अथ एकचत्वारिंशः सर्गः
[सगरयज्ञसमापनम्]
॥ १।४१।१ ॥ पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन
नप्रारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥
एवमश्ववदश्वान्वेषिष्वपि प्रत्यागमनरहितेषु सगरस्य तदुभयान्वेषणप्रवृत्तिः–पुत्रानित्यादि । चिरगतान् ज्ञात्वेति । अप्रत्यायातानिति शेषः । नप्तारंपौत्रम् ॥ १।४१।१ ॥
॥ १।४१।२ ॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्यो ऽसि तेजसा ।
पितृणां गतिमन्विच्छ येन चाश्वो ऽपवाहितः ॥ २ ॥
पूर्वैःपितृभिः । गतिंवृत्तान्तं । येन चाश्वो ऽपवाहितःदेशान्तरं प्रापितः, तद्गतिं च अन्विच्छ ॥ १।४१।२ ॥
॥ १।४१।३ ॥ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ ३ ॥
भूमेरन्तः यानि भौमानिभूबिलमाश्रितानि सत्त्वानिमहानागप्रमुखानि सन्ति । कार्मुकाविषयासन्नसंहारार्थंसासिमिति ॥ १।४१।३ ॥
॥ १।४१।४ ॥ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥
अभिवाद्यान्अभिवादनमर्हन्तीत्यभिवाद्याः, ऽतदर्हतिऽ इति यत् । सिद्धार्थस्सन्निवर्तस्व । अश्वमेधयज्ञस्य पारगः, अन्तर्भावितणिः, गमेः ऽअन्तात्यन्तऽ इत्यादिना ढः, पारप्रापकश्च भव ॥ १।४१।४ ॥
॥ १।४१।५,६ ॥ एवमुक्तों ऽशुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५ ॥
सुखातं पितृभिर्मार्गं अन्तर्भौमं महात्मभिः ।
प्रापद्यत नरश्रेष्ठः तेन राज्ञा ऽभिचोदितः ॥ ६ ॥
महात्मभिः पितृभिः भूमेरन्तः सुखातं भौममेव मार्गं तद्वृत्तान्तपरिज्ञानाय प्रापद्यत ॥ १।४१।६ ॥
॥ १।४१।७,८ ॥ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
पितृन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८ ॥
परिपप्रच्छेति । ऽक्क आसत इतिऽ इति शेषः ॥ १।४१।८ ॥
॥ १।४१।९ ॥ दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।
आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥
आसमञ्जअसमञ्जसुत इञभाव आर्षः । शीघ्रमेष्यसीति । स्ययमेवान्वेषणादिति शेषः ॥ १।४१।९ ॥
॥ १।४१।१०,११ ॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः सहयश्चैव गन्ता ऽसीत्यभिचोदितः ॥ ११ ॥
वाक्यज्ञैःवक्तुमर्हंवाक्यम् । ऽऋहलोर्ण्यत्ऽ । ऽचजोः कुऽ इति कृत्वम् । वाक्यकोविदैः । तयोरेव भावे कृत्यः, कालदेशादिवक्तव्यतत्त्वज्ञैः । तदुचितवचनसमर्थैश्चेत्यर्थः । तदुचितवचनं चस्वयमेवान्विष्येत्यस्मदुक्तरूपम् ॥ १।४१।१०,११ ॥
॥ १।४१।१२ ॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥
सागराःतस्य पितरो यत्र भस्मराशीकृताः तं प्रदेशं जगाम ॥ १।४१।१२ ॥
॥ १।४१।१३ ॥ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३ ॥
दुःखवशमापन्न इति । गत्वा, दृष्ट्वा च भस्मीभूतपितृनिति शेषः ॥ १।४१।१३ ॥
॥ १।४१।१४,१५,१६ ॥ यज्ञिंयं च हयं तत्र चरन्तमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४ ॥
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
सलिलार्थी महातेजा न चापश्यञ्जलाशयम् ॥ १५ ॥
विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् ।
पितृणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६ ॥
विसार्यसमन्तात् प्रसार्येत्यर्थः । निपुणांदूरवीक्षणसमर्थाम् । पितृणां मातुलमिति । सुवर्णभगिनी सुमतिरिति प्रागेवोक्तत्वात् । अनिलोपममिति । वेगेनेति शेषः ॥ १।४१।१६ ॥
॥ १।४१।१७ ॥ स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।
मा शुचः, पुरुषव्याघ्र वधो ऽयं लोकसम्मतः ॥ १७ ॥
माशुच इति । च्लेरङ् । कश्चित् मृषाह द्युतादित्वादङिति,द्युतादिस्सर्वस्तङन्त एव, शुचिस्तु नास्ति तत्र । लोकसम्मतःलोकहितः । अत एव ऽक्तेन च पूजायाम्ऽ इति परोच्यमानषष्ठीसमासनिषेधाप्रसङ्गः ॥ १।४१।१७ ॥
॥ १।४१।१८ ॥ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८ ॥
हियस्मात् अप्रमेयेनमहात्मना कपिलेन दग्धाः अत एव लौकिकं सलिलं दातुं नार्हसि । “चाण्डालादुदकात् सर्पाद्वैद्युतात् ब्राह्मणादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च प्रेतेभ्यो यद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ “इति स्मृतेरित्याशयः । प्रकृते ब्राह्मणाद्वश्चः ॥ १।४१।१८ ॥
॥ १।४१।१९,२० ॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ
तस्यां कुरु महाबाहो पितृणां तु जलक्रियाम् ॥ १९ ॥
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गङ्गाया लोककान्तया ॥ २० ॥
२ गङ्गायां जलक्रियां कुर्वित्युक्तेतर्हि देवलोकगत्या गङ्गयोदकक्रिया कार्येति शङ्कायामाह–भस्मेत्यादि । यदा प्लावयेत्तदा क्लिन्नमिति योजना । नयिष्यति । गङ्गोदकसेकरूपसंस्कारेणेति शेषः ॥ १।४१।२० ॥
(२ गङ्गया इति स्यात्)
॥ १।४१।२१२३ ॥ षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ।
(१ एतदन्तरंगङ्गामानय, भद्रं ते, देवलोकात् महीतलम् । क्रियतां यदि शक्तो ऽसि गङ्गायास्त्ववतारणम् ॥ इत्यधिकम्ङ)
गच्छ चाश्वं महाभाग सङ्गृह्य पुरुषर्षभ
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि ॥ २१ ॥
सुपर्णवचनं श्रुत्वा सों ऽशुमानतिवीर्यवान् ।
त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२ ॥
ततो राजानमासाद्य दीक्षितं रघुनन्दन
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ २३ ॥
यथावृत्तमिति । पितृव्यविषयकमिति शेषः ॥ १।४१।२३ ॥
॥ १।४१।२४,२५ ॥ तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वतयामास यथाकल्पं यथाविधि ॥ २४ ॥
स्वपुरं चागमच्छ्रीमान् इष्टयज्ञो महीपतिः ।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ २५ ॥
इष्टः यज्ञः यस्येति बहुव्रीहिः । आगम इति । भूमावागमइत्यर्थः । निश्चयंउपायनिश्चयं । अध्यगच्छतेति तङ् व्यत्ययात् ॥ १।४१।२४,२५ ॥
॥ १।४१।२६ ॥ अकृत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकचत्वारिंशः सर्गः
–
१ चारु(२६)मानः सर्गः ॥ २६ ॥
(१ रतमानःक।)
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकचत्वारिंशः सर्गः
– ॥ १।४१।२६ ॥