०३२ कैशिकवंशकथा

अथ द्वात्रिंशः सर्गः

[कुशनाभकन्योपाख्यानम्]

॥ १।३२।१ ॥ ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।

अक्लिष्टव्रत र्धमश्च सज्जनप्रतिपूजकः ॥ १ ॥

एवं शोणाकूलप्रदेशवैभवप्रश्ने, अयं देशो मद्वश्यानामिति प्रतिपादनशेषतया निजान्वयः प्रकाश्यते–ब्रह्मयोनिरित्यादि । ब्रह्मयोनिः–ब्रह्मपुत्रःप्राजापत्यः, मन्वादिवत् क्षत्रक्षेत्रप्राधान्यात् क्षत्रियत्वम् । ऽक्लिशूविबाधनेऽ, अक्लिष्टंनिर्बाधं व्रतं धर्मश्च यस्य स तथा ॥ १।३२।१ ॥

॥ १।३२।२ ॥ स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।

वैदर्भ्यां जनयामास सदृशांश्चतुरस्सुतान् ॥ २ ॥

कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् ।

युक्तायांअशेषोत्तमस्त्रीगुणयुक्तायाम् । असूर्तेति । ऽप्रतूर्तसूर्तऽ इति निपातनम् विद्यते, सूर्तंनिस्सृतं रजो यस्य स तथा । ऽअच्ऽ इति योगविभागादच् ॥ १।३२।२ ॥

॥ १।३२।३,४ ॥ दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।

क्रियतां पालनं पुत्राः धर्मं प्राप्स्यथ पुष्कलम् ॥ ४ ॥

पालनंक्षत्रधर्मपरिपालनम् ॥ १।३२।३ ॥

॥ १।३२।५,६,७,८ ॥ ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।

निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।

कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥

असूर्तरजसो राम धर्मारण्यं महीपतः ।

चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ७ ॥

एषा वसुमती राम वसोस्तस्य महात्मनः ।

एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥

एषेति । गिरिव्रजपर्यायेत्यर्थः । एषा इत्यपरोक्षनिर्देशः ॥ १।३२।५,६,७,८ ॥

॥ १।३२।९ ॥ सुमागधी नदी रम्या मगधन् विश्रुता ऽययौ ।

पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ९ ॥

सुमागाधीतत्संज्ञा । आययौ इति पदम् ॥ १।३२।९ ॥

॥ १।३२।१० ॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः ।

पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ १० ॥

हे राम एषा मागधीमगधादागतत्वेन तथासंज्ञा, एषा शोणा एतद्देशश्च मद्वंश्यस्य वसोर्भवति । सापूर्वां दिशमभि चरितंगमनं यस्यास्सा तथा, पूर्ववाहिनीति यावत् । सुक्षेत्रेति उभयपार्श्वयोरिति शेषः ॥ १।३२।१० ॥

॥ १।३२।११ ॥ कुशानाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।

जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ १३ ॥

घृताच्यांअप्सरस्स्त्रियाम् ॥ १।३२।११ ॥

॥ १।३२।१२१४ ॥ तास्तु यौवनशालिन्यो रूपवत्यः खलङ्कृताः ।

उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १२ ॥

गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।

आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १३ ॥

अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।

उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १४ ॥

आमोदंसन्तोषम् । उद्यानभूमिमागम्य धनान्तरेमेधमध्येताराःतारका इव रेजुः ॥ १।३२।१३,१४ ॥

॥ १।३२।१५ ॥ ताः सर्वगुमसम्पन्ना रूपयौवनसंयुताः ।

दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १५ ॥

अहं वः कामये सर्वा भार्या मम भविष्यथ ।

मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १६ ॥

वायोर्वशीकरणार्थवादः–मानुषस्त्यज्यतामित्यादि । यदा भविष्यथ–तदा मानुष इति योज्यम् ॥ १।३२।१५,१६ ॥

॥ १।३२।१७,१८ ॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।

अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १७ ॥

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।

अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १८ ॥

वायोर्वाक्यमपहास्येति । ऽतत्करोतिऽ इति ण्यन्ताल्ल्यप्, अपहासं कृत्वा ॥ १।३२।१८ ॥

॥ १।३२।१९ ॥ अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम

प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १९ ॥

सर्वाः वयं ते प्रभावज्ञाः स्म, स्येत्यव्ययमिति प्रागेवोक्तम् । त्वं चास्मत्प्रभावज्ञःकिमस्मानवमन्यसे ॥ १।३२।१९ ॥

॥ १।३२।२० ॥ कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम

स्थानाच्च्यावयितुं देवं, रक्षामस्तु तपो वयम् ॥ २० ॥

को भवतीनां प्रभाव इत्यतः–कुशेत्यादि । यस्माद्राजर्षेः कुशनाभस्य सर्वा वयं सुताः, अतः त्वां देवमपि स्थानात्वायुपदात् च्यावयितुं समर्था एव । अपि च सर्वा वयं तु तपःअक्षतयोनित्वरूपकन्याधर्मं रक्षामः ॥ १।३२।२० ॥

॥ १।३२।२१ ॥ मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।

नावमन्यस्व, धर्मेण स्वयं वरमुपास्महे ॥ २१ ॥

हे दुर्मेधः स कालःमृत्युस्ते मा भूत् । धर्मेण स्वयमिति । पित्रा स्वयंस्वेच्छया क्रियमाणेन कन्यादानरूपेण यो वर आयाति तं वरमुपास्महे । वर्तमानसामीप्ये लट् ॥ १।३२।२१ ॥

॥ १।३२।२२ ॥ पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।

यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥

अयमेवार्थः स्पष्टं व्याख्यायते–पिता हीत्यादि ॥ १।३२।२२ ॥

॥ १।३२।२३,२४ ॥ तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।

प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥

ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।

प्रापतन् भुवि संभ्रान्ताः सलञ्जाः साश्रुलोचनाः ॥ २४ ॥

सलज्जा इति । अन्याय्यपतिप्रसङ्गतस्सलज्जाः ॥ १।३२।२३,२४ ॥

॥ १।३२।२५ ॥ स च ता दयिता दीनाः कन्याः परमशोभनाः ।

दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २५ ॥

संभ्रान्तःपर्याकुलचित्तः ॥ १।३२।२५ ॥

॥ १।३२।२६ ॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।

कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २६ ॥

को धर्ममवमन्यत इति । बलात्कारं करोतीति यावत् ॥ १।३२।२६ ॥

॥ १।३२।२६ ॥ एवं राजा विनिश्वस्य समाधिमकरोत् ततः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वात्रिंशः सर्गः

एवमिति । पृष्ट्वेति शेषः । समाधिमकरोदिति । किं वक्ष्यन्तीति तद्वचनश्रवणैकाग्रचित्तो ऽभूदित्यर्थः । इतर(२६ १२)मानः सर्गः ॥ १।३२।२६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वात्रिंशः सर्गः