०४२ भगीरथ-यत्नः

अथ द्विचत्वारिंशः सर्गः

[भगीरथतपः ।

॥ १।४२।१ ॥ कालधर्मं गते, राम सगरे प्रकृतीजनाः ।

राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥

अथ गङ्गायास्त्रिपथगमनहेतुप्रकार एव प्रस्तुतः प्रतिपाद्यते–कालधर्ममित्यादि । संसारिमात्रस्य कालेनावश्यंभावी धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजनाः इति छान्दसो दीर्घः । प्रकृतिजनः अमात्ववर्गः । “प्रकृतिस्सहजे योनावमात्ये परमात्मनि” । राजानं रोचयामासुरिति । न्यायप्राप्तत्वादेव ॥ १।४२।१ ॥

॥ १।४२।२,३ ॥ स राजा सुमहानासीदंशुमान् रघुनन्दन

तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ २ ॥

तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन

हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ ३ ॥

तपस्तेप इति । तपःकर्मकतपेः कर्मवद्भावात् सर्वत्रात्मनेपदमित्युक्तमेव । पितृणां गतय इति शेषः ॥ १।४२।२,३ ॥

॥ १।४२।४,५ ॥ द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।

तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥ ४ ॥

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।

दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥

पैतामहं वधमिति । स्वपितामहानां सागराणामपमृत्युमित्यर्थः ॥ १।४२।४,५ ॥

॥ १।४२।६ ॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया ।

तारयेयं कथं चैतानिति चिन्तापरो ऽभवत् ॥ ६ ॥

निश्चयानधिगतिरेवाभिनीयतेकथमित्यादि ॥ १।४२।६ ॥

॥ १।४२।७,८,९ ॥ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।

पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।

त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।

व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ ९ ॥

व्याधिनेति । पितृणामुद्धरणालाभजदुःखजेनेति शेषः ॥ १।४२।७,८,९ ॥

॥ १।४२।१० ॥ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।

राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १० ॥

ननु राज्ये पुत्रं भगीरथमभिषिच्य इन्द्रलोकं दिलीपो गतवानिति इहोच्यते । कालिदासस्तु दिलीपपुत्रं रघुमाह । किमिह प्रमाणम् ? उभयमपि प्रमाणम् । भगीरथपुत्रकदिलीपादन्य एव तद्वंश्यो रघुपुत्रकदिलीप इति ॥ १।४२।१० ॥

॥ १।४२।११ ॥ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन

अनपत्यो महातेजाः प्रजाकामः सचाप्रजः ॥ ११ ॥

अनपत्य इत्यादि व्याकृतचरः ॥ १।४२।११ ॥

॥ १।४२।१२ ॥ मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ।

स तपो दीर्घमातिष्ठत् गोकर्णे रघुनन्दन ॥ १२ ॥

गोकर्णःहैमवतपादविशेष एव । तपस उत्तरत्रैव गन्तव्यत्वात् ॥ १।४२।१२ ॥

॥ १।४२।१३ ॥ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १३ ॥

अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।

पञ्चाग्निमध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः । उभावपि मध्यमपदलोपिसमासौ । परः पृषोदरादित्वात्साधुत्वमित्याह । तदसत्यत्र वर्णविकारलोपादेशादि श्मशानबलाहकादिवत्, तत्रैव तेन साधुताया वक्तव्यत्वात् । काकदन्तपरीक्षां करिष्यामीति शाब्दिकत्वमत्या बहुस्थले मृषाप्राप्तीर्वदति । तत्सर्वं मदुच्यमानरीतिदृक्शाब्दिकशिरोमणीनाममत्सराणां सुदर्शमित्यर्थवादाः अशक्यगणनातो नानुद्यन्ते । तदप्युच्यमानरीतितः पदवाक्यसाहित्यनिष्णातसूरिदर्शनम् ॥ १।४२।१३ ॥

॥ १।४२।१४ ॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।

सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ १४ ॥

प्रजानां पतिरिति स्वापत्यत्वादेव । ईश्वर इति अनन्यसामान्यतया सर्वसंसारपञ्चकृत्यप्रवर्तकत्वात् ॥ १।४२।१४ ॥

॥ १।४२।१५,१६,१७,१८ ॥ ततस्सुरगणैस्सार्धं उपागम्य पितामहः ।

भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १५ ॥

भगीरथ महाभाग प्रीतस्ते ऽहं जनेश्वर

तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १६ ॥

तमुवाच महातेजाः सर्वलोकपितामहम् ।

भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १७ ॥

यदि मे भगवन् प्रीतो यद्यास्ति तपसः फलम् ।

सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयुः ॥ १८ ॥

यदि प्रीतः, यद्यस्ति इति वादो दुःखातिशयात् ॥ १।४२।१८ ॥

॥ १।४२।१९ ॥ गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।

स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १९ ॥

मत्तस्सलिलमाप्नुयुरिति–कीजृशमित्यपेक्षायांगङ्गाया इत्यादि । एषां भस्मनि गङ्गायास्सलिलक्लिन्न एव स्वर्गं गच्छेयुः, नान्यथा तथा गरुत्मद्वचनात् । अतस्तादृशं सलिलं मत्तः आप्नुयुः ॥ १।४२।१९ ॥

॥ १।४२।२० ॥ देया च सन्ततिर्देव नावसीदेत् कुलं च नः ।

इक्ष्वाकूनां कुले देव एष मे ऽस्तु वरः परः ॥ २० ॥

इक्ष्वाकूनां कुल इति । उत्पन्नस्य मम इति शेषः । परो वर इति । द्वितीयो वर इत्यर्थः ॥ १।४२।२० ॥

॥ १।४२।२१,२२ ॥ उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।

प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षरम् ॥ २१ ॥

मनोरथो महानेएः भगीरथ महारथ

एवं भवतु, भद्रं ते, इक्ष्वाकुकुलवर्धन ॥ २२ ॥

मनोरथ इति । तावक इति शेषः ॥ १।४२।२१,२२ ॥

॥ १।४२।२३ ॥ इयं हैमवती गङ्गा ज्येष्ठा हिमवतस्सुता ।

तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ २३ ॥

इयमिति भगवत्समीपे स्थितत्वान्निर्देशः ॥ १।४२।२३ ॥

॥ १।४२।२४ ॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति ।

तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ २४ ॥

कुतो हरनियोग इत्यतः–गङ्गाया इत्यादि ॥ १।४२।२४ ॥

॥ १।४२।२५ ॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।

जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विचत्वारिंशः सर्गः

गङ्गां चाभाष्येति । वत्से१ राजानं यथाकालमनुगृहाणेत्युक्त्वेति यावत् । देवैः–आजानजैः । मरुद्गणाः–कर्मदेवाः । २मरु (२५)मानः सर्गः ॥ १।४२।२५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विचत्वारिंशः सर्गः