०३० यज्ञरक्षणम्

अथ त्रिंशः सर्गः

[यज्ञसंरक्षणम्]

॥ १।३०।१ ॥ अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ ।

देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १ ॥

अथ प्रकान्तदीक्षापारगमनोपदेशः–अथ तावित्यादि । कौशिकं वचो ऽब्रूतामिति । दीक्षायां मौनापरिज्ञानादेवं प्रश्नः ॥ १।३०।१ ॥

॥ १।३०।२ ॥ भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।

संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम् ॥ २ ॥

यस्मिन्काले प्राप्ते तौ निशाचरौ आवाभ्यां संरक्षणीयौयज्ञसंरक्षणाय निवारणीयौ । गहादेराकृतिगणत्वात् ऽशेषेऽ इति लक्षणत्वाच्च उक्तार्थे छः । स कालो यथा चेत् नातिवर्तेत, अतस्तदर्थं,तत्क्षणंस चासौ क्षणःतत्क्षणः, तं कालं भगवन् श्रोतुमिच्छावः ॥ १।३०।२ ॥

॥ १।३०।३,४ ॥ एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।

सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ ३ ॥

अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।

दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ ४ ॥

एवं विश्वामित्रे पृष्टे तस्य दीक्षया मौनित्वाद्दषयः प्रतिब्रुवन्ते–सर्वे त इत्यादि । प्रशशंसुः । प्रशस्य च अद्यप्रभृतीत्यादि गमिष्यतीत्यन्तेन प्रत्युत्तरं चोचुरिति योजना । मौनित्वं च गमिष्यतीति । अद्यापि दीक्षितत्वान्मौनिः, अतः परं षड्रात्रपर्यन्तं च मौनित्वं गमिष्यतीत्यर्थः ॥ १।३०।४ ॥

॥ १।३०।५,६ ॥ तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।

अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ ५ ॥

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।

ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ ६ ॥

परमं धनुर्ययोस्तौ–परमधन्विनौ । समासान्तस्तु अनङ् । अनित्यत्वान्न व्रीह्यादित्वादिनिः ॥ १।३०।५,६ ॥

॥ १।३०।७ ॥ अथ काले गते तस्मिन् षष्ठे ऽहनि समागते ।

सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ ७ ॥

काल इति । पञ्चाहोरात्रलक्षण इत्यर्थः । यत्तः–सज्जः, यती प्रयत्ने,ईदित्वान्निष्ठायां नेट् । अस्मात् ऽय़जयाचऽ इत्यादिना नङि तु यत्न इति । समाहितः–एकाग्नचित्तः ॥ १।३०।७ ॥

॥ १।३०।८ ॥ रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।

प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥ ८ ॥

उपाध्यायःब्रह्मा । पुरोहितःउपद्रष्टा । इदमुपलक्षणं ऋत्विगन्तरसाहित्यस्य ॥ १।३०।८ ॥

॥ १।३०।९ ॥ सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।

विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥ ९ ॥

सदर्भाश्चमसाः स्रुवश्च यस्यां सा तथा । समिद्भिः कुसुमोच्चयैश्च सहिता तथा, विश्वामित्रो यजमानः, तेन मण्डिताभूषिता ॥ १।३०।९ ॥

॥ १।३०।१० ॥ मन्त्रवच्च यथान्यायं यज्ञो ऽसौ संप्रवर्तते ।

आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ १० ॥

यदा संप्रवर्तते स्म तदा आकाश इति योजना ॥ १।३०।१० ॥

॥ १।३०।११ ॥ आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।

तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ ११ ॥

यता प्रावृषि निर्गतो मेघो गगनमावार्य–वारयतेः स्वार्थे णेर्ल्यप्, आवृत्याभिधावति, तथा मायां विकुर्वाणौ । मेघः अतिदुर्घोषातिमहाशब्दमहावर्षादिविचित्रकार्यमिव विचित्रप्रवर्तकौ अभ्यधावतामिति योजनार्थः ॥ १।३०।११ ॥

॥ १।३०।१२ ॥ मारीचश्च सुबाहुश्च तयोरनुचारश्च ये ।

आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥ १२ ॥

कौ तौ ? किं तद्विचित्रकार्यमित्यतः–मारीच इत्यादि ॥ १।३०।१२ ॥

॥ १।३०।१३ ॥ सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।

सहसा ऽभिद्रुतो रामः तानपश्यत् ततो दिवि ॥ १३ ॥

रुधिरौघेण मण्डितेति । अभ्याश इति शेषः । अभिद्रुतःअभितश्शालां प्रधावन् तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥ १।३०।१३ ॥

॥ १।३०।१४,१५ ॥ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।

लक्ष्मणं त्वनु संप्रेक्ष्य रामो वचनमब्रवीत् ॥ १४ ॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।

मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५ ॥

अनु–पश्चात् । मानवास्त्रसमाधूतान् करोमि, पश्ये, इति योजना ॥ १।३०।१५ ॥

॥ १।३०।१६ ॥ मानवं परमोदारमस्त्रं परमभास्वरम् ।

चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ १६ ॥

उदारःश्रेष्ठः ॥ १।३०।१६ ॥

॥ १।३०।१७ ॥ स तेन परमास्त्रेण मानवेन समाहतः ।

सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १७ ॥

सम्पूर्णं योजनशतंतावद्दूरं यथा क्षेपो भवति तथा क्षिप्तः अभूत् । सागरसम्प्लवेसमुद्रोदके ॥ १।३०।१७ ॥

॥ १।३०।१८ ॥ विचेतनं विघूर्णन्तं शीतेषुबलताडितम् ।

निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १८ ॥

शीतेषुरिति मानवास्त्रनाम । दृश्यदृष्ट्वेति यावत्इत्यादिरुक्तगतिकः प्रागेव ॥ १।३०।१८ ॥

॥ १।३०।१९ ॥ पश्य लक्ष्मण शीतेषु मानवं धर्मसंहितम् ।

मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ॥ १९ ॥

धर्मेण संहितःप्रयुक्तस्तथा । व्ययुज्यतेति । श्यन् न वियोजयतीति यावत् । एवमस्त्रवैभवं पश्येति प्रदर्शनम् ॥ १।३०।१९ ॥

॥ १।३०।२० ॥ इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।

राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रूधिराशनान् ॥ २० ॥

यज्ञघ्नान् । ऽअमनुष्यकर्तृके चऽ इति टक् ॥ १।३०।२० ॥

॥ १।३०।२१,२२ ॥ इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।

संगृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।

सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥ २१ ॥

शेषान् वायव्यमादाय निजघान महायशाः ।

राघवः परमोदारो मुनीनां मुदमावहन् ॥ २२ ॥

निजघानेति । दूरोत्सारणपूर्वकविनाशनं वायव्यास्त्रफलं, न तूच्चाटनमात्रमिति दर्शितम् ॥ १।३०।२२ ॥

॥ १।३०।२३,२४ ॥ स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।

ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ २३ ॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।

निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २४ ॥

निरीतिकाःनिर्बाधः ॥ १।३०।२४ ॥

॥ १।३०।२५ ॥ कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।

सिद्धाश्रममिदं सत्यं कृतं राम महायशः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिंशः सर्गः

सत्यं कृतमिति । अन्वर्थनाम कृतमित्यर्थः । मार्ग(२५)मानः सर्गः ॥ १।३०।२५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिंशः सर्गः