अथ सप्तविंशः सर्गः
[सर्वास्त्रग्रहणम्]
॥ १।२७।१ ॥ अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यं उवाच मधुराक्षरम् ॥ १ ॥
अथ यथादेवतानियोगं विश्वामित्रानुष्ठानम् । अथ तामित्यादि । उष्येति । समासे ल्यप्, ऽक्त्वापि छन्दसिऽ इत्यपिशब्दात् । राममुखदर्शनसंतोषजो मुख विकासः प्रहासः, सन्तुष्टो मन्दस्मितं कृत्वेति यावत् ॥ १।२७।१ ॥
॥ १।२७।२ ॥ परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥
महायश इति । सम्बुद्धित्वान्न दीर्घः । सर्वशःसर्वाणीति यावत् ॥ १।२७।२ ॥
॥ १।२७।३ ॥ देवासुरगणान् वा ऽपि सगन्धर्वोरगानपि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥
आजौ प्रसह्यबलात्कारेण संहारेण वा जयिष्यसि, स्वार्थे णिः, जेष्यसि । यदि वा दया, तदा वशीकृत्य संमोहनास्त्रादिना जयिष्यसि ॥ १।२७।३ ॥
॥ १।२७।४ ॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ ४ ॥
दिव्यास्त्राणामनुक्रमः–दण्डचक्रमित्यादि । दण्डचक्रादयश्चक्रभेदाः ॥ १।२७।४ ॥
॥ १।२७।५,६ ॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ॥ ५ ॥
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ ६ ॥
शूलवरंशूलवरनामकम् । ब्रह्मशिरो ऽप्यन्यत् । ब्रह्मास्त्रमप्यन्यत् ॥ १।२७।५,६ ॥
॥ १।२७।७ ॥ गदे द्वे चैव काकुत्सथ मोदकी शिखरी उभे ।
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ ७ ॥
मोदकी शिखरीसंज्ञे ये द्वे गदे स्तः, ते उभे च दास्यामि ॥ १।२७।७ ॥
॥ १।२७।८ ॥ धर्मपाशमहं राम कालपाशं तथैव च ।
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८ ॥
अस्त्रं चेति । वारुणास्त्रं चेत्यर्थः ॥ १।२७।८ ॥
॥ १।२७।९ ॥ अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ।
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥
अशन्योर्द्वैतमेव प्रदर्श्यते–शुष्कार्द्रे इति । पिनाकिन इदं पैनाकम् ॥ १।२७।९ ॥
॥ १।२७।१० ॥ आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
वायव्यं प्रथमं नाम ददामि च, तवानघ ॥ १० ॥
नामतः शिखरं नामशिखरमिति प्रसिद्धम्, अग्नेः दयितंइष्टम् आग्नेयं च प्रथमं नामप्रथमसंज्ञम् ॥ १।२७।१० ॥
॥ १।२७।११,१२ ॥ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ ११ ॥
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ।
धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १२ ॥
धारयन्त्यसुरा यानीति । कङ्कालादीनीति यावत् ॥ १।२७।१२ ॥
॥ १।२७।१३ ॥ वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
असिरत्नं महाबाहो ददामि नृवरात्मज ॥ १३ ॥
नन्दनं नाम असिरत्नमित्यन्वयः ॥ १।२७।१३ ॥
॥ १।२७।१४ ॥ गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥ १४ ॥
ददामीत्यत्राकारलोपे दद्मीति छान्दसः ॥ १।२७।१४ ॥
॥ १।२७।१५ ॥ वर्षणं शोषणं चैव सन्तापनविलापने ।
मर्दनं चैव दुर्धर्षं कन्दर्पदयितं तथा ॥ १५ ॥
विलापयति परिदेवयतीति विलापनम् । मर्दयतीति मर्दनम् ॥ १।२७।१५ ॥
॥ १।२७।१६ ॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशादूल राजपुत्र महायशः ॥ १६ ॥
प्रतीच्छगृहाण ॥ १।२७।१६ ॥
॥ १।२७।१७ ॥ तामसं नरशार्दूल सौमनं च महाबल
संवर्तं चैव दुर्धर्षं मौसलं नाम नामतः ॥ १७ ॥
प्रागुक्तासुरमुसलास्त्रादन्यत् मौसलम् ॥ १।२७।१७ ॥
॥ १।२७।१८,१९ ॥ सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
घोरं तेजःप्रभं नाम परतेजो ऽपकर्षणम् ॥ १८ ॥
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥
शीतेषुं मानवमित्यन्त्रयः ॥ १।२७।१९ ॥
॥ १।२७।२० ॥ एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ २० ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्रामनुत्तमम् ॥ २१ ॥
नन्वस्त्राणि दास्यामीति प्रतिश्रुत्य तानि च अनुक्रम्यान्ते मन्त्रग्रामं ददावित्युच्यते । उपसंहारे ऽस्त्राणि ददावित्येवान्ते वक्तव्यत्वात् । नैतत्, अनुक्रान्तदिव्यास्त्राणां ब्रह्मपुत्राणां देवतात्वेन मन्त्रैकसहजात्मानः भामण्डलवपुष्मन्तो मण्डलानुग्रहायेति चिद्रहस्यात्, अस्त्रदेवानां स्वस्वमन्त्रस्यैव सहजमूर्तित्वात्, भामण्डलवपुर्ग्रहस्योपासकानुग्रहोपाधिमूलत्वेनासहजत्वादशक्यदानाच्च भद्रतरमुक्तम्–मन्त्रग्रामं ददाविति । ननु ऽमन्त्रग्रामं गृहाण त्वम्ऽ इति बलातिबलादानप्रसङ्गे उक्तः । पुनरिह कुतो मन्त्रग्रामदानं ? सत्यमुक्तम्–गृहाणेति, न तु दत्तं, तत्कालोपयोगिबलातिबलामन्त्रस्यैव दानात् ॥ १।२७।२०,२१ ॥
॥ १।२७।२२ ॥ सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २२ ॥
सर्वेत्यादि । येषां उक्तदिव्यास्त्राणां सर्वसङ्ग्रहणं सर्वेषामुक्तनामेकेन सङ्ग्रहणं कर्तुम् दैवतैरपि दुर्लभंदुष्करमिति यावत् । कश्चिद्देवो ऽपि किञ्चिदेवात्रत्येषु जानाति, न सर्वम् । एवमनेकदुष्प्रापाणि तानि सर्वाणि अस्त्राणि एकस्मै रामाय तदा विप्रःविश्वामित्रो न्यवेदयत्दत्तवान् ॥ १।२७।२२ ॥
॥ १।२७।२३ ॥ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ २३ ॥
एवं मन्त्रं दत्त्वा, मन्त्रमिव मन्त्रदैवतान्यपि शिष्यानुवर्तनाय योजयितुं तानि स्मृत्वा जपतो विश्वामित्रस्य मुनेः आज्ञया गृहीतभामण्डलवपुष्मन्ति सन्ति उपतस्थुः । तत उपस्थितानि विश्वामित्रनियोजितरामसेवकानि तानि सर्वाण्यस्त्राणि महात्मानं राघवं चोपतस्थुः ॥ १।२७।२३ ॥
॥ १।२७।२४ ॥ ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
इमे स्म परमोदाराः किङ्करास्तव राघव ॥ २४ ॥
यद्यदिच्छसि, भद्रं ते, तत्सर्वं करवाम वै ।
उपस्थाय, सर्वे अस्त्रदेवताः प्राञ्जलयः साक्षात्स्वाधीनदेवताः ब्रह्मरामसम्बन्धेन मुदिताः सत्यः तं ऊचुः । किमित्यतः–इम इत्यादि । किङ्कराः–नियोज्याः–अङ्गीकृतकैङ्कर्याः ॥ १।२७।२४ ॥
॥ १।२७।२५,२६ ॥ ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ २५ ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ २६ ॥
तान् काकुत्स्थः पाणिना समालभ्यउपस्पृश्य, स्त्रियं पतिरिव, प्रतिगृह्य चस्वीकृत्य च तान् मानसा भविष्यध्वमित्यभ्यचोदयत् । मनस्स्मृतिकालोपस्थानाः मानसाः, दार्षदादिवत् शेषिको ऽण् । भविष्यध्वमिति व्यत्ययात्तङ् ॥ १।२७।२५,२६ ॥
॥ १।२७।२७ ॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तविंशः सर्गः
–
सरो(२७)मानः सर्गः ॥ १।२७।२७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तविंशः सर्गः