अथ अष्टात्रिंशः सर्गः
[सगरवृत्तान्तः]
॥ १।३८।१ ॥ तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥
अथ ऽत्रीन् पथो हेतुना केनऽ इत्यादिप्रश्नस्य चोत्तरार्थं उपोद्धातः–तां कथामित्यादि । इदमपरं वाक्यमिति । अपृष्टोत्तरं वक्ष्यमाणरूपमिति शेषः ॥ १।३८।१ ॥
॥ १।३८।२ ॥ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ २ ॥
यस्मात् अप्रजः तस्मात् प्रजाकामः अभूत् ॥ १।३८।२ ॥
॥ १।३८।३ ॥ वैदर्भदुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥
विदर्भाधिपतेरपत्यं । ऽजनपदशब्दात् क्षत्रियादञ्ऽ इत्यञ् ॥ १।३८।३ ॥
॥ १।३८।४ ॥ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ ४ ॥
अरिष्टनेमिःकाश्यपः, तस्य दुहिता तथा । ऽसुपर्णभगिनीऽ इत्यारात्प्रयोगात् अरिष्टनेमिः काश्यपः ॥ १।३८।४ ॥
॥ १।३८।५ ॥ ताभ्यां सह तथा राजपत्निभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ ५ ॥
भृग्वधिष्ठितं प्रस्रवणं–प्रवाहः यस्मिन् स तथा । गिरौ–हिमवतः पादपर्वत इति यावत् ॥ १।३८।५ ॥
॥ १।३८।६,७,८ ॥ अथ वर्षशते पूर्णे तपसा ऽ ऽराधितो मुनिः ।
सगराय वरं प्रादात् भृगुः सत्यवतां वरः ॥ ६ ॥
अपत्यलाभः सुमहान् भविष्यति तवानघ
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्पभ ॥ ७ ॥
एका जनयिता तात पुत्रं वंशकरं तव ।
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ ८ ॥
तातेति उपलालने । जनयितेति लुट् । षष्टिमिति । निपातनादेकवचनान्तस्य सहस्राणीत्यनेन सामानाधिकरण्यम् ॥ १।३८।६,७,८ ॥
॥ १।३८।९ ॥ भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥
भाषमाणमिति । राजपुत्र्याविति छत्रिन्यायेन वादः ॥ १।३८।९ ॥
॥ १।३८।१०,११ ॥ एकः कस्य सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ १० ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् ॥ ११ ॥
स्वच्छन्दो ऽत्रेति । अत्रउक्तयुष्मत्प्रश्नविषये स्वच्छन्द एव–युष्मदिच्छैव, न तु मया अस्या एकः, अस्य बहव इति निर्णेतव्यं अत एको ऽस्तु वा बहवो वा सन्तु, यस्यै कस्यै वा । अतः का, कं वरमिच्छामीति भवतीभ्यामेव विधीयतांनियमः क्रियताम् ॥ १।३८।११ ॥
॥ १।३८।१२ ॥ एको वंशकरो वा ऽस्तु बहवो वा महाबलाः
कीर्तिमन्तो महोत्साहाः, का वा कं वरमिच्छति ॥ १२ ॥
वंशकरःकृञन्तो हेतौ, वंशवृद्धिहेतुत्वगुणो ऽत्र वर्णितः ॥ १।३८।१२ ॥
॥ १।३८।१३ ॥ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ १३ ॥
नृपसन्निधावित्यनेन तस्यापि साक्षित्वमात्रं, तस्याप्येकानेकवरणनियमाकर्तृतेत्यावेदितम् ॥ १।३८।१३ ॥
॥ १।३८।१४ ॥ षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥
सुपर्णो गरुडः ॥ १।३८।१४ ॥
॥ १।३८।१५,१६ ॥ प्रदक्षिणमृषिं कृत्वा शिरसा ऽभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ १५ ॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥
व्यजायतप्रसूतवती ॥ १।३८।१६ ॥
॥ १।३८।१७ ॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिस्सृताः ॥ १७ ॥
गर्भतुम्भंगर्भावरणकोशस्तुम्बम् । तुम्बमिति । जालगर्भयुक्ततुम्बानि व्यजायतेति यावत् । कथं ततः पुत्रोदय इत्यतःषष्टिरित्यादि । तुम्बभेदादिति । न तु गान्धार्या इव पश्चाद्विभजनीया इत्यर्थः ॥ १।३८।१७ ॥
॥ १।३८।१८ ॥ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥
तान्वियुक्ततुम्बान् ॥ १।३८।१८ ॥
॥ १।३८।१९,२० ॥ अथ दीर्घेम कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९ ॥
स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसम्भवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ २० ॥
प्रक्षिप्य प्राहसन्नित्यं मञ्जतस्तान् समीक्ष्य वै ।
ज्येष्ठस्तु असमञ्जः बालान् जले प्रक्षित्य मज्जतस्तान् समीक्ष्य प्राहसत्प्रहासं कृत्वा स्थितवानिति यावत् ॥ १।३८।१९,२० ॥
॥ १।३८।२१ ॥ एवं पापसमाचारः सञ्जनप्रतिबाधकः ॥ २१ ॥
पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।
जनानां प्रतिबाधको जनप्रतिबाधकः । निर्वासितःनिष्कासितः ॥ १।३८।२१ ॥
॥ १।३८।२२ ॥ तस्य पुत्रौ ऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २२ ॥
संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।
तस्य असमञ्जस्य अंशुमान् प्रियंवदत्वादिगुणयुक्तत्वात् पितामहस्यसगरस्य समीपे स्थितः ॥ १।३८।२२ ॥
॥ १।३८।२३,२४ ॥ ततः कालेन महता मतिस्समभिजायत ॥ २३ ॥
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ॥ २४ ॥
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ।
इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टात्रिंशः सर्गः
–
मार(२५)मानः सर्गः ॥ १।३८।२५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टात्रिंशः सर्गः