–पुनराकाशमित्यादि ॥ २८ ॥
(१ धूतशापाः–ज)
(२ सुभास्वता–ङ। ज) ॥ १।४३।२८ ॥
॥ १।४३।२९ ॥ मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ २९ ॥
दर्शनमात्रेण मुदितो लोकः विशिष्य स्नानपानादिना मुमुदे ॥ १।४३।२९ ॥
॥ १।४३।३०,३१,३२ ॥ भगीरथो ऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतो ऽन्वगात् ॥ ३० ॥
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३१ ॥
सर्वाश्चाप्सरसो राम भगीरथ ३रथानुगाः ।
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ॥ ३२ ॥
भगीरथरथानुगास्सन्तो गङ्गामन्वगमन् । एतेन स्वस्वपुरुषार्थप्रयोजना गङ्गासेवोपदिष्टा ॥ ३२ ॥
(३ रथानुगाम्घ) ॥ १।४३।३२ ॥
॥ १।४३।३३ ॥ यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३३ ॥
यतस्तत इति । यत्र तत्रेति यावत् ॥ १।४३।३३ ॥
॥ १।४३।३४ ॥ ततो हि यजमानस्य जह्लोरद्भुतकर्मणः ।
गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ॥ ३४ ॥
अद्भुतकर्मण इति वक्ष्यमाणगङ्गोपसंहाराभिप्रायकम् ॥ १।४३।३४ ॥
॥ १।४३।३५ ॥ तस्यापलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥ ३५ ॥
१ तस्यावलेपनं, प्राग्वत् । सर्वं जलं अपिबत् इति । अगस्त्यस्समुद्रजलमिव योगशक्त्येति शेषः । परमाद्भुतमिति । तदभवल्लोकस्येति शेषः ॥ ३५ ॥
(परमाद्भुतमिति क्रियाविशेषणम्गो।)
( सन्धिरार्ष इति भावः)
(१ तस्यावलेपनं ज्ञात्वाग) ॥ १।४३।३५ ॥
॥ १।४३।३६ ॥ ततो देवाः सगन्धर्वाः ऋषयश्च सुविस्मिताः ।
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३६ ॥
पूजयन्ति । स्तोत्रादिद्वारेति शेषः ॥ १।४३।३६ ॥
॥ १।४३।३७ ॥ गङ्गां २चानुनयन्ति स्म दुहितृत्वे महात्मनः ।
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ॥ ३७ ॥
दुहितृत्वेदुहितृभावापत्तौ । शैलराजदुहिता ऽहं कथमन्यस्य दुहिता स्यामिति विमतिवशादनुनयो गङ्गायाः । ततस्तुष्ट इति । गङ्गाया देवैस्स्वदुहितृत्वप्रापणादित्यर्थः ॥ ३७ ॥
(२ चापि नयन्तिङ) ॥ १।४३।३७ ॥
[विसृज्य गङ्गां राजेन्द्रो ज्ञात्वा प्राप्तं भगीरतम् ।]
[पूजयित्वा यथान्याय यज्ञवाटमुपागमत् ॥ ]
तस्माञ्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।
यतः पीतां पुनश्चासृजत् तस्मादेव हेतोः जह्नुसुतेति समासवृत्त्या, जाह्नवीति तद्धितवृत्त्या च गङ्गा अपत्यतया जह्नोरुच्यते ॥
॥ १।४३।३८ ॥ जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥ ३८ ॥
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ ३९ ॥
तस्य कर्मणः सिद्ध्यर्थमिति । भगीरथस्य स्वंवंश्योद्धारकर्मसिद्ध्यर्थम् ॥ १।४३।३९ ॥
॥ १।४३।४० ॥ भगीरथो ऽपि राजर्षिः गङ्गामादाय यत्नतः ।
पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ ४० ॥
यत्नत इति । यत्नाः प्रागुक्तलक्षणाः । भस्मत्वेन कृताःभस्मकृताः, कपिलकोपवह्निनेति शेषः ॥ १।४३।४० ॥
॥ १।४३।४१ ॥ १अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
प्लावयत्, पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ४१ ॥
(१ एतदनन्तरं–ततस्तु गङ्गां प्रतिलभ्य राजा दिलीपसूनुर्गगनाच्च शङ्करात् । हृष्टोवतार्याशु नृपाच्च जह्नोः सम्भावयामास पितामहान्सः ॥ ४६ ॥ इत्यधिकंङ झ।)
इति श्रीमद्रामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः
–
प्लावयत्–सेचयति स्म । ततः पूतपाप्मान इत्यादि । पर्व(४१)मानः सर्गः ॥ ४१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिचत्वारिंशः सर्गः
– ॥ १।४३।४१ ॥