०३९ सगराश्वमेधः

अथ एकोनचत्वारिंशः सर्गः

[सगरपुत्रैः पृथिवीविदारणम्]

॥ १।३९।१ ॥ विश्वामित्रवचः श्रुत्वा कथा ऽन्ते रघुनन्दनः ।

उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥

एवं यज्ञोपक्रमणश्रवणे सति तस्य सार्वभौमस्वपूर्वकर्तृकत्वात् तत्सिद्धिविस्तारशुश्रूषया रामप्रश्ने तत्प्रतिपादनं । विश्वामित्रेत्यादि । कथान्तेयज्ञोपक्रम कथनानन्तरम् ॥ १।३९।१ ॥

॥ १।३९।२ ॥ श्रोतुमिच्छामि, भद्रं ते, विस्तरेण कथामिमाम् ।

पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥ २ ॥

इमामिति । यज्ञोपार्जनकथामित्यर्थः । ननु कस्ते इह आदरातिशय इत्यतः–पूर्वक इत्यादि । मद्वंशकूटस्थ इत्यर्थः ॥ १।३९।२ ॥

॥ १।३९।३ ॥ विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।

श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥ ३ ॥

स्ववंश्य इति कृत्वा रामस्य च लोकवत् स्नेहः सम्पन्न इति प्रहासः । इव शब्द एवार्थे । प्रसन्नो भूत्वैवेति यावत् । कथामध्ये पुनः कथान्तरप्रश्ने शाखाचङ्क्रमजकोपमकृत्वैवेत्यर्थः । विस्तर इति । यज्ञस्येति शेषः ॥ १।३९।३ ॥

॥ १।३९।४ ॥ शङ्करश्वरो राम हिमवानचलोत्तमः ।

विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ ४ ॥

विन्ध्यपर्वतमासाद्यमध्ये महापर्वतनिरोधाभावात् प्राप्य, तथा विन्ध्यो ऽपि हिमवन्तमित्येवं परस्परमासाद्य प्रागुक्तवीक्षानिरोधाभावादेव निरीक्षेतेअन्योन्यदर्शनं सख्यप्रयुक्तमनुभवतः ॥ १।३९।४ ॥

॥ १।३९।५ ॥ तयोर्मध्ये प्रवृत्तो ऽभूद्यज्ञः स पुरुषोत्तम

स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥ ५ ॥

किं तत इत्यतः–तयोरित्यादि । स हि प्रशस्त इति । ऽआर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोःऽ इति वचनात् । प्रशस्तःप्रसिद्ध इत्यर्थः ॥ १।३९।५ ॥

॥ १।३९।६ ॥ तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।

अंशुमानकरोत्तात् सगरस्य मते स्थितः ॥ ६ ॥

चर्यारक्षा । दृढधन्वाऽधनुषश्चऽ इत्यनङ् । मतेशासने ॥ १।३९।६ ॥

॥ १।३९।७ ॥ तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।

राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥

पर्वणिउवथ्याह । तं यज्ञमिति । विहन्तुमिति शेषः । यज्ञियः–यज्ञार्हश्चासावश्वस्तथा । ऽयज्ञत्विंम्भ्याम्ऽ इति घः ॥ १।३९।७ ॥

॥ १।३९।८,९,१० ॥ हियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।

उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥

अयं पर्वणि वेगेन यज्ञियाश्वो ऽपनीयते ।

हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥ ९ ॥

यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ।

तत्तथा क्रियतां राजन् यथा ऽच्छिद्रः क्रतुर्भवेत् ॥ १० ॥

अच्छिद्र इति पदम् ॥ १।३९।८,९,१० ॥

॥ १।३९।११,१२ ॥ उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।

षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥

गतिं पुत्राः न पश्यामि रक्षसां पुरुषर्षभाः ।

मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥

हे पुत्राः हियस्मात् महाक्रतुः मन्त्रपूतैर्महाभागैरास्थितःअधिष्ठितः तस्मात्तस्यास्य रक्षसां मायया यदि छिद्रं स्यात्तदा ऽस्माकं गतिं न पश्यामि । तथा तैर्महाभागैरुक्तं ऽयज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नःऽ इति ॥ १।३९।१२ ॥

॥ १।३९।१३ ॥ तद्गच्छत विचिन्वध्वं पुत्रकाः भद्रमस्तु वः ।

समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥

तत्तस्मात् गच्छतेत्यादि । अनुगच्छत । अन्विष्यध्यमिति यावत् ॥ १।३९।१३ ॥

॥ १।३९।१४ ॥ यावत्तुरगसन्दर्शः तावत् खनत मेदिनीम् ।

तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १४ ॥

भूमेरुपर्यन्वेषणे न लब्धं चेत्तदायावत्तुरगेत्यादि ॥ १।३९।१४ ॥

॥ १।३९।१५ ॥ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।

इह स्थास्यामि, भद्रं वः, यावत्तुरगदर्शनम् ॥ १५ ॥

स्वस्य तुरगानुगमनमयुक्तमित्याह–दीक्षित इत्यादि । यस्माद्दीक्षितः, तस्मात् ऽगर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितम्ऽ इत्यादिना ऽन प्रवस्तव्यम्ऽ इति निषेधात् अहमिह स्थास्यामि, पौत्रस्य बालत्वतः तत्सहित एव तिष्ठामि ॥ १।३९।१५ ॥

॥ १।३९।१६ ॥ इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।

जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १६ ॥

यन्त्रिताः–नियुक्ताः ॥ १।३९।१६ ॥

॥ १।३९।१७ ॥ योजनायामविस्तारमैकैको धरणीतलम् ।

बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः ॥ १७ ॥

आयामःदैर्ध्यं । विस्तारःविशालता च । एकैको धरणीतलं सर्वमपि सस्नेहात्समुदं बिभिदुरित्यर्थः ॥ १।३९।१७ ॥

॥ १।३९।१८ ॥ शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।

भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १८ ॥

भिद्यमानेति । सर्वत इति शेषः । वसुमतीति । तद्वर्तिसर्वस्रोतांसीति यावत् ॥ १।३९।१८ ॥

॥ १।३९।१९,२० ॥ नागानां वध्यमानानां असुराणां च राघव

राक्षसानां च दुर्धर्षः सत्त्वानां निनदो ऽभवत् ॥ १९ ॥

योजनानां सहस्राणि षष्टिं तु रघुनन्दन

बिभिदुर्धरणीं वीक्ष्य रसातलमनुत्तमम् ॥ २० ॥

योजनानामित्यादि । पितृनियुक्तमार्गेण सर्वां सन्दिग्धां खननोपेतां विचित्य पृथिव्यधोभागं रसातलमेव विचेतुं धरणीं एकैकतः योजनानां सहस्राणि षष्टिं तु बिभिदुः ॥ १।३९।२० ॥

॥ १।३९।२१ ॥ एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।

खनन्तो नरशार्दूल सर्वतः परिचक्रमुः ॥ २१ ॥

पर्वतैस्सम्बाधःनैबिड्यंयस्य तत्तथा ॥ १।३९।२१ ॥

॥ १।३९।२२,२३,२४ ॥ ततो देवास्सगन्धर्वाः सासुरास्सहपन्नगाः ।

सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २२ ॥

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।

उचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २३ ॥

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः ।

बहवश्च महात्मनो हन्यन्ते तलवासिनः ॥ २४ ॥

तलवासिनो महात्मान इति । कपिलवद्रसातलवासिनो महात्मानः सिद्धगन्धर्वादयः इत्यर्थः ॥ १।३९।२२,२३,२४ ॥

॥ १।३९।२५ ॥ अयं यज्ञहरो ऽस्माकं अनेनाश्वो ऽपनीयते ।

इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः

अपनीयतेअपनीयते स्म इति तत्प्रसङ्गरहितानि सर्वभूतानि राजवदविचार्यैव घ्नन्तीत्यर्थः । माद्री(२५) मानः तर्गः ॥ १।३९।२५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनचत्वारिंशः सर्गः