०३१ मिथिला-प्रस्थानम्

अथ एकत्रिंशः सर्गः

[मिथिलाप्रस्थानम्

॥ १।३१।१ ॥ अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।

ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ १ ॥

एवं स्वयज्ञविघ्ननिवृत्तिनान्तरप्रयोजनं सर्वास्त्रशक्तिसम्बन्धानुग्रहं कृत्वा भगवान् विश्वामित्रस्ततस्सहजलक्ष्मीशक्तिसम्बन्धानुग्रहाय प्रवर्ततेअथ तामित्यादि । तत्रेति । यज्ञशालायामित्यर्थः ॥ १।३१।१ ॥

॥ १।३१।२ ॥ प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।

विश्वामित्रं मुनिंश्चान्यान् सहितावभिजग्मतुः ॥ २ ॥

कृता पौर्वाह्णिकी क्रिया याभ्यां तौ तथा । ऽपुंवत्कर्मधारयऽ इति पुंवद्भावः । सहितौयुगपत्समवेतौ ॥ १।३१।२ ॥

॥ १।३१।३ ॥ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।

ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ ३ ॥

मुनिश्रेष्ठंविश्वामित्रम् ॥ १।३१।३ ॥

॥ १।३१।४ ॥ इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।

आज्ञापय यथेष्टं वै शासनं करवाम किम् ॥ ४ ॥

स्मेत्यव्ययम्, समुपागतौ स्मआगतावभूव ॥ १।३१।४ ॥

॥ १।३१।५ ॥ एवमुक्तस्ततस्ताभ्यां सर्व एव महर्षयः ।

विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ ५ ॥

एवं विश्वामित्रनियोगप्रार्थनायां विश्वामित्रेण कृता या रामविसर्जनशङ्का तव्द्यावृत्तये रामाभ्युदयसंपिपादयिषवः ऋषय एव रामं कृत्यविषेशे नियुञ्जत इत्युच्यते–एवमुक्त इत्यादि । विश्वामित्रं पुरस्कृत्येति । कृतविश्वामित्रानुमतिका इति यावत् ॥ १।३१।५ ॥

॥ १।३१।६ ॥ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।

यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ ६ ॥

मिथिलाया ईश्वरो मैतिलः, ऽतस्येश्वरःऽ इत्यणम् । अतिशयेन धर्मवान्धर्मिष्ठः, इष्ठनि, ऽविन्मतोर्लुक्ऽ इति मतुपो लुक् । वयमिति । सविश्वामित्रा इत्यर्थः ॥ १।३१।६ ॥

॥ १।३१।७ ॥ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।

अद्भुतं च धनूरत्नं तत्र तद्द्रष्टुमर्हसि ॥ ७ ॥

यदा अस्माभिस्सह गमिष्यसि तदा अद्भुतमिति योज्यम् । धनूरत्नमिति । धनेरौणादिक उस्प्रत्ययः, धनुश्च तद्र्त्नं तथा ॥ १।३१।७ ॥

॥ १।३१।८ ॥ तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।

अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥

तद्धि धनूरत्नं माहेश्वरम्, पूर्वंपूर्वस्मिन् काले, देवान् यजतः सीरध्वजाख्यस्य प्राचीनजनकस्य यज्ञसदसि देवैस्तन्नगर एव सन्तानपरम्परया ऽवस्थानार्थं दत्तं अतस्तत्र तिष्ठतीति शेषः । अप्रमेयबलत्वादि विशेषणं तत् मुखे जनकीये द्रक्ष्यसीत्यनुकर्षः ॥ १।३१।८ ॥

॥ १।३१।९ ॥ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।

कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥

पूर्वमद्धुतमित्युक्तं, कीदृशं तदित्यपेक्षायामुच्यते–नास्येत्यादि । आरोपणमिति । ज्यारोपणमिति यावत् ॥ १।३१।९ ॥

॥ १।३१।१० ॥ धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।

न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥

जिज्ञासन्त इति । जिज्ञासमाना इति यावत् । राजवेश्मन्यर्चितमिति योजना (?) ॥ १।३१।१० ॥

॥ १।३१।११ ॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।

तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥

तत्र द्रक्ष्यसीति । मिथिलायां राजवेश्मनीत्यर्थः ॥ १।३१।११ ॥

॥ १।३१।१२ ॥ तद्धि यज्ञफलं तेन मेथिलेनोत्तमं धनुः ।

याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥ १२ ॥

कुतस्तादृशस्य धनुषः तत्र स्थितिरित्यतः–तद्धीत्यादि । उत्तमं धनुः मैथिलेन निजयज्ञप्रीतदेवेभ्यो निजवेश्मनि नित्यस्थिति याचितम्, सर्वदैवतैश्च तथा दत्तस्थितिकं, तस्य यज्ञफलतया तत्र प्राप्तस्थितिकमित्यर्थः । सुनाभंशोभना नाभीमुष्टिबन्धस्थानं यस्य तत् तथा । ऽअच्प्रत्यन्वयऽ इत्यत्र अचीति योगविभागादच् ॥ १।३१।१२ ॥

॥ १।३१।१३ ॥ आयागभूतं नृपतेस्तस्य वेश्मनि राघव

अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥

तद्धनुरतस्तस्य नृपतेर्वेश्मनि आयागभूतंयज्यत इति यागः, कर्मणि घञ्, यजनीयदेवतेति यावत्, तद्भावं प्राप्तं तथा । अत एवअर्चितमित्यादि ॥ १।३१।१३ ॥

॥ १।३१।१४ ॥ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।

सर्षिसङ्घः सकाकुत्स्थः आमन्त्र्य वनदेवताः ॥ १४ ॥

एवमुक्त्वेति । स्वशिष्यमहर्षिसङ्घद्वारेणेति यावत् । मुनिवरःविश्वामित्रः । वनाधिष्ठात्र्यो देवताःवनदेवताः ॥ १।३१।१४ ॥

॥ १।३१।१५ ॥ स्वस्ति वो ऽस्तु गमिष्यामि सिद्धस्सिद्धाश्रमादहम् ।

उत्तरे जाह्नवीकूले हिमवन्तं शिलोच्चयम् ॥ १५ ॥

सिद्धःसिद्धयज्ञो ऽहम् । क्क गमिष्यसीत्यपेक्षायां–उत्तरमित्यादि । उत्तरे जाह्नवीकूले वर्तमानं हिमवन्तं शिलोच्चयं गमिष्यामीत्यनुकर्षः ॥ १।३१।१५ ॥

॥ १।३१।१६ ॥ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ।

उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ ॥

तं प्रयान्तं मुनिवरमन्वयादनु सारिणम् ।

शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १७ ॥

अनुसारिणंउत्तरदिगनुसृत्य गच्छन्तं, प्रायेणबाहुल्येन ब्रह्मवादिनां शकटीशतमात्रंशकट्यारोपिताग्निहोत्रसंभारादिमच्छतप्रमाणं अनुजग्मुरित्यग्रेण सम्बन्धः ॥ १।३१।१७ ॥

॥ १।३१।१८ ॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।

अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १८ ॥

निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ।

पक्ष्यादीन्निवर्तयामासेत्यनेन ऋषीणामनिवर्तनमुक्तम् ॥ १।३१।१८ ॥

॥ १।३१।१९ ॥ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।

वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥ १९ ॥

तदेवोच्यते–गत्वेत्यादि । शोणेति काचिन्नदी । शोणस्तु नदः पुल्लिङ्गः । स एव वा शोणेत्यपि व्यपदिश्यते ॥ १।३१।१९ ॥

॥ १।३१।२० ॥ ते ऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।

विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ २० ॥

अस्तं गत इति । अस्तं गमिष्यतीति यावत् ॥ १।३१।२० ॥

॥ १।३१।२१,२२,२३ ॥ रामो ऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।

अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ २१ ॥

अथ रामो महातेजा विश्वामित्रं महामुनिम् ।

भगवन् किं नु देशो ऽयं समृद्धवनशोभितः ।

श्रोतुमिच्छामि, भद्रं ते, वक्तुमर्हसि तत्त्वतः ॥ २३ ॥

अयं देश इति । शोणाकूलप्रदेश इत्यर्थः । किं नु–किंवैभव इत्यर्थः ॥ १।३१।२३ ॥

॥ १।३१।२४ ॥ चोदितो रामवाक्येन कथयामास सुव्रतः ।

तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकत्रिंशः सर्गः

निखिलमिति । वैभवमिति शेषः । खंवा (२४) मानः सर्गः ॥ १।३१।२४ ॥

इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकत्रिंशः सर्गः