अथ चतुस्त्रिंशः सर्गः
[विश्वामित्रवंशवर्णनम्]
॥ १।३४।१ ॥ कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥
अथ प्रकृते किं ततः इत्यतःकृतोद्वाह इत्यादि । अपुत्र इति । पूर्वं कन्याशतमात्रस्यैव लाभात् । पुत्रार्थेयं पौत्री ॥ १।३४।१ ॥
॥ १।३४।२ ॥ इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥
कुशः–कुशनाभस्य पिता ॥ १।३४।२ ॥
॥ १।३४।३ ॥ पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।
गाधिं प्राप्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥
किमुवाचेत्यतः–पुत्रेत्यादि । हे पुत्र कुशनाभ ते–तव सदृशः सुधार्मिकः पुत्रो भविष्यति, पुत्रीयेष्टिसमाप्त्यनन्तरं किञ्चित्कालात्परं भविष्यति, न तु द्रौपद्यादिवत् तत्कालम् । हे पितः को ऽसौ मया प्रापणीयपुत्रः ? इत्यतःगाधिमिति । गाधिंगाधिनामानं पुत्रं प्राप्स्यसि तेन च गाधिना शाश्वतींशश्वद्भवां, अण्, बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्कचिन्न, ततो ङीष्, कीर्तिं प्राप्स्यति ॥ १।३४।३ ॥
॥ १।३४।४ ॥ एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥
एवमुक्त्वा कुशः आकाशमाविश्य ब्रह्मलोकं जगाम । एतेन रामवत् कुशस्यापि ब्रह्मपुत्रावतारत्वनिरतिशयवैभवतः पुत्रानुग्रहपूर्वं सशरीरतया स्वीयब्रह्मलोकप्रत्ययापत्तिरुक्ता । अयमर्थं इदानीन्तनानामपि ब्रह्मांशावताराणां अविशिष्टः ॥ १।३४।४ ॥
॥ १।३४।५ ॥ कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ ५ ॥
कस्य चित्त्वथ कालस्येति । अत्ययानन्तरमिति शेषः । गाधिरित्येव नामत इति । यथा पित्रा कुशेनोक्तं तेनैव प्रकारेणेत्यर्थः ॥ १।३४।५ ॥
॥ १।३४।६ ॥ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन ॥ ६ ॥
ममेति । अस्मदर्थो विश्वामित्रः । कुशवंशप्रसूत इति यतः अतः कौशिको ऽस्मि । अपत्यादित्वादापत्यष्ठक् । एवं स्थिते मिथ्यापक्रियाः बह्वजल्पत् शाब्दिकमानी कश्चित् ॥ १।३४।६ ॥
॥ १।३४।७ ॥ पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ ७ ॥
पूर्वजेति । न केवलमहं गाधेरेकः पुत्रः मम पूर्वजा ज्येष्ठा भगिनी चास्ति । ऋचीके प्रतिपादितेति । ऋचीकाय दत्तेति यावत् ॥ १।३४।७ ॥
॥ १।३४।८,९ ॥ सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ ८ ॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।
लोकस्य हितकाम्यार्थं प्रवृत्ता भगिनी मम ॥ ९ ॥
सशरीरा स्वर्गं गतेत्यत्र साधनोपदेशः–भर्तारमनुवर्तिनीति । किमुक्तमेतेन ? अनुमरणं कृतवतीत्येव । अपि चान्यदप्यस्ति तस्याश्चरितमित्युच्यते–कौशिकीत्यादि । महानदीमहानदीरूपिणी च प्रवृत्ता । क्कैवं प्रवृत्तेत्यतो–हिमवन्तमुपाश्रितेति । किं प्रयोजनेनैवं प्रवृत्तिरित्यतः–लोकस्येत्यादि ।
हितकाम्यार्थंइष्टकाम्यार्थसिद्ध्यर्थमित्यर्थः ॥ १।३४।९ ॥
॥ १।३४।१० ॥ ततो ऽहं हिमवत्पार्श्वे वसामि निरतः सुखम् ।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ १० ॥
तत इति । यतो भगिन्यां स्नेहसंयुक्तः, तत एव हिमवत्पार्श्वे वर्तमानायां कौशिक्यां निरतःनित्यप्रतिष्ठितः सुखं वसामि ॥ १।३४।१० ॥
॥ १।३४।११ ॥ सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ ११ ॥
इतश्च तस्यां वासः–सा त्वित्यादि ॥ १।३४।११ ॥
॥ १।३४।१२ ॥ अहं हि नियमाद्राम हित्वा तां समुपागतः ।
सिद्धाश्रममनुप्राप्य सिद्धो ऽस्मि तव तेजसा ॥ १२ ॥
ननु दिव्यवैभवकौशिकीनित्यप्रतिष्ठस्य कुतस्स्सिद्धाश्रमागम इत्यतः–अहं हीत्यादि । नियमादिति । गयापिण्डदानवत् सिद्धाश्रमैकसिद्धियागाविशेषसिद्धिहेतोरित्यर्थः । आगमनकार्यं च त्वदनुग्रहात् सिद्धमित्याहसिद्धाश्रममित्यादि ॥ १।३४।१२ ॥
॥ १।३४।१३ ॥ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ १३ ॥
उपसंहरतिएषेत्यादि । मम गाधेरुत्पत्तिः, स्वस्य वंशस्य कुशात् ब्रह्मपुत्रात् उत्पत्तिः कीर्तिता । देशस्य शोणाकूलीयदेशस्य गिरिव्रजस्य प्राचीनकर्त्रधिष्ठानमूलो वैभवश्च कीर्तितः । हे राम त्वं यद्वृत्तान्तं मां परिपृच्छसि, वर्तमानसामीप्ये लट्, पर्यपृच्छः, तत्सर्वमुक्तमिति शेषः ॥ १।३४।१३ ॥
॥ १।३४।१४ ॥ गतो ऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि, भद्रं ते, मा भूद्विघ्नो ऽध्वनीह नः ॥ १४ ॥
अतः परं न प्रष्टव्यमित्याह–गत इत्यादि । अर्धं रात्रेः अर्धरात्रः । ऽअर्धं नपुंसकम्ऽ इति समासः । ऽअहस्सर्वऽ इत्यच् । ऽरात्राह्नऽ इत्यादिना पुंस्त्वम् । इहाध्वनि विघ्नो मा भूदिति । श्वोगान्तव्याध्वनि निद्राभावप्रयुक्तजाड्यमूलो विघ्नो मा भूदित्यर्थः ॥ १।३४।१४ ॥
॥ १।३४।१५ ॥ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ १५ ॥
निष्पन्दास्तरवस्सर्व इति । मध्यरात्रे वायोश्चाल्पस्पन्दादेकदेशस्पन्दमूलशकुन्यादीनामप्यस्पन्दात्तरूणामप्यस्पन्दत्वम् ॥ १।३४।१५ ॥
॥ १।३४।१६ ॥ शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥
शनैर्वियुज्यत इति । वर्तमानसमीप्ये भूते लट्, वियुक्तेति यावत् ।
अश्विन्यादिनक्षत्रैः केवलताराभिश्च गहनंव्याप्तं नभः उक्तरूपैः ज्येतिर्भिःउपाधिभिः नैत्रैःचक्षुर्भिः सहस्राक्षवदावृतंव्याप्तमिव अवभासते । एवं स्थिते नैत्रेरंशुकैरित्यादि प्रलपति ॥ १।३४।१६ ॥
॥ १।३४।१७ ॥ उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ॥ १७ ॥
उत्तिष्ठतीति । ऽउदो ऽनूर्ध्वकर्मणिऽ इति निषेधादात्मनेपदाभावः । तमो नुदतीति–तमोनुदः, उपधालक्षणः कः ॥ १।३४।१७ ॥
॥ १।३४।१८ ॥ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ १८ ॥
निशायां प्रभवानि नैशानि । ऽप्रभवतिऽ इत्यण् ॥ १।३४।१८ ॥
॥ १।३४।१९ ॥ एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ १९ ॥
अभ्यपूजयन् । अस्तुवन्निति यावत् ॥ १।३४।१९ ॥
॥ १।३४।२० ॥ कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ २० ॥
तस्यैव प्रकारविशेषः–कुशिकानामित्यादि । गाधेः कुशिक इति नामान्तरम् । कुशिकस्य गोत्रापत्यं, ऽअनृष्यानन्तर्येऽ इत्यादिना अञ्, तस्य बहुषु ऽयञञोश्चऽ इति लुक्, कुशिकानां–तद्गोत्रजानामित्यर्थः । ब्रह्मोपमा इति । ब्रह्मर्षितुल्या इति यावत् ॥ १।३४।२० ॥
॥ १।३४।२१ ॥ विशेषेण भवानेव विश्वामित्रो महायशाः ।
कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ॥ २१ ॥
भवानेवेति । महात्मेत्यनुकर्षः ॥ १।३४।२१ ॥
॥ १।३४।२२ ॥ इति तैः मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमान् अस्तंगत इवांशुमान् ॥ २२ ॥
प्रशस्तःस्तुतः, ऽशंसुस्तुतौऽ ऽयस्य विभाषाऽ इति नेट्, ऽअनिदिताम्ऽ इति नलोपः । श्रीमान्दिव्यविद्यैश्वर्यवान् । निद्रामुपागमत् इत्यत्र हेतुगर्भं विशेषणम्अस्तगत इत्यादि । अस्तमितः अंशुमान्सूर्यो यस्मै स तथा ॥ १।३४।२२ ॥
॥ १।३४।२३ ॥ रामो ऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्त्रिंशः सर्गः
–
प्रशस्येति ल्यप् । स्थानिवत्त्वेन कित्वादनुनासिकलोपः । सेवतेसेवते स्म । गोष्ठ (२३)मानः सर्गः ॥ १।३४।२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्त्रिंशः सर्गः