अथ चत्वारिंशः सर्गः
[सगरपुत्राणां भस्मीभावः]
॥ १।४०।१ ॥ देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥ १ ॥
एवं भगवता त्रस्तपुत्रत्राणोपदेशपूर्वकं पुनश्च प्रकृतप्रवृत्युपदेशः । देवतानामित्यादि । कृतान्तेति । कृत अन्तः–प्रागुक्तरीत्या सर्वलोकनाशः यैस्तानि तथा, तानीमानि सगरसुतबलानि तथा, तैर्मोहिताःमूर्च्छितचित्तास्तथा ॥ १।४०।१ ॥
॥ १।४०।२ ॥ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
१कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥
(१ एतदनन्तरंमहिषी माधवस्यैषा स एष भगवान् प्रभुः । इत्याधकम्ङ)
कृत्स्ना ऽपीयं वसुधा यस्येति । जलभूमयविराजो भूप्रधानमूर्तित्वाद्वासुदेवस्य भूमेः असाधारणस्वत्वम् । धारयतीति । योगबलनेति शेषः ॥ १।४०।२ ॥
॥ १।४०।३ ॥ तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ॥ ३ ॥
सगरस्य च पुत्राणां विनाशो १दीर्घदर्शिनाम् ।
(१ इष्ट एवघ।)
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम् ॥ ४ ॥
पृथिव्या निर्भेदश्च सनातनःप्रतिकल्पमवश्यभावी, श्रौतस्मार्तसागरादिशब्दैवा २दृष्ट एव । अत एव यथाप्राप्तार्थ इति न तत्र शोकः कार्य इति शेषः । दीर्घदर्शिनां अस्माकं सगरस्य पुत्राणां विनाशस्तु द्रष्टव्य एव । अतः सो ऽपि भविष्यति । अतो न शोकः कार्य इत्यर्थः ॥ १।४०।३,४ ॥
(२ अदीर्घजीविनाम्ज।झ)
॥ १।४०।५६ ॥ देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ ५ ॥
पृथिव्यायां भिद्यमानायां निर्घातसमनिस्वनः ।
ततो भित्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् ॥ ६ ॥
प्रकृतकार्यप्रवृत्तिः–सगरस्येत्यादि ॥ १।४०।५,६ ॥
॥ १।४०।७ ॥ सहिताः सागरास्सर्वे पितरं वाक्यमब्रुवन् ।
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ १।४०।७ ॥
सहिताःअकत्र संहताः ॥ १।४०।७ ॥
॥ १।४०।८ ॥ देवदानवरक्षांसि पिशाचोरगकिन्नराः ।
न च पश्यामहे ऽश्वं तमश्वहर्तारमेव च ॥ ८ ॥
ते अस्मासु भद्रंअनुग्रहबुद्धिरस्तु । वयं किं करिष्यामः, सलोपश्छान्दसः ॥ १।४०।८ ॥
॥ १।४०।९,१० ॥ किं करिष्याम, भद्रं ते, बुद्धिरत्र विचार्यताम् ।
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ ९ ॥
समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन
भूयः खनत, भद्रं वः, निर्भिद्य वसुधातलम् ॥ १० ॥
भूयो निर्भिद्येति योजना । निवर्तथ–व्यात्ययात् परस्मैपदम्निवर्तध्वम् ॥ १।४०।१० ॥
॥ १।४०।११,१२ ॥ अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।
पितृर्वचनमासाद्य सगरस्य महात्मनः ॥ ११ ॥
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ॥ १२ ॥
खन्यमान इति । षष्टियोजनसहस्रात्परमपीति शेषः । दिशागजमिति । वाचानिशादिशब्दानां हलन्तानामप्यजादिगणपाठतष्टाप् ॥ १।४०।११,१२ ॥
॥ १।४०।१३ ॥ दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ॥ १३ ॥
कृत्स्नामिति । तद्दिक्प्रदेशावच्छिन्नामिति शेषः ॥ १।४०।१३ ॥
॥ १।४०।१४ ॥ शिरसा धारयामास विरूपाक्षो महागजः ।
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ॥ १४ ॥
यदा पर्वणियस्मिन् काले । “तिथिभेदे क्षणे पर्व” इति निघण्टुः ॥ १।४०।१४ ॥
॥ १।४०।१५,१६ ॥ खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ १५ ॥
मानयन्तो हि ते राम जग्मुर्भित्वा रसातलम् ।
ततः पूर्वां दिशं भित्वा दक्षिणां बिभिदुः पुनः ॥ १६ ॥
मानयन्त इति । दिशागजमिति शेषः ॥ १।४०।१५,१६ ॥
॥ १।४०।१७२१ ॥ दक्षिणस्यामपि दिशि ददऋसुस्ते महागजम् ।
महापद्मं महात्मानं सुमहत्पर्वतोपमम् ॥ १७ ॥
शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ १८ ॥
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
पश्चिमायामपि दिशि महान्तमचलोममम् ॥ १९ ॥
दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ॥ २० ॥
खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ॥ २१ ॥
निरामयं । कुशलमिति यावत् । खनन्तःखननं कुवार्णाः ते हैमवतीं दिशं तदा समुपक्रान्ताःउपगतवन्तः ॥ १।४०।२१ ॥
॥ १।४०।२२ ॥ भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ २२ ॥
समालभ्यउपलभ्येति यावत् ॥ १।४०।२२ ॥
॥ १।४०।२३ ॥ षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ २३ ॥
प्रागुत्तरयोरन्तरालंप्रागुत्तरांईशानदिशमिति यावत् ॥ १।४०।२३ ॥
॥ १।४०।२४२७ ॥ रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।
ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ २४ ॥
ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन
ते तं १यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥
(१ हयहरं ज्ञात्वा, यज्ञहरं ज्ञात्वाङ)
खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥
ते तमिति । तंकपिलमेव यज्ञहनंयज्ञं हन्तीति, पचाद्यच्, अविचारतस्तमेवाश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वा इत्यर्थः ॥ १।४०।२७ ॥
॥ १।४०।२८३० ॥ अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।
दुर्मेधः त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ॥ २८ ॥
श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन
रोषेण महता ऽ ऽविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥
ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
भस्मराशीकृताः सर्वे, काकुत्स्थ सगरात्मजाः ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चत्वारिंशः सर्गः ॥ १।४०।३० ॥
–
नीड(३०)मानः सर्गः ॥ १।४०।३० ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चत्वारिंशः सर्गः