०२९ सिद्धाश्रमगमनम्

अथ एकोनत्रिंशः सर्गः

[सिद्धाश्रमवृत्तान्तः]

॥ १।२९।१ ॥ अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।

विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥

अथ प्रागुक्तबीजो ऽर्थः प्रकाश्यते–अथ तस्येत्यादि । रामस्य व्याख्यातुमिति । पृष्टोत्तरमिति शेषः ॥ १।२९।१ ॥

॥ १।२९।२ ॥ इह राम महाबाहो विष्णुर्देववरः प्रभुः ।

वर्षाणि सुबहून्येव तथा युगशतानि च ॥ २ ॥

तपश्चरणयोगार्थमुवास सुमहातपाः ।

इहेत्यादि । हे राम इहभूलोके इहाश्रमपदे देववरः प्रभुर्विष्णुःविराट्पुरुषः

प्रजापतिर्ब्रह्मा तपश्चरणयोगार्थं तपश्चरणोपेतः, योगःसमाधिः स्वकसहजभूमविराट्तुर्यब्रह्मानन्यतामयनिजतत्त्वानुसन्धानात्मकः, तत्सिद्ध्यर्थं उवास । समूलकार्योपाधेरस्य विराजः तत्त्वव्रते परमकारणं तुरीयं ब्रह्मैव विषयः । उक्तयोगं स्वीयं विराड्विष्णुरेव जगौ–ऽ पश्य मे योगमैश्वरं । परं भावमजानन्तो ममाव्ययमनुत्तमम्" इत्यादि । किमर्थो ऽयं योगो विराजः? तुर्यवदप्रतिहतज्ञानक्रियाशक्तितयैव प्रतियुगं भूत्वा भूत्वा स्वसृष्टस्रोतसः स्वाहरन् तत्पञ्चकृत्यप्रवर्तनार्थमेव । आधारशक्तिप्राधान्यमेव विराजः । केवलं सम्राजः क्रियाशक्तिप्रधान्यम् । स्वराजो भगवतो ज्ञानशक्तिप्राधान्यम् । तुर्यस्य श्रीमदादिगुरोर्ब्रह्मणः सर्वातीतत्वेन विराडादित्रिब्रह्ममूर्तिलीलामूर्तित्वेन च तस्य तस्येव सर्वं तस्य प्रधानम् । ऽप्रजापतिरकामयत प्रजास्सृजेयेतिऽ ऽस तपो ऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजतऽ इत्यादिसर्वश्रुत्यैककण्ठो विराजो नित्यतपश्चरणयोगः । अत एव सुमहातपाः ॥ १।२९।२ ॥

॥ १।२९।३ ॥ एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥ ३ ॥

सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।

एष इत्यादि । हे राम महात्मनो वामनस्य करिष्यमाणवामनावतारस्य विष्णोः एषः पूर्वाश्रमःवामनावतारात् पूर्वकाले तदुचितमातापित्रादिपरिकरसिद्धिप्रयोजनकयोगार्थं परिगृहीत आश्रमस्तथा । तदा विष्णुतपःकाले अयं सिद्धाश्रम इति ख्यातः । हि यस्मात्, महातपाःविष्णुरत्र तपस्सिद्धः, तस्मादेव तदाख्या ॥ १।२९।३ ॥

॥ १।२९।४,५ ॥ एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ ४ ॥

निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् ।

कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ ५ ॥

एतस्मिन्नेव कालेविष्णोर्विराजस्तपश्चरणकाल एव तद्राज्यं कारयामास, स्वार्थेणिः, इन्द्रादिदेवराज्यं स्वयमेवाभुङ्क्तेति यावत् ॥ १।२९।४,५ ॥

॥ १।२९।६ ॥ बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।

समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ ६ ॥

बलेरित्यादि । भावलक्षणे षष्ठी, बलौ यजमाने यागं कुर्वाणे सति, पुरोगमेनाग्निना सहिताः साग्निपुरोगमाः देवाः, अग्निमुखत्वादेव देवानां तत्पुरोगमत्वम्, इहाश्रमे तपश्चरन्तं विष्णुं स्वयमेव समागत्योचुः ॥ १।२९।६ ॥

॥ १।२९।७ ॥ बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।

असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ ७ ॥

किमूचुरित्यतः–बलिरित्यादि । यजत इति । कर्त्रभिप्रायत्वादात्मनेपदम् । ननु कथं असुरस्य यागः ? का ऽनुपपत्तिः ? उच्यते–ऽयस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् वषट्करिष्यन् साक्षादेव तद्देवतां प्रीणातिऽ इति श्रुतेस्तत्तद्देवताध्यानपूर्वं तत्तन्मन्त्रेण तत्तदुद्देशेन तद्धविःप्रदानं याग इत्यविवादः । एवं च सर्वदेवतारातिरसुरः किंदेवताप्रीतये कां देवतां किं फलमुद्दिश्य यजतेति । तर्हि चतुर्थ्यन्तश्शब्द एव देवता । यज्ञार्थश्च शब्दो ऽनादिश्रुतिरूपः । तत्प्राप्तिश्चादितिसुतानामिव दितिसुतानामपि स्वपितुर्बह्मणः सुलभा । अतो यागप्रवृत्तिरिति । सत्यम् अथापि शब्दमात्रात्मिका देवतेति न युज्यते । ऽसाक्षादेव तद्देवतां प्रीणातिऽ इति श्रुतेः । अचेतनशब्दस्य प्रीत्याद्ययोगात् । ततो यजमानस्य स्वर्गादिसिद्ध्ययोगाच्च । अत ेव क्रियया फलायोगः विततश्चान्यत्र । अतश्शब्दातिरिक्ता शब्दावाच्या सचेतना वज्रादितत्तच्चिह्नोपेतविग्रहवती देवतेत्यास्थेयम् । न च विग्रहवत्त्वे युगपदनेकयागासन्निधानप्रसङ्ग इति दिव्यैश्वर्यशक्तिमत्त्वेन सकृदेवानेकमूर्त्या सर्वयागसन्निध्ये वषट्कारात् । यद्येवं स्थितैवासुरयागानुपपत्तिः ॥

अत्रोच्यतेतावद्यागप्रवृत्तिमूलकारणश्रुतिलाभस्तु सुरासुराविशेषेण स्वपितुः, अविशिष्टशुक्रबृहस्पत्यादिस्वपुरोहितेभ्यो वा । तथा सर्वैरपि श्रौतैर्यज्ञैर्यजनीया देवता तत्प्रीता तत्फलदा अत्र चाविशिष्टा । कथं ? सामान्या यज्ञदेवताः “अष्टौ वसव एकादश रुद्रा द्वादशा दित्याः प्रजापतिश्च वषट्कारश्चैते देवास्सोमपाः, एकादश प्रयाजा एकादशानूयाजा एकादशोपयाजा एते सोमपाः पशुभाजनास्सोमेन सोमपान् प्रीणाति पशुना ऽसोमपान्, उभये हास्यैता देवताः प्रीता अभीष्टा भवन्ति ऽ इति श्रुतेः सोमपासोमपद्विप्रभेदाः । तत्रासोमपा उपाङ्गदेवताः यस्य सोमपा अङ्गदेवताः, प्रधानदेवता मन्त्रमयो भगवान् प्रजापतिः वषट्कारो दानक्रियात्मा च । स एव कथं ? ऽप्रजापतिर्वा एष पितायते यद्यज्ञःऽ इति, ऽएष वै प्रजापतिं सर्वं करोति, यो ऽश्वमेधेन यजतेऽ इत्यादेः क्रियात्मता भगवतः प्रजापतेः, तथा व्याहृतिजयादिदशहोत्रच्छन्दोवीर्यसप्तदशाक्षरीसावित्रीत्रयीमुखसर्वयज्ञमन्त्रात्मता च । स एव कथम् ?–ऽ प्रजापतिर्वा अयमकारः पवमाननित्याश्रितजलप्राधान्यात् । स एव भूप्राधान्येन वेदिसदस्सर्वसान्नाय्यपुरुषाश्वांतसर्वयज्ञसमारम्भात्मना विष्णुशब्दश्च । तत्र जलभूमयस्यापि विराजो ब्रह्मणस्तु जलमूर्तेरेव प्राधान्यम् । विना ऽपि भुवं वायौ जलं तिष्ठति, न विना जलं भूस्तिष्ठति । अपि च जलकृतसंश्लेषा महाचलधृता जलानुग्रहप्रवृत्तसर्वस्त्रोतस्सस्यादिपोषवती च । अतः प्रधानदेवता भगवान् प्रजापतिः । तेन भगवता स्वमनःप्राणदेहप्राधान्यसृष्टा वस्वादयः स्वावयवभूता इत्यङ्गदेवतात्वम् प्रयाजादीनां सोमासम्बन्धादुपाङ्गत्वं भगवतः । तत्र वसुसमष्टिर्वासव इन्द्रः । ऽरुद्रो वा एष यदग्निःऽ इत्यादेः रुद्रमष्टिरग्निः । एताविन्द्राग्नी च समष्ट्या भगवत्सृष्टौ भगवदङ्गेष्वप्रधानाङ्गभूतौ । एतेन यज्ञदेवताश्च सर्वयज्ञयजमानसाधारणाः । कथं ?

ऽपुरुषे त्वे वाविस्तारामात्माऽ ऽतदात्मानं स्वयमकुरुतऽ इत्यादेः । तेर्जो ऽशप्राधान्येन देवासुरसर्वयजमानोपादानत्वात् भगवान् यज्ञः प्रजापतिः तद्यजमानः प्रत्यगात्मना प्रतितिष्ठति । तस्मिंस्तथा स्थिते तदवयवदेवाश्च तद्यजमानावयवात्मना प्रतितिष्ठन्ति ।

ते च ते खस्वोपादानतः स्वात्मरूपं यज्ञं स्वस्वीययज्ञकर्मणा संस्कृत्य तमेव शाश्वतपरगतिं परलोके प्राप्नुवन्ति । तथा हि श्रुतिः–ऽयज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिं संस्करोति । आत्मानमेव तत् संस्करोति । तत्संस्कृतमामात्मानम् । अमुष्मिंलोके ऽनुपरैतिऽ इति । तथा ऽस ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वावैनं तत उन्नेतुमर्हतीत्याहुः । यत्प्राजापत्ययर्चा पुनरेति । प्रजापतिरेवैनं तत उन्नयति । नार्तिमार्च्छति यजमानःऽ इति । तथा ऽप्रजापतिं वा एष ईप्यतीत्याहुः । यो ऽश्वमेधेन यजतेऽ इत्यादेः । अतस्स्वस्वतत्त्वस्य शाश्वतपरगतेर्भगवतः प्राप्तये इह पूर्णकामा वा देवाः, असुरादयो वा यजन्त इति राजमार्गः

यद्येवं बल्यादयः कं देवं द्विषन्ति ? कर्मदेवानित्येव । द्विधा देवाः कर्मदेवाः, आजानजदेवा इति । तत्र ये कर्मणा देवानपि जयन्ति, ते कर्मदेवाः । आजानजा भगवदयवभूता अनाद्यन्तनित्यसत्यशब्दयज्ञमन्त्रार्थभूता यज्ञमन्त्रनित्यसम्बद्धा नित्याश्च, भगवानिव नित्यविद्यैश्वर्यानन्दापहतपाप्मत्वाद्यष्टकल्याणगुणाश्च निसर्गतः । त इमे कर्मदेवप्राप्यगतिरूपाः । ऽवसूनां सायुज्यं गच्छति, रुद्राणां सायुज्यं गच्छतिऽ इत्यादेशः । त एते कर्मदेवा विराडादिप्रधानाङ्गपरिचारद्वारा समाजब्रह्मलोकेषु सामाजिकं लोकमेव कर्मबलेन यान्ति, कर्मक्षये च पुनः पतन्ति । द्वारादिब्रह्मलोकभाजस्तु अंशतो नियतावतारोक्ता तारा न पतन्ति । तिष्ठतु तत् । वक्तव्यः बहुप्रपञ्चः । इह एतान् कर्मदेवान् मनुष्या असुरादयश्च भगवदाश्रयबलेन तत्तत्पदात् प्रच्यावयन्ति । अतस्ते चैषां मानुषासुरादिभगवद्यज्ञानां विघ्नं कुर्वन्ति । तथा हि “न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनं । तस्माद्विघ्नन्ति तद्यज्ञं स्वपदच्युतिभीरवः” इति व्यासादिवचनम् । अतः कर्मदेवैस्स्वारातिबलियज्ञविघ्नाय प्रवृत्ति । तस्यापि तत्पदप्रच्यावनार्थैव यज्ञप्रवृत्तिरिति सिद्धान्तः ॥

स्वकार्यमिति । स्वेषामस्माकं देवनां कार्यं–स्वकार्यम् । अभिपद्यतामिति । अन्तर्भावितणिः पदिः, अभितः कार्त्स्येन सम्पाद्यतामित्यर्थः ॥ १।२९।७ ॥

॥ १।२९।८ ॥ ये चैनमभिवर्तन्ते याचितार इतस्ततः ।

यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ८ ॥

तथासम्पादने स्वयमेवोपायं वदन्तिये चेति । अभिवर्तन्ते–अभितः आगच्छन्ति–इतस्ततः नानादेशादिति यावत् । ये याचितारः यत्र–गोभूहिरण्यादियाचनीयवस्तुविषये यच्च वस्तु याचन्ते, तत्सर्वं तेभ्यो यथावद्यज्ञसाद्गुण्यायावमानादिराहित्येन सत्कारपूर्वं प्रयच्छतीत्यर्थः ॥ १।२९।८ ॥

॥ १।२९।९ ॥ स त्वं सुरहितार्थाय मायायोगमुपागतः ।

वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ ९ ॥

मायायोगमिति । दिव्यवैभवविष्णुतत्त्वसमाच्छादनेन प्राकृतमर्त्यादिभावप्रकाशिका शक्तिर्माया, तस्या योगः–सम्बन्धः, तमुपागतः, तमवष्टभ्येति यावत् । अवतारासाधारणसाधनभूतेयं शक्तिः । तथा च जगौ–ऽप्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममाययाऽ इति । वामनत्वंवामनावतारमिति यावत् ॥ १।२९।९ ॥

॥ १।२९।१०,११ ॥ एतस्मिन्नन्तरे राम काश्यपो ऽग्निसमप्रभः ।

अदित्या सहितो राम दीप्यमान इवौजसा ॥ १० ॥

देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।

व्रतं समाप्य, वरदं तुष्टाव मधुसूदनम् ॥ ११ ॥

एतस्मिन्नन्तर इति । एवं देवैर्वामनावतारप्रार्थनसमय इत्यर्थः । देवानां सिद्धसङ्कल्पत्वात् सङ्कल्पादेवावतारपरिकरसिद्धिरिति प्रदर्श्यते–काश्यप इत्यादि । स्वतः अग्निसमप्रभः, अदित्या सर्वधर्मसाधनशक्तिरूपया सहितः । अत एव ओजसाअर्चिषा दीप्यमानाग्निरिव काश्यपप्रजापतिः देवीसहायःस्वधर्मपत्न्यदितिसहितो भूत्वा दिव्यं वर्षसहस्रं विष्णुपुत्रप्राप्त्युद्देशेन व्रतं कृत्वा, तदन्ते व्रतं समाप्य, तदन्ते कृतसन्निधानं वरदंवरदानोन्मुखं मधुसूदनं तुष्टाव ॥ १।२९।११ ॥

॥ १।२९।१२ ॥ तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।

तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ १२ ॥

स्तोत्रस्यैव प्रकारः–तपोमयमित्यादि । तपोमयंतपःप्रचुरम्, ऽतत्प्रकृतवचने मयट्ऽ इति मयट्, प्रकृतंप्रस्तुतंप्रचुरमिति यावत् । अत एव तपोराशिंबहुतपस्समष्ट्यधिकरणम् । अत एवतपोमूर्तिंतपएकारब्धदिव्यलीलाविग्रहम् । अत एवतपात्मकम्, छान्दसमकारान्तत्वम्, यद्वा ऽधञर्थे कविधानम्ऽ इति वा, तपनंतपः, तपेन कृच्छ्रादिलक्षणेन स्वाश्रितन संस्कृत आत्मास्वान्तःकरणंप्रत्यगात्मा यस्य स तथा, मध्यमपदलोपी समासः । एवं सिद्धाश्रमचिरानुष्ठिततपोमयं त्वाम्, अत्रैव सुतप्तेन तपसाएतह्बलेन पश्यामि ॥ १।२९।१२ ॥

॥ १।२९।१३ ॥ शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो

त्वमनादिरनिर्देश्यः त्वामहं शरणं गतः ॥ १३ ॥

शरीर इति । वैराजतावकभूमविग्रह इति यावत् । जगत्त्रिस्रोतोमात्रम् । अनिर्देश्यंएतावत्त्वेनाशक्यपरिच्छेदविद्यैश्वर्यादिवैभवम् । शरणंरक्षितारम् ॥ १।२९।१३ ॥

॥ १।२९।१४ ॥ तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम् ।

वरं वरय भद्रं ते वरार्हो ऽसि मतो मम ॥ १४ ॥

प्रीतःसुप्रीतः कश्यपमुवाच । किमितिवरमित्यादि । वरंअभीष्टं वरय, ऽतत्करोतिऽ इति णिच् । भद्रमस्तु । दिव्यवर्षसहस्रतपसः त्वं वरार्हःवरदानार्ह इति मम मतो ऽसि ॥ १।२९।१४ ॥

॥ १।२९।१५ ॥ तच्छ्रुत्वा वचनं तस्य मारीचः काश्यपो ऽब्रवीत् ।

अदित्या देवतानां च मम चैवानुयाचतः ॥ १५ ॥

वरं वरद सुप्रीतो दातुमर्हसि सुव्रत

मरीचेः पुत्रो मारीचः । अदित्या इत्यादौ याचमानाया इत्याद्यूह्यम् । देवतानां च याचमानानामितिप्रागुक्तरीत्येति शेषः ॥ १।२९।१५ ॥

॥ १।२९।१६ ॥ पुत्रत्वं गच्छ भगवन् अदित्या मम चानघ ॥ १६ ॥

भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन

शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १७ ॥

किं तद्युष्मद्याचकीयं वरमित्यतः–पुत्रत्वमित्यादि । यवीयान् । ऽस्थूलदूरऽ ित्यादिना यणादिपरलोपगुणौ, कनिष्ठ इति यावत् ॥ १।२९।१६,१७ ॥

॥ १।२९।१८ ॥ अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति ।

सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ १८ ॥

अयमिति । यत्राश्रमे तपोमयस्त्वं मया देवैश्चानुभूयसेअयमित्यर्थः । हे भगवन् देवेश एतदाश्रमस्थितिसाध्ये तपःकर्मणि सिद्धे सति इह प्रयोजनाभावात् इत उत्तिष्ठ देवकार्याय ॥ १।२९।१८ ॥

॥ १।२९।१९ ॥ अथ विष्णुर्महातेजा अदित्यां समजायत ।

वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १९ ॥

अथ–एवं देवकार्यनियोगानन्तरं ॥ १।२९।१९ ॥

॥ १।२९।२० ॥ त्रीन् क्रमानय भिक्षित्वा प्रतिगृह्य च मानदः ।

आक्रम्य लोकान् लोकात्मा सर्वलोकहिते रतः ॥ २० ॥

क्रमःपदविक्षेप) । मानद इति । देवानां पूजाप्रदः ॥ १।२९।२० ॥

॥ १।२९।२१ ॥ महेन्द्राय पुनः प्रादात् नियम्य बलिमोजसा ।

त्रैलोक्यं स महातेजाः चक्रे शक्रवशं पुनः ॥ २१ ॥

नियम्यबध्वा ॥ १।२९।२१ ॥

॥ १।२९।२२ ॥ तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।

मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥ २२ ॥

तेनवामनेन । पूर्वमिति । वामनावतारात् पूर्वमित्यर्थः । भक्त्यावामनावतारवति विष्णौ भक्त्या, तस्यवामनस्य, एष आश्रमः मया ऽप्यद्य उपभुज्यते । मयेत्यस्मच्छब्दो विश्वामित्रार्थः ॥ १।२९।२२ ॥

॥ १।२९।२३ ॥ एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।

अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ २३ ॥

अथपूर्वसर्गान्तकृतद्वितीयप्रश्नस्योत्तरम्एतमाश्रममित्यादि ॥ १।२९।२३ ॥

॥ १।२९।२४ ॥ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।

तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ २४ ॥

अनुत्तमं–सर्वोत्तमम् । तातेति उपलालने । हेतौ तत् । एतत् आश्रमपदं यथा मम तथा तवापि सर्वसिद्धिसाधकं सुखावहं च, इति शेषः ॥ १।२९।२४ ॥

॥ १।२९।२५,२६ ॥ प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।

शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ २५ ॥

तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिनः ।

उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ २६ ॥

उत्पत्योत्पत्येति । सन्तोषातिशयादिति शेषः ॥ १।२९।२५,२६ ॥

॥ १।२९।२७,२८,२९ ॥ यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।

तथैव राजपुत्राभ्यामकुर्वन्नातिथिक्रियाम् ॥ २७ ॥

मूहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ।

प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ २८ ॥

अद्यैव दीक्षां प्रविश, भद्रं ते, मुनिपुङ्गव

सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ २९ ॥

अद्यैवेति । प्रवेशदिन एवेति यावत् । दीक्षां प्रविश–परिगृहाण । अद्यैवेति वचनं कालविलम्बकस्याप्रोयजकत्वात् तद्दिनस्य पञ्चाङ्गशुद्ध्यादिबहुगुणयुक्तत्वाच्चेत्याशयेन । अयं सिद्धाश्रमश्च सिद्धस्स्यात्त्वद्यज्ञसिद्ध्या अन्वर्थसिद्धसंज्ञो भूयात् । ऽअत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणःऽ इति या ऽभूत् तव वचः, तदपि सत्यमस्तु । राक्षसांश्चात्रं हनिष्ये । अतः ते भद्रमस्तु इति योजना ॥ १।२९।२७,२८,२९ ॥

॥ १।२९।३० ॥ एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।

प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥ ३० ॥

नियतःनिगृहीतान्तःकरणः ॥ १।२९।३० ॥

॥ १।२९।३१,३२ ॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।

प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ॥ ३१ ॥

स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।

हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनत्रिंशः सर्गः

कुमाराविति । अभूतोपमेत्युक्तम् । नियमेन जप्यं समाप्य,

अग्निहोत्रं–अग्नेर्होत्रंहोमंऔपासनं होमं कृत्वा यज्ञशालायां आसीनं विश्वामित्रमवन्दताम् । एवमग्निहोत्रपदस्य व्याख्यानं ऽदीक्षामध्ये नाग्निहोत्रं, न दर्शपूर्णमासाभ्यां यजतेऽ इत्यग्निहोत्रहोमस्य निषेधात् । प्रविवेशतदा दीक्षाप्रवेशस्य प्रागेवोक्तत्वाच्च ।

राग(३२)मानः सर्गः ॥ १।२९।३२ ॥

इति श्रीमद्रामायमामृतकतकटीकायां बालकाण्डे एकोनत्रिंशः सर्गः