०३५ गङ्गोत्पत्तिः

अथ पञ्चत्रिंशः सर्गः

[उमागङ्गोत्पत्तिकथनम्]

॥ १।३५।१ ॥ उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।

निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत ॥ १ ॥

एवं रामस्य देशविषयप्रश्नप्रसङ्गे स्ववंशविषयिणीं पुण्यकथामुपवर्ण्य तथैव बाल्यवशात् तदज्ञानप्रवृत्तरामप्रश्नेषु काव्यपरमपुरुषार्थसाधकत्वप्रयोजकानां पुण्यकथान्तराणामप्यन्तरान्तरा रामचरितमुपदेशः । उपास्येत्यादि । रात्रिंशेषं तु शोणाकूले उपास्यनिद्रया अतीत्यअतिवाह्य ॥ १।३५।१ ॥

॥ १।३५।२ ॥ सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।

उत्तिष्ठोत्तिष्ठ, भद्रं ते, गमनायाभिरोचय ॥ २ ॥

गमनायगमनं कर्तुम्, ऽक्रियार्थोपपदस्यऽ इति चतुर्थी ॥ १।३५।२ ॥

॥ १।३५।३ ॥ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।

गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ ३ ॥

पूर्वाह्णे भवा पौर्वाह्णीकी, ऽकालात् ठञ्ऽ ॥ १।३५।३ ॥

॥ १।३५।४ ॥ अयं शोणः शुभजलो ऽगाधः पुलिनमण्डितः ।

कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ ४ ॥

अयं शोण इति । शोणैव शोण इति व्यपदिश्यते । कतरेण पथा सन्तरिष्यामह इति प्रश्नबीजम्अगाध इति । ऽअगाधमतलस्पर्शेऽ इति निघण्टुः ॥ १।३५।४ ॥

॥ १।३५।५ ॥ एवमुक्तस्तु रामेण विश्वामित्रेण धीमता ।

एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५ ॥

एष इत्यादि । येन सर्वे महर्षयो यान्ति, एष एव पन्था मया बालस्य तवापि गमनयोग्य उद्दिष्टःनिश्चितः ॥ १।३५।५ ॥

॥ १।३५।६,७ ॥ ते गत्वा दूरमध्वानं गते ऽर्धदिवसे तदा ।

जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ६ ॥

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।

बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ ७ ॥

सारसः ॥ ७ ॥

सरस्तीरे ततश्चक्रुः त आवासपरिग्रहम् ।

आवासाय परिगृह्यत इति आवासपरिग्रहः, सम्मार्जनादिना आवासस्थानञ्चक्रुरिति यावत् ॥ १।३५।६,७ ॥

॥ १।३५।८,९ ॥ अथ स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥ ८ ॥

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।

विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ ९ ॥

विश्वामित्रं महात्मानं परिवार्य समन्ततः ।

अमृतवत्अमृततुल्यं हविःपञ्चयज्ञाद्यवशिष्टमन्नं हि तथा ऽयज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्ऽ इति ॥ १।३५।८,९ ॥

॥ १।३५।१०,११ ॥ अथ तत्र तदा रामो विश्वामित्रमधाब्रवीत् ॥ १० ॥

भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।

त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ ११ ॥

गङ्गां श्रोतुमिति । गङ्गाविषयकं किञ्चित् श्रोतव्यमिति यावत् । किं तदित्यतःत्रैलोक्येत्यादि । त्रैलोक्यमाक्रम्येति । स्वकस्स्रोतोभेदेनेति शेषः ॥ १।३५।१०,११ ॥

॥ १।३५।१२ ॥ चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।

वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १२ ॥

वृद्धिः त्रैलोक्यव्याप्तिरूपिणी ॥ १।३५।१२ ॥

॥ १।३५।१३ ॥ नगेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।

तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ १३ ॥

धातूनांअयस्ताम्रादिधातूनाम् ॥ १।३५।१३ ॥

॥ १।३५।१४ ॥ या मेरुदुहिता राम तयोर्माता सुमध्यमा ।

नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १४ ॥

मेरोर्दुहिता मेरुदुहिता । तयोरिति । कन्ययोरित्यर्थः । मनोरमेति मेनाया नाम ॥ १।३५।१४ ॥

॥ १।३५।१५,१६ ॥ तस्यां गङ्गेयमभवत् ज्येष्ठा हिमवतः सुता ।

उभा नाम द्वितीया ऽभूत् नाम्ना तस्यैव राघव ॥ १५ ॥

अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।

शैलेन्द्रं वरयामासुः गङ्गां त्रिपथगां नदीम् ॥ १६ ॥

देवतार्थचिकीर्षयादेवतानां प्रयोजनसम्पादनेच्छया । देवताप्रयोजनं च स्वर्लोकस्नानपानादिः, वक्ष्यमाणभगवद्वीर्यधारणं च । त्रयश्च ते पन्थानः, ऽऋक्पूःऽ इत्यकारस्समासान्तः, त्रिपथात् गच्छतीति तथा ॥ १।३५।१६ ॥

॥ १।३५।१७ ॥ ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।

स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १७ ॥

धर्मेणधर्ममार्गेण ददौ । ननु देवप्रयोजनाय कथं स्वर्गमनम् न हि जलमाकाशे तिष्ठतीत्यत्रोक्तम्स्वच्छन्दपथगामिति । स्वच्छन्दःस्वेच्छा, तदायत्तः पन्थाः, प्राग्वदकारः, तेन गच्छतीति तथा । ऽडो ऽन्यत्रा ऽपिऽ इति डः । अभ्रजलवत् परिवहादिमहावाय्वैकाधारा भवतीति स्वच्छन्दगतिता ॥ १।३५।१७ ॥

॥ १।३५।१८,१९ ॥ प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।

गङ्गामादाय ते ऽगच्छन् कुतार्थेनान्तरात्मना ॥ १८ ॥

या चान्या शैलदुहिता कन्या ऽ ऽसीद्रघुनन्दन

उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १९ ॥

अथ द्वितीयां कन्यां कस्मै ददाविति प्रसङ्गात् तस्य प्रतिपादनं–या चेत्यादि ॥ १।३५।१८,१९ ॥

॥ १।३५।२०२३ ॥ उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।

रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २० ॥

एते ते शैलराजस्य सुते लोकनमस्कृते ।

गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ २१ ॥

एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।

खं गता प्रथमं तात गतिं गतिमतां वरा ॥ २२ ॥

सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।

सुरलोकं समारूढा विपापा जलवाहिनी ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चत्रिंशः सर्गः

एतत्त इति । गङ्गोमयोरुत्पत्यादिकमित्यर्थः । यथा त्रिपथगामिनीभवति गङ्गा, तथा प्रतिपादयामीति शेषः । तदेव क्रियते–खमित्यादि । तावच्छब्दो वाक्यालङ्कारे । प्रथमं तावत् खंस्वात्मिकां गतिं गता पश्चात् सुरलोकं च समारूढा अभवत् । अंगार (२३ १२)मानः सर्गः ॥ १।३५।२०२३ ॥

इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चत्रिंशः सर्गः