अथ अष्टाविंशः सर्गः
[अस्त्रसंहारग्रहणम्]
॥ १।२८।१ ॥ प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनश्शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १ ॥
अथावगतप्रयोगास्त्राणां उपसंहारापरिज्ञाने पुनः प्रयोगानर्हत्वेनाप्राप्तप्रायत्वात् परमचतुरेण रामेणावगतास्त्रोपसंहारे च पृष्टे तमुपदिश्य तच्चातुरीस्वावगतसर्वास्त्रपात्रत्वायान्यानपि दिव्यास्त्राण्यसङ्कोचोपचारेणसर्वास्त्रविदुषे रामायोपदिशति । प्रतिगृह्येत्यादि ॥ १।२८।१ ॥
॥ १।२८।२ ॥ गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरासुरैः ।
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥ २ ॥
गृहीतास्त्रो ऽस्मीति । गृहीतास्त्रप्रयोगमार्गो ऽस्मीत्यर्थः ॥ १।२८।२ ॥
॥ १।२८।३ ॥ एवं ब्रुवति काकुत्सथे विश्वामित्रो महायशाः ।
संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचिः ॥ ३ ॥
संहारमिति । तत्तदस्त्रमूलमन्त्रवर्तितत्तत्संहारमार्गमित्यर्थः ॥ १।२८।३ ॥
॥ १।२८।४ ॥ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४ ॥
अथ उपदिष्टास्त्रसंहारमार्गोपदेशानन्तरं धृतिमत्त्वादिगुणक ऋषिः सत्यवदादीन्यन्यान्यपि ददाति–सत्यवन्तमित्यादि । ददामीति सर्वत्रान्वयः ॥ १।२८।४ ॥
॥ १।२८।५ ॥ लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ ।
दशाक्षशतवक्रौ च दशशीर्षशतोदरौ ॥ ५ ॥
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ ॥ ६ ॥
दुन्दुनाभ इति । नामैकदेशे नामग्रहः, दुन्दुभीनाभ इति यावत् ॥ १।२८।५,६ ॥
॥ १।२८।७ ॥ यौगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा ।
सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ ७ ॥
सार्चिर्माल्यादयो ये, तांश्च ददामीति योजना ॥ १।२८।७ ॥
॥ १।२८।८,९,१० ॥ पितृसौमनसं चैव विधूतमकरावुभौ ।
करवीरकरं चैव धनधान्यौ च राघव ॥ ८ ॥
कामरूपं कामरुचिं मोहमावरणं तथा ।
जृम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥ ९ ॥
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।
प्रतीच्छ मम, भद्रं ते, पात्रभूतो ऽसि राघव ॥ १० ॥
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।
कृशाश्वेत्यादि । सत्यवदादिवरणान्तान् मया दीयमानान भास्वरत्वादिगुणकान् कृशाश्वतनयान् मम सकाशात् प्रतीच्छ–गृहाण । हे राघव यथा ऽहं, मत्तो ऽधिकं वा सर्वास्त्राधिदैवततत्पितृब्रह्मरूपत्वात् पात्रभूतो ऽसि । एवं विश्वामित्रेण बहुकालबहुदेवतोपासनप्राप्तसर्वास्त्राणामप्रयासत एकदैव प्राप्तेः भगवान् रामो ब्रह्मैवेति सुज्ञेयम् । न ह्यन्यं ब्रह्मपुत्राः कटाक्षेणापि वीक्षेरन्, येष्वेको ऽपि विश्वामित्रवदेव तत्तच्चिरकालोपासनैकलभ्यः । पितरन्तु पुत्रास्स्वयमेवोपासते । पिता च स्वेच्छया तान् विनियुङ्क्ते । अत एव नियुक्तो रामो बाढंतथा ऽस्त्वित्युक्त्वा प्रहृष्टेनान्तरात्मना जग्राहेति शेषः ॥ १।२८।१० ॥
॥ १।२८।११,१२ ॥ दिव्यभास्वरदेहाश्च मूर्तिमन्तस्सुखप्रदाः ॥ ११ ॥
केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा ।
चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥ १२ ॥
रामं प्राञ्जलयो भूत्वा ऽब्रुवन् मधुरभाषिणः ।
अथ प्रागुक्तमार्गेण गृहीतदिव्यतादिविशेषणकास्ते प्राञ्जलयो भूत्वा राममब्रुवन्नित्यन्वयः । तत्र प्रह्वा इति शिरःकायप्रावण्यधर्मकाः । अञ्जलः पुटःसंश्लेषो येषां ते तथा ॥ १।२८।१२ ॥
॥ १।२८।१३ ॥ इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ १३ ॥
इमे स्मेति । सन्निहिता वयमित्यर्थः । शाधि–आज्ञापय । शाभावस्याबाधसिद्ध्या ऽहुझल्भ्यः–ऽ इति धित्वम् ॥ १।२८।१३ ॥
॥ १।२८।१४ ॥ मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।
गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥ १४ ॥
अथ ऽते किं करवामऽ इति विज्ञापितवतो ऽस्त्रदेवान्नियुङ्क्ते–मानसा इत्यादि । व्याकृतचरश्शब्दः । गम्यतामिति । इदानीमिति शेषः ॥ १।२८।१४ ॥
॥ १।२८।१५ ॥ अथ ते राममामन्त्र्य कृत्वा चाभिप्रदक्षिणम् ।
एवमस्विति काकुत्स्थमुक्त्वा जग्मुर्यथा ऽ ऽगतम् ॥ १५ ॥
अभितः प्रदक्षिणं–अभिप्रदक्षिणं । एतेनापि रामस्तत्पिता ब्रह्मेति ज्ञेयम् । न हि देवतास्स्वानुग्राह्ये प्रदक्षइमाद्याचरन्ति ॥ १।२८।१५ ॥
॥ १।२८।१६ ॥ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १६ ॥
स च तानिति । पश्चादुपदिष्टास्त्रांश्चेत्यर्थः । ज्ञात्वेति । मन्त्रतो मूर्तितः प्रयोगतश्चेति शेषः ॥ १।२८।१६ ॥
॥ १।२८।१७ ॥ किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः ।
वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १७ ॥
अथ वक्ष्यमाणार्थबीजप्रक्षेपःकिं न्वेतदित्यादि । मेघसङ्काशमिति कार्ष्ण्यनैपिड्यात् । पर्वतस्याविदूरतः इतःइह यद्वृक्षषण्डं भाति, एतत् वनवृक्षषण्डं ? आश्रमवृक्षषण्डं वा ? इति प्रश्नः ॥ १।२८।१७ ॥
॥ १।२८।१८,१९ ॥ दर्शनीयमृगाकीर्णं मनोहरमतीव च ।
नानाप्रकारैश्शकुनैः वल्गुनादैरलङ्कृतम् ॥ १८ ॥
निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ।
अनया त्ववगच्छामि देशस्य सुखवत्तया ॥ १९ ॥
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।
अथ किञ्चित्समीपगमने स्वयमेवाश्रमीयत्वं वृक्षषण्डस्य ज्ञात्वा ऽकस्याश्रमपदम्?ऽ इति पृच्छति–दर्शनीयेत्यादि । निस्सृताः स्मेति । यतो दर्शनीयमृगाकीर्णत्वादिलक्षणमिदं वृक्षषण्डं, तस्मात् रोमहर्षणात्–भीत्या रोमाञ्चकारात् दुष्प्रवेशभयदुःखावहकष्टारण्यात् निर्गताः स्म । अपि च अनया देशस्य सुखवत्तया चेदमाश्रमपदमित्यवगच्छमि । तदिदं कस्येत्यादि यन्मे जिज्ञासितं, तत्सर्वं शंस ॥ १।२८।१८,१९ ॥
॥ १।२८।२०,२१,२२ ॥ संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ २० ॥
तव यज्ञस्य विघ्नाय दुरात्मानो महामते ।
भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥ २१ ॥
रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः ।
एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टाविंशः सर्गः
–
सर्वशब्दविवक्षितं स्वजिज्ञास्यान्तरं स्वयमेव ब्रूते रामः–सम्प्राप्ता इत्यादि । ब्रह्मघ्नाः–ऽअमनुष्यकर्तृके चऽ इति हन्तेष्टकि ऽगमहनऽ इत्युपधालोपादिः, ब्रह्मघातकत्वादिविशेषणकास्ते पापाः यत्र युष्मदाश्रमप्रदेशे सम्प्राप्ताः तव यज्ञस्य विघ्नाय भवन्ति, यत्र च मया रक्षितव्या सा तव यात्रिकी क्रिया, यत्र च तच्छेषतया मया राक्षसाश्च वध्याः, तस्य भगवदाश्रमस्य देशः–प्रदेशः कः ? एतत्सर्वं श्रोतुमिच्छामि इति । रात्रि(२२)मानः सर्गः ॥ १।२८।२२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टाविंशः सर्गः