०३३ कुशनाभकन्योद्वाहः

अथ त्रयस्त्रिंशः सर्गः

[कुशनाभकन्यापरिणयः]

॥ १।३३।१ ॥ तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।

शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥

अथ पृष्टप्रत्युत्तरतदुचितोत्तरव्यापारः–तस्येत्यादि ॥ १।३३।१ ॥

॥ १।३३।२ ॥ वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।

अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥

प्रधर्षयितुंअभिभवितुं । अशुभंबलात्काररूपं नावेक्षते स्म ॥ १।३३।२ ॥

॥ १।३३।३ ॥ पितृमत्यः स्म, भद्रं ते, स्वच्छन्दे न वयं स्थिताः ।

पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥

किञ्च यतः पितृमत्यः स्म वयं, ततो न स्वच्छन्देस्वातन्त्र्ये किञ्चित्पतिस्वीकारविषयके स्थिताःवर्तामहे । यदेवमतःनः पितरमेव वृणीष्व त्वम् । स यदि नःअस्मान् तुभ्यं दास्यते तदा तव भविष्यामः । तव भद्रमस्तु ॥ १।३३।३ ॥

॥ १।३३।४ ॥ तेन पापानुबन्धेन वचनं नप्रतीच्छता ।

एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ ४ ॥

इत्येवंब्रुवन्तीनां नः वचनं नप्रतीच्छताअनङ्गीकुर्वता पापानुबन्धेनअधर्मानुबद्धचित्तेन, तत एव धर्मं ब्रुवन्त्यः सर्वाः वयं वायुना भृशं निहताः ॥ १।३३।४ ॥

॥ १।३३।५,६,७ ॥ तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।

प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।

ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥

अलङ्कारो हि नारीणां क्षमा तु परुषस्य वा ।

दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥

हे पुत्र्यः क्षमावतां–क्षमावत्वे प्रसिद्धभूम्यादिभिः कर्तव्यं–कर्तुमर्हं, ऽकृत्यानां कर्तरि वाऽ इति षष्ठी, यत् क्षान्तंभावे निष्ठा, क्षमा, तत् भवतीभिः कृतं इदं सुमहत् कर्म देवे प्रार्थयमानेकामवेगस्य, तथा गात्रं भञ्जयति तदुत्थक्रोधवेगस्य च सहनमपि कृतचित्तत्वरूपं दुष्करमित्यर्थः । पूरुषस्य वेति । अविशेषेणेति शेषः । यच्च भवतीनां क्षान्तमभूत् तत्, त्रिदशेषुत्रिदशविषयेषु विशेषतो दुष्करंकामस्य रूपगतिभोगविद्यैश्वर्यपतिविषयत्वात्तद्विषयककामवेगोपशमनं दुष्करमित्यर्थः ॥ १।३३।५,६,७ ॥

॥ १।३३।८ ॥ यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।

अथ अलङ्कारो हीत्यादिना प्रागुक्त एवार्थ आदरात्पुनः प्रतिपाद्यते–यादृशीत्यादि । अविशेषत इति । स्त्रीपुरुषाविशेषेणेति यावत् ॥ १।३३।८ ॥

॥ १।३३।९,१० ॥ विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥ ९ ॥

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।

देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥

प्रदानं । कन्याप्रदानमिति यावत् । अथ मन्त्रणीयांशः प्रतिपाद्यते–देश इत्यादि । उचिते देशे काले च यथावत्क्रियमाणकन्याप्रदानस्य सदृशेस्वकुलादिसदृशे पात्रे यत्प्रदानं सिद्ध्यति, तदर्थं मन्त्रयामासेत्यर्थः ॥ १।३३।१० ॥

॥ १।३३।११ ॥ एतस्मिन्नेव काले तु चूली नाम महामुनिः ।

ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥

ऊर्ध्वरेताःसर्वोर्ध्वब्रह्मलोकोन्मुखरेतस्त्रयः । ब्राह्मं तप इति । श्रीमत्स्वकुलब्रह्मविद्यया श्रीमदादिगुरुब्रह्मविषयं तपश्चित्तैकाग्र्यं, ऽमनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपःऽ इति स्मृतिः । अत एव ऊर्ध्वरेतस्त्वविशेषणम् । ब्राह्मतपोमात्रे तस्यावश्यकत्वात् ॥ १।३३।११ ॥

॥ १।३३।१२ ॥ तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।

सोमदा नाम, भद्रं ते, ऊर्मिलातनया तदा ॥ १२ ॥

तप्यन्तंदाहार्थे ऽपि व्यत्ययात् श्यन् । गन्धर्वीति । जातिवाचित्वात् ङीष् । यदा चूली तपश्चरति, तत्रकाले ऊर्मिलातनया सोमदा नाम गन्धर्वी ऽभगवन् ते मयि भद्रमस्तुअनुग्रहबुद्धिरस्तुऽ इति पर्युपासते स्म । एवमादिदुर्योजस्थलं त्यक्त्वै गच्छति, विद्धकर्णस्य न विकलतेति न्यायेनान्यः ॥ १।३३।१२ ॥

॥ १।३३।१३ ॥ सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।

उवास काले धर्मिष्ठा तस्यास्तुष्टो ऽभवद्गुरुः ॥ १३ ॥

उक्तानुवादपूर्वं गन्धर्व्याः कार्यसिद्धिः प्रदर्श्यतेसा चेत्यादि । कालेशुश्रूषाजनितधर्मपरिपाककाले । गुरुरिति । एतेन गुरुशिष्यभावेन दिव्ययोगिनीयोगिनामकल्मषतपःप्रवृत्तिरस्तीति सुस्पष्टं प्रतिपादितम् ॥ १।३३।१३ ॥

॥ १।३३।१४ ॥ स च तां कालयोगेन प्रोवाच रघुनन्दन

परितुष्टो ऽस्मि, भद्रं ते, किं करोमि तव प्रियम् ॥ १४ ॥

कालयोगेनतपःपरिपाककालसम्बन्धेन हेतुना तुष्ट इति शेषः । किं प्रियमिति योजना ॥ १।३३।१४ ॥

॥ १।३३।१५ ॥ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।

उवाच परमप्रीत्या वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।

ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥

ब्राह्म्या लक्ष्म्याश्रीमूलब्रह्मविद्याजनितया लक्ष्म्या, ब्रह्मवर्चसेनेति यावत्, समुदितः अत एव ब्रह्मभूतःअकृतकभगवदनन्यताब्रह्मयोगसिद्धः, अपि च महातपाःकृच्छ्रचान्द्रायणादिवायुभक्षतपोयुक्तो यः पुत्रो भवति तादृशं अपि च विशिष्य ब्राह्मेणब्रह्मस्वाध्यायः तत्सम्बन्धिना तदभ्यासरूपेण सर्वमूलेन ऽतपो हि स्वाध्यायःऽ इति प्रसिद्धेन तपसा युक्तं पुत्रमिच्छामि ॥ १।३३।१५,१६ ॥

॥ १।३३।१७ ॥ अपतिश्चास्मि, भद्रं ते, भार्या चास्मि न कस्यचित् ।

ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥

अपि च भगवन् । अहं अपतिश्चास्मि । इतः परमपि न कस्यचित् भार्या ऽस्मि । तथा ऽपि मे यथा पुत्रप्राप्तिस्तथा ते मयि भद्रंअनुग्रहो ऽस्तु । एवं ब्रह्मयोगिनं त्वां ब्राह्मेणैव योगेन भगवदनन्यतालक्षणेनोपगतायास्तदुचितमेव च सुतं दातुमर्हसिन हि विराज इव भगवतो हिरण्यगर्भस्य यौनः पुत्रो ऽस्ति ॥ १।३३।१७ ॥

॥ १।३३।१८ ॥ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।

ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥

एवं शुद्धब्रह्मनिष्ठायाः तस्याः प्रसन्नः चूलिनःफली फलिन इत्यादिवत् चूली चूलिन इति इनजन्तः । अन्यः चूलिक इति पठितव्यमिति निरबध्नात् । चूलिनो महर्षिः तथाविधंयादृग्गुणको वृतः तादृग्गुणकं ब्रह्मयोगवैभवेन ब्रह्मर्षिणा मनसा दत्तत्वात् ब्रह्मदत्त इति ख्यातं मानसं संतुमंदात् ॥ १।३३।१८ ॥

॥ १।३३।१९ ॥ स राजा सौमदेयस्तु पुरीमध्यावसत्तदा ।

कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥

अथ सौमदेयः–ऽस्त्रीभ्यो ढक्ऽ, सोमदायाः पुत्रः स ब्रह्मदत्तः, गन्धर्व्या सोमदायाः क्षत्रियत्वात् क्षेत्रद्वारप्राप्तया परया लक्ष्म्या कांपिल्यांकांपिल्यादिनिर्वृत्तां ऽसङ्काश कांपिलऽ इति सङ्काशादित्वात् ऽवुञ्छण्ऽ इत्यादिसूत्रेण ण्यः, ततष्टाप् । पुरीं तदा कुशनाभेन वरान्वेषणकाले अध्यावसत्ऽ उपान्वध्याङ्वसःऽ इति ाधारस्य कर्मत्वंपुर्यामुषितवानिति यावत् ॥ १।३३।१९ ॥

॥ १।३३।२० ॥ स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।

ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥

किं तत इत्यतःस इत्यादि । काकुत्स्थेति रामस्य सम्बुद्धिः । तदाकाम्पिल्यायां ब्रह्मदत्तस्यावासकाले ॥ १।३३।२० ॥

॥ १।३३।२१,२२ ॥ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।

ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥

यथाक्रमं ततः पाणीन् जग्राह रघुनन्दन

ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥

तासां पाणीन् इत्यन्वयः । देवपतिदृष्टान्तो दिव्यवैभववत्त्वे न तु पाणिग्रहांशे । देवपतिशब्देन सोमराजविवक्षायां तु पाणिग्रहांशे ऽपि दृष्टान्तः ॥ १।३३।२२ ॥

॥ १।३३।२३ ॥ स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।

युक्ताः परमया लक्ष्म्या बभुः कन्या शतं तदा ॥ २३ ॥

ततः तेन ब्रह्मदत्तेन तासां पाणौ, जामातृस्पृष्टमात्रे सति विकुब्जत्वादिगुणवत्यः शतं कन्या बभुः । कन्याशतमिति शकारलोपः । इदमेव दिव्यवैभवब्रह्मदत्तजामात्रन्वेषणफलं कुशनाभस्य ॥ १।३३।२३ ॥

॥ १।३३।२४ ॥ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।

बभूव परमप्रीतः, हर्षं लेभे पुनः पुनः ॥ २४ ॥

स कुशनाभः तदा वायुना मुक्ताः कन्याः दृष्ट्वा परमप्रीतो बभूव ॥ १।३३।२४ ॥

॥ १।३३।२५ ॥ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।

सादरं प्रेषयामास सोपाध्यायगणं तदा ॥ २५ ॥

प्रेषयामासेति । काम्पिल्यां प्रतीति शेषः ॥ १।३३।२५ ॥

॥ १।३३।२६ ॥ सोमदा ऽपि सुंसहृष्टा पुत्रस्य सदृशीं क्रियाम् ।

यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।

स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः

सोमदा ऽपिब्रह्मदत्तमाता ऽपि । सदृशी क्रियामिति । दारक्रियामित्यर्थःदृष्ट्वेति शेषः । प्रतिनन्दनप्रकारः–स्पृष्ट्वा स्पृष्ट्वेत्यादि । सार(२७)मानः सर्गः ॥ १।३३।२६ ॥

इति श्रीमद्रामायणमृतकतकटीकायां बालकाण्डे त्रयस्त्रिंशः सर्गः