अथ षटत्रिंशः सर्गः
[ईश्वरं प्रति देवानां प्रार्थना]
॥ १।३६।१ ॥ उक्तवाक्ये मुनौ तस्मिन् उभौ राघवलक्ष्मणौ ।
अभिनन्द्य कथां वीरौ ऊचतुर्मुनिपुङ्गवम् ॥ १ ॥
एवं गङ्गोमयोरुत्पत्त्यादिके संक्षेपत उक्ते पुनस्तद्विषयकविस्तारप्रश्ने तत्प्रतिपादनं–उक्तवाक्य इत्यादि । तस्मिन्नित । उपरत इति शेषः ॥ १।३६।१ ॥
॥ १।३६।२ ॥ धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ॥ २ ॥
विस्तरं, विस्तरज्ञो ऽसि, दिव्यमानुषसम्भवम् ।
शैलराजस्य ज्येष्ठाया दुहितुर्दिव्यमानुषसम्भवंद्युलोकनिबन्धनं मानुषलोकनिबन्धनं च विस्तरं वक्तुमर्हसि ॥ १।३६।२ ॥
॥ १।३६।३ ॥ त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ ३ ॥
को युष्मच्छुश्रूषितो विस्तर इत्यतः–त्रीनित्यादि । त्रीन् पथः–भूर्भुवस्स्वर्मार्गान् केन हेतुना प्लावयेत् ? इत्येतद्विषयक एकः शुश्रूषितविस्तरः द्वितीयस्त्रिपथगेति प्रसिद्धिः किं निबन्धना, त्रिलोक्यां गङ्गायाः कर्म चरितं च कीदृशमित्येतद्विषयकश्च विस्तरश्शुश्रूषित इत्यर्थः ॥ १।३६।३ ॥
॥ १।३६।४ ॥ कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ।
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैस्समन्विता ॥ ४ ॥
कथमिति प्रश्नस्याग्रिमसर्गैरुत्तरं भविष्यति ॥ १।३६।४ ॥
॥ १।३६।५ ॥ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।
निखिलेन कथां सर्वां ऋषिमध्ये न्यवेदयत् ॥ ५ ॥
निखिलेनकार्त्स्न्येनविस्तरेणेति यावत् ॥ १।३६।५ ॥
॥ १।३६।६ ॥ पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः ।
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।
कृतोद्वाहःकृतोमापरिणयः । देवीं दृष्ट्वा तया सह मैथुनायेति योजना । गतमिति । क्रीडयेति शेषः ॥ १।३६।६ ॥
॥ १।३६।७ ॥ तस्य संक्रीडमानस्य महादेवस्य धीमतः ॥ ७ ॥
न चापि तनयो राम तस्यामासीत् परंतप
तनय इति । रुद्रपुत्राय उमासंयोजनपरमयत्नपूर्वं प्रार्थितप्रादुर्भावस्वसेनासेनानीचिकीर्षितो रुद्रतेजोमयस्त्वसह्यः पुत्र इत्यर्थः ॥ १।३६।७ ॥
॥ १।३६।८ ॥ ततो देवाः समुद्युक्ताः पितामहपुरोगमाः ।
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते ॥ ८ ॥
तत इत्यादि । समुद्युक्ता इति । वर्षशतक्रीडा वशान्मुमुक्षाकाले रौद्रतेजसो मोचनं वारयितुं समुद्युक्ता बभूवुरित्यर्थः । एवं व्याख्यानं तु ऽयस्मान्निवारिता चैव संगतिः पुत्रकाम्ययाऽ इति ईश्वरीवचनात् वक्ष्यमाणात्स्पष्टम् । कथं रुद्रपुत्राय उमासंयोजनादियत्नं कुर्वद्भिः रुद्रतेजोमोचननिवारणोद्योगः ? इत्यत्रोच्यतेतदित्यादि । इहअस्यामुमायां अतः परमपि कियत्कालक्रीडानन्तरमीश्वरेच्छया विमुक्तं रौद्रतेजो ऽस्यां भूतंगर्भत्वेन सम्भूतंसिद्धं, पश्चाद्यथोचितकालानन्तरं यदि लोकवदेव पुत्ररूपं उत्पद्येत कस्तत्प्रतिसहिष्यते ? न को ऽपि देवो ऽन्यो वा तत्पुरस्तात् स्थातुं, अन्ततो निरीक्षितुमपि शक्नोति । यतो रुद्रकोपजस्वेदबिन्दुमात्रजो रुद्रकुमारो वीरभद्रो ऽशेषदेवैरपि दुस्सहो दुर्निरीक्ष्यश्चेत्यनुभवसिद्धम् । अतो माभूदस्माकमौरसरुद्रकुमारोत्पत्तिरिति निश्चित्य देव्यां तेजस्त्यागं निवारयितुं उद्युक्ता इत्यर्थः ॥ १।३६।८ ॥
॥ १।३६।९ ॥ अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ ९ ॥
एवं निश्चित्य तदमोकस्य चाचिन्त्यशक्तिवैभवभगवदेकसाध्यत्वात्तमेव तत्र परमं शरणं जग्मुरित्युच्यतेअभिगम्येति ॥ १।३६।९ ॥
॥ १।३६।१० ॥ देव देव महादेव लोकस्यास्य हिते रत
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ १० ॥
प्रणिपातःअनन्यगतिकतया तत्पादमूलपतनम्, तेन अस्माकं प्रसादं कर्तुमर्हसि ॥ १।३६।१० ॥
॥ १।३६।११ ॥ न लोका धारयिष्यन्ति तव तेजः सुरोत्तम
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ ११ ॥
किं विषयकः प्रसाद इत्यतः–न लोका इत्यादि । भूरादिलोकान्तर्लौकिकसकलप्रजाश्चेत्यर्थः । न धारयिष्यन्तिअनन्तकोटिवीरभद्रतुल्यं स्मृत्वा च हृदयविदारकं मनस्यपि धर्तुमपि न शक्नुयुः । तेज इति । मुक्त्वा यथावद्गर्भादुत्पन्नमिति शेषः । तर्हि किमस्माभिः कर्तव्यमित्यतः–ब्राह्मेणेत्यादि । ब्राह्मेणश्रीमदादिगुरुतुर्यब्रह्मगोचरेण तपसा अकृतकतदनन्यतायोगलक्षणेन युक्तो भूत्वा देव्या सह तदङ्गभूतं तप एव चर ॥ १।३६।११ ॥
॥ १।३६।१२ ॥ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमान् लोकान्, नालोकं कर्तुमर्हसि ॥ १२ ॥
कीदृशमुख्यब्राह्मतपो ऽङ्गभूतमस्मच्चरितव्यमित्यतः तन्नियोगःतेजस्तेजसि धारयेति । ऽपुरुषो ह वा अयमादितो गर्भो भवति । यदेतत्तद्रेतस्त्तदेतत् सर्वेभ्यो ऽङ्गेभ्यस्तेजस्सम्भूतमात्मन्येवात्मानं बिभर्तिऽ इति न्यायेन निजतेजःपारदरूपं निजतेजसिसहजाष्टाङ्गयोगरूपे धारय । ननु मत्तेजसि मया धृते मुक्ते वा को लाभः ? का हानिर्वा वः ? इत्यत्रोच्यते–रक्ष सर्वानिमान् लोकानिति । धृत्वेति शेषः । भवति किल धारणे लोकरक्षा, कथम् ? ऽअथ यदेतत् पुरुषे रेतो भवत्यादित्यस्य तद्रूपम्ऽ इति श्रुतेः सम्राट्पुरुषस्य ब्रह्मणो रेतोरूपं तेज एवादित्यमण्डलान्तर्यद्धृतं तन्मूलया ऽत्र सकलमपि जगद्रक्षितं भवति । अथ विपर्यये विपर्ययश्च भवतीत्याहुः । नालोकं कर्तुमर्हसीति । निजतेजः पातयित्वा ऽ ऽदित्यं विनाश्य अलोकंसर्वलोकास्तमयं कर्तुं नार्हसि ॥ १।३६।१२ ॥
॥ १।३६।१३ ॥ देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् ततश्चेवमुवाच ह ॥ १३ ॥
एवं सर्वदेववचनं श्रुत्वा, सर्वदेवतावयविनस्तस्य च, स्वावयवसर्वदेवतानाशे स्वस्य च छिन्नाशेषशाखास्थाणुताप्रसङ्गात्, अवश्यं देववचनं कर्तव्यमङ्गीकरोतीत्याहदेवतानां वचःश्रुत्वा बाढमित्यब्रवीदिति । बाढमित्यङ्गीकृतांश एव प्रतिपाद्यतेततश्चैवमुवाच ह ॥ १।३६।१३ ॥
॥ १।३६।१४ ॥ धारयिष्याम्यहं तेजः तेजस्येव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १४ ॥
धारयिष्यामीत्यादि । उमया सहेति । उमा ऽपि स्ववीर्यं रजोमये ऽग्नौ स्वतेजसि बिभर्त्तु । ऽतद्यदेतत् स्त्रियां लोहितं भवति अग्नेस्तद्रूपम्ऽ इति श्रुतेः मातृरजो ऽग्निरेव । अहमपि स्ववीर्यं सृतं सत्त्वमये रसे भरिष्यामि । एवं च । त्रिदशाः पृथिवी चैव निर्वाणंसौख्यं अधिगच्छतु । ईश्वरयोस्तेजसोर्भुवि पाते दाहदुर्भरत्वाभ्यां पृथिवी पीडाऽयदेतद्रेतः, तदेतत् सर्वेभ्यो ऽङ्गेभ्यस्तेजस्सम्भूतम्ऽ इति श्रुतेः । तस्य यथान्यायं योगेन शोधनक्षमपात्रसम्पादनं विना प्राकृतवत्पातने सर्वे ऽपि देवा नाशिता भवन्ति । अत एत स्वाविशेषतया सर्वानुग्रहार्यं स्ववीर्यं धारयिष्याव इत्यर्थः ॥ १।३६।१४ ॥
॥ १।३६।१५ ॥ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥ १५ ॥
अथ दिव्यवर्षशतसम्भोगवशतो लोकवदेव क्षुभितं क्लेदरूपं यत्तेजः तस्य च गलितस्य स्वावयवधृतस्यामोघस्य चातः परं देवकार्याय सुसहशक्तिसुतसिद्धये मोचनीयस्य किं क्षेममिति भगवान्महेश्वरः पृच्छति–यदिदमित्यादि । स्थानात्हिरण्यमयभूमहृदयपुण्डरीकलक्षणात् शाश्वतस्थानात् क्षुभितंचिरकालभोगोपाधेरेकदेशे सञ्चलितं अनुत्तमंदेवकार्यार्हसुतसमर्थत्वेन सर्वोत्तमं यदिदं तेजःक्लेदरूपमस्ति अमोघमिदमपि वा को धारयिष्यति ? च्युतत्वादेवोमागर्भानर्हं ऽकुम्भे रेतस्सिषिचतुस्समानं । ततोहमानमुदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम्ऽ इति न्यायेन क्कचिदयोनिरूपे क्षेत्रविशेष एव सेचनीयम् । तथा सिक्तं तत् को धारयिष्यति ? तत् विचार्य मह्यं ब्रुवन्तु हे सुरसत्तमाः ॥ १।३६।१५ ॥
॥ १।३६।१६ ॥ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्येतत् तद्धरा धारयिष्यति ॥ १६ ॥
एवं पृष्टे उत्तरम्–एवमित्यादि । धरा धारयिष्यतीति । तस्या अशेषसंसारधारणशक्तित्वादेवेत्याशयः ॥ १।३६।१६ ॥
॥ १।३६।१७ ॥ एवमुक्ताः सुरपतिः प्रमुमोच महीतले ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १७ ॥
एवमुक्तः सुरपतिःरुद्रः येन तेजसास्कन्नेनावरेण तेजसा ऽपि सगिरिकाना पृथिवी शक्त्या व्याप्ता भवति, तादृशं तेजः प्रमुमोच ह । हः प्रसिद्धौ ॥ १।३६।१७ ॥
॥ १।३६।१८ ॥ ततो देवाः पुनरिदं ऊचुश्चाथ हुताशनम् ।
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १८ ॥
अथ पृथिवीमुक्तस्य तेजसो रक्षार्थं ऽअग्निः पृथिव्या अधिपतिःऽ इति पृथिव्यभिमान्यग्निं नियुञ्जतेतत इत्यादि । हुताशनमिति । देवीक्लेर्दो ऽशरूपमिति शेषः । अन्यादृशाग्नेः रौद्रतेजस्स्रोतःप्रवेशायोगाद्रसबलसाध्यश्वेतपर्वतायोगाच्च । वायुसमन्वितः इत्यनेन चारणलक्षणप्रवेशोपाय उक्तः । पुनश्शब्दो वाक्यालङ्कारे ॥ १।३६।१८ ॥
॥ १।३६।१९ ॥ तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।
दिव्यं शरवणं चैव पावकादित्यसन्निभम् ॥ १९ ॥
यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः ।
तत्तेजः उक्ताग्निचारणजारणबलात् बद्धं सदुपरि क्रियारहितं केवलं श्वेतपर्वतात्मनावस्थितमभूत् । तच्च श्वेतपर्वतात्मना ऽवस्थिततेजः तत्प्रदेशे तन्महिम्ना दिव्यं पावकादित्यसन्निभं शरवणं चाभूत् । ऽप्रनिरन्तरश्शरऽ इति णत्वम् । यत्र जात इति । जातः भविष्यतीति यावत् । अग्निना कियत्कालं धृत्वा मोक्ष्यमाणत्वादग्निसन्निभत्वं कार्तिकेयत्ववत् ॥ १।३६।१९ ॥
॥ १।३६।२० ॥ अथोमां च शिवं चैव देवास्सर्षिगणास्तदा ॥ २० ॥
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
देवास्सुप्रीतमनसस्तदेति । लोकानुग्रहाय मूलतेजसो धृतत्वात्, देवकार्याय स्कन्नतेजसश्च दत्तत्वात् सन्तोषः ॥ १।३६।२० ॥
॥ १।३६।२१ ॥ अथ शैलसुता राम त्रिदशानिदमब्रवीत् ।
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥
उमां च शिवं चैव पूजयामासुरित्युक्तम् । तदा उमादेवी पूजां नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह–अथ शैलेत्यादि ॥ १।३६।२१ ॥
॥ १।३६।२२ ॥ यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ॥ २२ ॥
अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।
किन्निमित्तः क्रोधः, कीदृशश्च तच्छाप इत्यतः–यस्मादित्यादि । यस्मात् मया ईश्वरादौरसपुत्रकाम्ययैव क्रियमाणा सङ्गतिर्निवारिता, तस्मात् हेतोः स्वेषु दारेषु औरसं अपत्यं नोत्पादयिष्यथ ॥ १।३६।२२ ॥
॥ १।३६।२३ ॥ अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नयः ॥ २३ ॥
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ।
अत एवअद्यप्रभृतीत्यादि । मच्छापादेव पत्नयः इत्यादि ॥ १।३६।२३ ॥
॥ १।३६।२४,२५ ॥ अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २४ ॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं, सुदुर्मेधे मम पुत्रमनिच्छती ॥ २५ ॥
पृथिवीमपि शशापेत्यत्र हेतुःमम पुत्रमनिच्छतीति । अविघ्नसम्भोगसुखं यथाकालं सम्प्राप्तनिजभर्तृजोगर्भभरणरूपं पूर्वं लोकवदौरसं पुत्रं मम ईप्सितं अनिच्छतीअननुकुर्वती, देवेप्सितं चान्याय्यमनुकुर्वती, चासीरिति यतः, अतः अनेन हेतुना एकरूपा अपि त्वं भहुभार्या भविष्यसि । पुत्रकृतांऔरसपुत्रकृतां न प्राप्यसीति । मद्वदिति शेषः । सुदुर्मेधे इति । ऽनित्यमसिच् प्रजामेधयोःऽ इत्यसिच् ॥ १।३६।२४,२५ ॥
॥ १।३६।२६ ॥ तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २६ ॥
तानित्यादि । पीडितान्देवीशापात् दुःखितांस्तान् दृष्ट्वा, तस्य चाशक्यपरिहारत्वात्तद्दर्शनपरिहाराय तपश्चरणविषयकनियोगसम्पादनाय च ततो देशात् वरुणपालितां दिशंपश्चिमदेशं प्रति गमनायोपचक्राम, छान्दसं परस्मैपदम् ॥ १।३६।२६ ॥
॥ १।३६।२७ ॥ स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ २७ ॥
एवं हिमवतः पश्चिमप्रदेशं गत्वा तत्रापि तत्र गिरेरुत्तरपार्श्वे, तत्रापि हिमवद्भवे शृङ्ग एव देव्या सह तप अतिष्ठत् ॥ १।३६।२७ ॥
॥ १।३६।२८ ॥ एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्त्रिंशः सर्गः
–
उपसंह्रियते–एष त इत्यादि । शैलपुत्र्या विस्तरः–चरितविस्तारो निवेदितः । ऽत्रिषु लोकेषु धर्मज्ञ कर्मभिः कैस्समन्विताऽ इति प्रश्नोत्तरणीय्यस्य देवगर्भधारणरूपगङ्गाचरितस्योपदेशशेषतयेति शेषः । अथ शेषप्रकृतप्रश्नोत्तरं वक्तुं प्रतिजानीतेगङ्गाया इत्यादि । प्रभवमिति । छान्दसो ह्रस्वः । ऐशतेजोधारणरूपं प्रभावमित्यर्थः ॥ १।३६।२८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्त्रिंशः सर्गः