अथ सप्तविंशः सर्गः
[कुमारसम्भवः]
॥ १।३७।१ ॥ तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥
अथ यथाप्रतिज्ञमुक्तवैभवोपदेशः–तप्यमान इत्यादि । देवसेनाकार्यचिन्तामकृत्वेति शेषः । सेनापतिंस्वसेनारक्षकम् ॥ १।३७।१ ॥
॥ १।३७।२ ॥ ततो ऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुरास्सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २ ॥
तत इति । उपगमनानन्तरमित्यर्थः ॥ १।३७।२ ॥
॥ १।३७।३ ॥ येन सेनापतिर्देव दत्तो भगवता पुरा ।
तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥
किमब्रुवन्नित्यतः–येनेत्यादि । येन भगवतारुद्रेण सेनापतिः बीजजात्मना दत्तः, स तूष्णी तपस्तप्यतेअनुतिष्ठति । तपःकर्मकत्वाद्यगात्मनेपदकर्मवद्भावौ । स्मशब्दो वाक्यालङ्कारे ॥ १।३७।३ ॥
॥ १।३७।४ ॥ यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥
अनन्तरंबीजमात्रं दत्त्वा तस्योपरमानन्तरं तस्य पुत्राकारसम्पत्तये यत्संविधेयं तत् संविधत्स्व ॥ १।३७।४ ॥
॥ १।३७।५ ॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन् मधुरैर्वाक्यैः त्रिदशानिदमब्रवीत् ॥ ५ ॥
सान्त्वयन् । इष्टकार्यालाभखिन्नानिति शेषः ॥ १।३७।५ ॥
॥ १।३७।६ ॥ शैलपुत्र्या यदुक्तं तत् अप्रजाः सन्तु पत्नयः ।
तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ ६ ॥
यत्यस्मात् शैलपुत्र्या अप्रजा भविष्यथेति उक्तं, तत्तस्मात् न प्रजास्सन्तु वः । अत एव वः पत्नयश्च अप्रजाः, छान्दस इकारान्तप्रयुक्तो जसो गुणः । ननु भवह्बलात् तद्वचो ऽप्यन्यथयितव्यमित्याशङ्क्योच्यतेतस्या इत्यादि । अक्लिष्टमिति । परमापराधमूलतो ऽन्यायतः प्राप्तं यतस्तस्मात् सत्यमेव न संशयः । एवं पाङ्क्ते पाठे पाङ्क्ते च व्याख्याने स्थिते “न प्रजास्यथ” इति मृषोक्त्वा तव्द्याख्यानं चाह कश्चित् ॥ १।३७।६ ॥
॥ १।३७।७ ॥ इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥
तर्हि का गतिरित्यपेक्षायामाह–इयमित्यादि । यस्यां जनयिष्यति सेयमस्तीति योजना ॥ १।३७।७ ॥
॥ १।३७।८ ॥ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।
उमायास्तद्ब्रहुमतं भविष्यति न संशयः ॥ ८ ॥
उचितं चेदमेवेत्याह–ज्येष्ठेत्यादि । मानयिष्यतीति । स्वकनिष्ठापत्यत्वात् स्वापत्यवदिति शेषः ॥ १।३७।८ ॥
॥ १।३७।९ ॥ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन
प्रणिपत्य सुरास्सर्वे पितामहमपूजयन् ॥ ९ ॥
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ २० ॥
ते कैलासं पर्वतं गत्वेति । तत्रैव भगवत्तेजो ऽनुप्रविष्टाग्नेरवस्थानात् ॥ १।३७।९,१० ॥
॥ १।३७।१२ ॥ देवकार्यमिदं देव संविधत्स्व हुताशन
शैलपुत्र्यां महातेजः गङ्गायां तेज उत्सृज ॥ १२ ॥
हे महातेज इति सम्बुद्धिः । शैलपुत्र्यां तेज उत्सृजेति । गङ्गायामैश्वरं तेज इत्यर्थः ॥ १।३७।१२ ॥
॥ १।३७।१३ ॥ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ १३ ॥
देवतानां प्रतिज्ञायेति । तथा करोमीति प्रतिज्ञायेत्यर्थः ॥ १।३७।१३ ॥
॥ १।३७।१४ ॥ तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानं स समन्तादवशीर्यत ॥ १४ ॥
दिव्यं रूपमधारयदिति । स्रोतोरूपं मुक्त्वेति शेषः । अथ तस्या महिमानं दिव्यरूपवैभवं दृष्ट्वा सःईश्वरतेजोराशिः पारदः समन्तादवशीर्यत, व्यत्ययात्तङ् । न द्रुतिसंस्कारं प्राप्तमभूदित्यर्थः । उत्तमस्त्रीदर्शने रसेश्वरस्य तद्ग्रहणायोल्लालनं द्वियोजनपर्यन्तमिति सुप्रसिद्धम् ॥ १।३७।१४ ॥
॥ १।३७।१५ ॥ समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १५ ॥
एवं समन्ततो विकीर्णेन रसेश्वरेण पावको देवीमभ्यषिञ्चत । तेनाभिषिच्यमानेन रसेश्वरेण देवीसुषुम्नोलापिङ्गलादिनाडीरूपाणि सर्वस्रोतांसि पूर्णानिव्याप्तानि ॥ १।३७।१५ ॥
॥ १।३७।१६ ॥ तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।
अशक्ता धारणे देव तव तेजः समुद्धतम् ।
दह्यमाना ऽग्निना तेन संप्रव्यथितचेतना ॥ १६ ॥
सर्वदेवपुरोहितं–सर्वदेवानां पुरोयायी, हितकरश्च तथा । ऽअग्निमीळे पुरोहितंऽ ऽअग्निर्ब्रह्मा नृषदने विधत्तेऽ इत्यादेः बृहस्पत्यपरमूर्तिमानित्यर्थः । तव तेजस्समुद्धतंअग्नेरनुप्रवेशादाग्नेयेन तेजसा च समुद्धतं अत्युग्रशक्त्यैश्वरं तेजःतेजस इति यावत् । कृद्योगलक्षणषष्ठ्यभावश्छान्दसः । धारणे शक्ता न भवामि । अपि च–दह्यमानेत्यादि ॥ १।३७।१६ ॥
॥ १।३७।१७ ॥ अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।
इह हैमवते पादे गर्भो ऽयं सन्निवेश्यताम् ॥ १७ ॥
सर्वदेवात्मको हुताशनस्तथा ॥ १।३७।१७ ॥
॥ १।३७।१८ ॥ श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।
उत्ससर्ज महातेजः स्रोतोभ्यो हि तदा ऽनघ
स्रोतोभ्यः उत्कृष्य हिमवत्पार्श्व उत्ससर्जेति योजना ॥ १।३७।१८ ॥
॥ १।३७।१९,२० ॥ यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभ ।
काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ १९ ॥
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।
मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २० ॥
यत्यस्मात् अस्याः निर्गतं, तस्मात् गङ्गागर्भनिस्सृतिसिद्धवेधसंस्कारवैभवादेव तत्तेजः धरणीं प्राप्तं सत् तप्तजाम्बूनदप्रभं–जम्बूनद्यां भवं जाम्बूनदंदशवर्णसुवर्णं । जाम्बूनदंद्रुतजाम्बूनदवर्णं सुवर्णं काञ्चनं प्रथमं अभवत् । पश्चात् अमलं निर्मलं, अत एव सुभदक्षिणालङ्गाराद्यर्हं हिरण्यं चाभवत् । ऽरजतं हिरण्यमभवत्ऽ इति श्रुतेर्हिरण्यशब्दः स्वर्णरजतसाधारणः । इदमुभयं क्रमात् शुद्धपारदगन्धप्राधान्यात् भवति । पारदे तैक्ष्ण्यैकरूपं मलमस्ति । गन्धे मालिन्यरूपं मलमस्ति । उभयमलमुक्तादग्निबन्धरसात् द्रुतप्राधान्यवेधे स्वर्णं, गन्धप्राधान्यवेधे रजतं, तीक्ष्णमलप्राधान्यवेधे तु ताम्रादिकं मालिन्यं, मलप्राधान्यवेधे तु त्रपुसीसन् । तदेवोक्तम्–ताम्रमित्यादि । तत्र बन्धरसे ऽपि यन्मूलं द्रुत्यादिसंस्कारवैकल्यादशोधितमभूत तस्याभिसम्बन्धात् त्रप्वादिकमभवदिति योजना । नानाधातुरवर्धतेति । उक्तरीत्येति शेषः ॥ १।३७।१९,२० ॥
॥ १।३७।२१ ॥ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ २१ ॥
न केवलं तस्य स्पर्शवेधित्वं, अपि तु रूपवेधित्वमपीत्युच्यतेनिक्षिप्तेत्यादि । पर्वतसन्नद्धंस्वर्णपर्वतीभूतमहारससम्बद्धमिति यावत् ॥ १।३७।२१ ॥
॥ १।३७।२२,२३ ॥ तं देशं तु ततो ब्रह्मा संप्राप्यैनमभाषत ।
जातस्य रूपं यत्तस्मात् जातरूपं भविष्यति ॥ २२ ॥
जातरूपमिति ख्यातं तदाप्रभृति राघव
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २३ ॥
[तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्]
यदा काञ्चनीभूतो महारसो रूपवेधी जातस्तदाप्रभृति जातरूपमित्यपि ख्यातम् । जातं सौवर्णं रूपं यस्मात्, स्वासन्नस्य च तत्तथा ॥ १।३७।२२,२३ ॥
॥ १।३७।२४ ॥ तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४ ॥
तं कुमारं तत इति । सुवर्णपर्वतात्मना ऽवस्थितात्तत एव महारसादानन्दकन्दादिरसशास्त्रोपदिश्यमानरीत्या शब्दवेधित्वसंस्कारे च सति तत्रोच्यमानखेचरदिव्यदेहोत्पत्तिमार्गेण शनैर्जातो यो रुद्रकुमारः तं कुमारं क्षीरसम्भावनार्थायक्षीरपानप्रयोजनसिद्धये, कृत्तिका इति, ऽसुपां सुलुक्ऽ इत्यादिना भिसस्तु जस्, कृत्तिकाभिः समयोजयन् ॥ १।३७।२४ ॥
॥ १।३७।२५ ॥ ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रो ऽयमस्माकं सर्वासामिति निश्चिताः ॥ २५ ॥
अथ ताः कृत्तिकाः अयमस्माकं सर्वासां पुत्रो भवतु इति कृतनिश्चयास्सत्यस्तादृशं उत्तमं समयंभावं स्तन्य प्रवृद्धिहेतुभूतं पुत्रभावं कृत्वा जातमाक्षस्य तस्य क्षीरं ददुः ॥ १।३७।२५ ॥
॥ १।३७।२६ ॥ ततस्तु देवतास्सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६ ॥
ततःअनन्तरं तत एव हेतोः सर्वा देवताः स्वयं कार्तिकेय इति ब्रुवन्, अडभावः छान्दसः, उक्तवन्तः । अपि चायं पुत्रः कार्तिकेय इति त्रैलोक्यविख्यातश्च भविष्यतीति अब्रुवन् ॥ १।३७।२६ ॥
॥ १।३७।२७ ॥ तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथा ऽनलम् ॥ २७ ॥
अथ तेषांदेवानां स्वेष्टानुकूलं वचनं श्रुत्वा आदौ ईश्वरयोस्सकाशात् स्कन्नं, पश्चात् गङ्गाया गर्भात् परिस्रवे सति तत्संस्कारतो लक्ष्म्या परया दीप्यमानं अनलंअनलबहुस्पर्शंतं सुग्रहप्रयोजनशैत्योपचारसिद्धये स्नापयन् । स्तन्यैरिति शेषः ॥ १।३७।२७ ॥
॥ १।३७।२८ ॥ स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ।
कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ २८ ॥
एवं कृत्तिकाभिः पुत्रत्वेन स्वीकृत्य स्तन्यपानानन्तरं पूर्वं कार्तिकेयत्वेनोक्तमुच्यमानविशेषणकं तं प्रागुक्तरीत्या स्कन्नगर्भपरिस्रुतत्वहेतोः स्कन्द इति अन्वर्थनाम च चक्रुरित्यर्थः ॥ १।३७।२८ ॥
॥ १।३७।२९ ॥ गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥ २९ ॥
एवं षण्मुखेन यावदपेक्षं क्षीर गृहीत्वा एकाह्नैवएकदिनेनैव, ऽराजाहःऽ इति टजभावो ऽनित्यत्वात्, सुकुमारवपुःआप्यायनेन कोमलसुन्दरपुष्टवपुरभवत् । तथा शनैः प्रवृद्धो दैत्यगणानजयत् ॥ १।३७।२९ ॥
॥ १।३७।३० ॥ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ ३० ॥
अनन्तरं पानार्थमपि कृत्तिकानां क्षीरं प्रादुर्भूतं । तच्च षण्णां स्तनजक्षीरं अचिन्त्यशक्तित्वाद्दाहातिशयेन च षण्मुखो भूत्वा जग्राह ॥ १।३७।३० ॥
॥ १।३७।३१ ॥ सुरसेनागणपतिं ततस्तमतुलद्युतिम् ।
अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ॥ ३१ ॥
तत इति । यतो ऽसुरगणमजयत् तत एव हेतोरित्यर्थः ॥ १।३७।३१ ॥
॥ १।३७।३२ ॥ एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२ ॥
उपसंहारःएष इत्यादि । विस्तर इति । चरितविस्तर इति यावत् ॥ १।३७।३२ ॥
॥ १।३७।३३ ॥ भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तत्रिंशः सर्गः
–
सालोक्यतां, स्वार्थिकःष्यञ्, सलोकतां व्रजेत् । इमं कुमारसम्भवसर्गं पठन्निति शेषः । गङ्गा(३३)मानः सर्गः ॥ १।३७।३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तित्रंशः सर्गः