अथ षड्विंशः सर्गः
[ताटकावधः]
॥ १।२६।१ ॥ मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १ ॥
एवं न्यायापनुत्तस्त्रीवधदोषशङ्केन रामेण ताटकावधः । मुनेरित्यादि । अक्लीबंधृष्टम् ॥ १।२६।१ ॥
॥ १।२६।२ ॥ पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ २ ॥
पितुरित्यादि । ऽकौशिकस्य वचनं अविशङ्कया कर्तव्यं त्वयाऽ इत्येवंरूपात् पितुर्वचननिर्देशात्नियोगात्, तस्य च पितुर्वचनगौरवात्परमाप्तवाक्यत्वेन परमप्रामाण्याच्च भगवन् त्वद्वचनं कर्तव्यम्, निश्चितमिति शेषः ॥ १।२६।२ ॥
॥ १।२६।३ ॥ अनुशिष्टो ऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३ ॥
कदैवं पितुःमद्वचनं कर्तव्यमिति नियोगः ? इत्यतः–अनुशिष्ट इत्यादि । गुरुमध्य इति । वसिष्ठवामदेवाद्यधिष्ठितनिजसभामध्य इत्यर्थः । नावज्ञेयं च तद्वचःप्रागुक्तहेतोः ॥ १।२६।३ ॥
॥ १।२६।४ ॥ सो ऽहं पितुर्वचःश्रुत्वा शासनाह्ब्रह्मवादिनः ।
करिष्यामि न सन्देहः ताटकावधमुत्तमम् ॥ ४ ॥
एवं पितृवचःश्रुत्वा ततो निष्कम्पप्रवृत्तिः । सो ऽहं ब्रह्मवादिनः तव शासनात्यथाप्राप्तकालात् उत्तमंउत्तमधर्मभूतताटकावधं करिष्यामि न सन्देहः ॥ १।२६।४ ॥
॥ १।२६।५ ॥ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ ५ ॥
कुत एवमित्यतः–तव चेत्यादि । चो हेतौ, चयस्मात्, अप्रमेयस्य तव वचनं कर्तुमेव पितृनियोगः, तं कर्तुमुद्यतः , अतो न विचिकित्साप्रसङ्गः ॥ १।२६।५ ॥
॥ १।२६।६ ॥ एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ ६ ॥
तीव्रंपरुषश्रवणम् ॥ १।२६।६ ॥
॥ १।२६।७ ॥ तेन शब्देन वित्रस्ता ताटकावनवासिनः ।
वित्रस्ताः–भीताः ॥ १।२६।७ ॥
॥ १।२६।७,८ ॥ ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥
तं शब्दमाभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
श्रुत्वा चाभ्यद्रवद्वेगात् यतः शब्दो विनिस्सृतः ॥ ८ ॥
मोहिता–किमिदानीं कर्तव्यमिति सम्भ्रान्तचित्ता यतश्शब्दो विनिस्सृतः, तं शब्दं श्रुत्वा तमेव अभिनिध्यायआलक्ष्य अभ्यद्रवदिति योजना ॥ १।२६।८ ॥
॥ १।२६।९ ॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनाति वृत्तां च, लक्ष्मणं सो ऽभ्यभाषयत ॥ ९ ॥
प्रमाणेनशरीरप्रमाणेन । अतिवृत्तांअतिप्रवृद्धाम् ॥ १।२६।९ ॥
॥ १।२६।१०,११ ॥ पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।
भिन्देरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १० ॥
एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥
विनिवृत्तामिति । अस्मदभियानादिति शेषः ॥ १।२६।१०,११ ॥
॥ १।२६।१२ ॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ १२ ॥
कुत एवं निवर्तनमात्रमित्यतःनहीत्यादि । कथमेवं वक्ति ? ताटकावधं करिष्यामीत्युक्त्वा पुनः ऽहन्तुं नोत्सहेऽ इति । प्राणवियोजनेनापि तत्कृतपीडाभावस्यैव साध्यत्वात् पाणिपादादिछेदनेन वीर्यगतिमाया सहारेणाकिंञ्चित्करत्वस्य सिद्धत्वात्तावता गुरुवचनानुष्ठानस्य च सिद्धत्वात् शूरविगर्हितो मा ऽस्तु स्त्रीवध इति यावत् ॥ १।२६।१२ ॥
॥ १।२६।१३ ॥ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३ ॥
ऽधावुञ् गतिशुद्ध्योःऽ इति, उभ्यपदित्वादस्यअभ्यधावत इति ॥ १।२६।१३ ॥
॥ १।२६।१४ ॥ विश्वामित्रस्तु ब्रह्मर्षिः हुङ्कारेणाभितर्ज्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १४ ॥
विश्वामित्रस्य दुर्धर्षतेजस्त्वेन तं विसृज्य राममेव मानुषबुद्ध्या धावन्तीं तां ताटकां विश्वामित्रो हुङ्कारेण सामान्यतः अभितर्ज्य, राघवयोः स्वस्त्यस्तु जयश्चास्त्विति, जयं, जयविषयकाशिषं च अभ्यभाषत । प्रायुङ्क्तेति यावत् ॥ १।२६।१४ ॥
॥ १।२६।१५ ॥ उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।
रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥ १५ ॥
रजोमेधेनतत्प्रादुर्भावनेन रज उद्धून्वानेति योजना ॥ १।२६।१५ ॥
॥ १।२६।१६ ॥ ततो मायां समास्थाय शिलावर्षेण राघवौ ।
अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥ १६ ॥
ततो माया समास्थायेति । अन्तर्धानं गत्वेति यावत् । ततश्चुक्रोधेति । शिलावर्षस्य स्वेषामतिपीडारत्वात् स्त्रीप्रयुक्तदाक्षिण्यं विसृज्य भगवान् क्रोधं प्राप्त इत्यर्थः ॥ १।२६।१६ ॥
॥ १।२६।१७ ॥ शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।
प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ १७ ॥
प्रतिहत्य । ल्यप्, स्थानिवत्वेन कित्वात् स्वतः पित्वाद्वा अनुनासिकलोपःनिवार्य, अनन्तरं तत्करौ चिच्छेदेति । शिलावर्षादेस्तन्मूलत्वात् ॥ १।२६।१७ ॥
॥ १।२६।१८ ॥ ततश्च्छिन्नभुजां श्रान्तां अभ्याशे परिगर्जतीम् ।
सौमित्रिरकरोत् क्रोधात् हृतकर्णाग्रनासिकाम् ॥ १८ ॥
अभ्याशेसमीपे ॥ १।२६।१८ ॥
॥ १।२६।१९ ॥ कामरूपधरा सद्यः कृत्वा रूपाण्यनेकाशः ।
अन्तर्धानं गता यक्षी मोहयन्ती व मायया ।
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ॥ १९ ॥
ताटकायास्सहजाकारस्याकिञ्चित्करत्वात् सा तं परित्यज्य कामरूपशक्तिमत्वात् रूपान्तरं, पुरो ऽवस्थानभिया अन्तर्धानं च मायाशक्त्या प्राप्य भैरवमश्मवर्षं विमुञ्चन्ती भैरवा विचचार ॥ १।२६।१९ ॥
॥ १।२६।२०,२१,२२ ॥ ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥ २० ॥
दृष्ट्वा गाधिसुतः श्रीमान् इदं वचनमब्रवीत् ।
अलं ते घृणया वीर पापैषा दुष्टचारिणी ॥ २१ ॥
यज्ञविघ्नकरी यक्षी पुरा वर्धति मायया ।
वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते ॥ २२ ॥
रक्षांसि सन्ध्याकालेषु दुर्धर्षाणि भवन्ति वै ।
घृणया ऽलमिति । स्त्रीति घृणा मा ऽस्त्वित्यर्थः । दुष्टचारिणीअश्मवर्षादिरूपदुष्टव्यापारा, दुष्टं यथा तथा मायाशक्त्यान्तर्धानेन सञ्चरणशीला । एतेन प्रत्यक्षात्मनाशप्रसक्त्या घृणाया अनौचित्यं प्रदर्शितम् । यज्ञविघ्नकरीत्यनेन पारलौकिकात्मीयपुरुषार्थनाशकत्वादनौचित्यं घृणायाः । पुरावर्धतेति । मायया यावद्वर्धते तावत्तत्कालात् पुरैवपूर्वमेव एषा वध्यतां । कुत इदानीमस्या मायावृद्धिप्रसङ्ग इत्यतः–पुरेत्यादि । ऽयावत्पुराऽ इति भविष्यति लट्, सन्ध्या प्रवर्तिष्यते इत्यर्थः । किं तत इत्यतःरक्षांसीत्यादि ॥ १।२६।२०,२१,२२ ॥
॥ १।२६।२३ ॥ इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्या ऽभिवर्षतीम् ।
दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ॥ २३ ॥
अश्मवृष्ट्येति । करण तृतीया । शब्दमात्रेण लक्ष्यं सम्यक् निश्चित्य वेधीशब्दवेधी, तादृशं स्वीयं सामर्थ्यं दर्शयन् भूत्वा तां यक्षीं रुरोध ॥ १।२६।२३ ॥
॥ १।२६।२४ ॥ सा रुद्धा शरजालेन मायाबलसमन्विता ।
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥ २४ ॥
शरजालेनेति । शब्दवेधि ऽशरजालेनेति यावत् । अभिदुद्रावेति । अन्तर्धानस्याप्रयोजनत्वात् तद्धित्वेति शेषः ॥ १।२६।२४ ॥
॥ १।२६।२५ ॥ तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।
शरेणोरसि विव्याथ, सा पपात, ममार च ॥ २५ ॥
अशनीमिवेति । ऽसवर्तो ऽक्तिन्नर्थादित्येकेऽ इति घूळीपाल्यादिवत् ङीष् ॥ १।२६।२५ ॥
॥ १।२६।२६ ॥ तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा ।
साधु साध्विति काकुत्स्थं, सुराश्च समपूजयन् ॥ २६ ॥
भीमसङ्काशांभीमरूपाम् ॥ १।२६।२६ ॥
॥ १।२६।२७ ॥ उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ।
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ २७ ॥
सहस्राक्षो विश्वामित्रमुवाच इति योजना ॥ १।२६।२७ ॥
॥ १।२६।२८ ॥ मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।
तोषिताः कर्मणा ऽनेन स्नेहं दर्शय राघवे ॥ २८ ॥
सहस्राक्षादयः किमुक्तवन्त इत्यतः–मुने इत्यादि । अनेन कर्मणेति । त्वत्प्रवर्तितताटकावधकर्मणेति यावत् । स्नेहं दर्शयेति । मदीयो ऽयमाप्ततमाश्शिष्य इत स्नेहमूलं व्यापारं प्रवर्तयेति यावत् ॥ १।२६।२८ ॥
॥ १।२६।२९ ॥ प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।
तपोबलभृतो ब्रह्मन् राघवाय निवेदय ॥ २९ ॥
को ऽसौ तथा प्रवर्तनीयव्यापारः ? इत्यतःप्रजापतेरित्यादि ॥ १।२६।२९ ॥
॥ १।२६।३० ॥ पात्रभूतश्च ते ब्रह्मन् तवानुगमने धृतः ।
कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ ३० ॥
अनुगमनेशुश्रूषणे । धृतःस्थिरनिश्चयः ॥ १।२६।३० ॥
॥ १।२६।३१ ॥ एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथा ऽ ऽगतम् ।
विश्वामित्रं पुरस्कृत्य, ततः सन्ध्या प्रवर्तते ॥ ३१ ॥
पुरस्कृत्यपूजयित्वा जग्मुरिति योजना । सन्ध्यासायंसन्ध्या प्रवर्तते स्म ॥ १।२६।३१ ॥
॥ १।२६।३२,३३,३४ ॥ ततो मुनिवरः प्रीतः ताटकावधतोषितः ।
मूर्ध्नि राममुपाध्राय इदं वचनमब्रवीत् ॥ ३२ ॥
इहाद्य रजनीं राम वसेम शुभदर्शन
श्वः प्रभाते गमिष्यामः तदाश्रमपदं मम ॥ ३३ ॥
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
उवास रजनीं तत्र ताटकाया वने सुखम् ॥ ३४ ॥
मुक्तशापं वनं तच्च तस्मिन्नेव तदा ऽहनि ।
मुक्तशापंअपगतशापजताटकोपद्रवम् ॥ १।२६।३४ ॥
॥ १।२६।३५ ॥ रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ ३५ ॥
ताटकावधतोषितःप्राप्तसंतोषः । रामेणेति शेषः । अत एव रामाय प्रीतःप्रसन्नः ॥ १।२६।३५ ॥
॥ १।२६।३६ ॥ निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षड्विंशः सर्गः
–
प्रभातवेलां प्रतिबोध्यमान इति । विश्वामित्रेणेति शेषः । अस्तग (३६ १य२) मानः सर्गः ॥ १।२६।३६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षड्विंशः सर्गः