अथ पञ्चविंशः सर्गः
[ताटकावृत्तान्तः, तद्वधसमर्थनं च]
॥ १।२५।१ ॥ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥
अथैवं स्त्रीवधे नियोगे सति स्त्रियास्तादृग्बलतद्वधसंशयौ रामस्योपोहति विश्वामित्रः–अथेत्यादि ॥ १।२५।१ ॥
॥ १।२५।२ ॥ अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव
कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥
यदेति । यस्मात् श्रूयन्ते, पुराणादिष्विति शेषः । नागःगजः । अबलेति साभिप्रायम् ॥ १।२५।२ ॥
॥ १।२५।३ ॥ तस्य तद्वचनं श्रुत्वा रामस्य विदितात्मनः ।
विश्वामित्रो ऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ॥ ३ ॥
वरदानकृतं वीर्यं धारयत्यबला बलम् ।
वरदानकृतं वीर्यंतत्कृतं बलं च धारयति ॥ १।२५।३ ॥
॥ १।२५।४ ॥ पूर्वमासीत् महायक्षः सुकेतुर्नाम वीर्यवान् ॥ ४ ॥
अनपत्यः शुभाचारः स च तेपे महत्तपः ।
कुतो वरप्राप्तिरित्यतः–पूर्वमित्यादि । तेप इति । पुत्रार्थं पितामहमुद्दिश्येति शेषः ॥ १।२५।४ ॥
॥ १।२५।५ ॥ पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा ॥ ५ ॥
कन्यारत्नं ददौ राम ताटकां नाम नामतः ।
कन्यारत्नमिति । उत्तमदिव्यदेवरूपवतीमित्यर्थः ॥ १।२५।५ ॥
॥ १।२५।६,७ ॥ ददौ नागसहस्रस्य बलं चास्याः पितामहः ॥ ६ ॥
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ॥ ७ ॥
खञ्जुपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ।
खञ्ज्वोः पुत्रः खञ्जुपुत्रः । ननु सुन्दो ऽसुरः, सुकेतुर्यक्षः, स कथमसुराय दद्यात् भार्यात्वेन ? यक्षस्यापि देवयोनिमात्रत्वात् । नैऋ़तानामपि तथात्वादेवैकजात्यं, तदुचितो यौनसम्बन्धः ॥ १।२५।६,७ ॥
॥ १।२५।८ ॥ कस्य चित्त्वथ कालस्य यक्षी पुत्रमजायत ॥ ८ ॥
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसो ऽभवत् ।
अजायतेति । जनी जनने, जननंगर्भविमोचनम् प्रासोष्टेति यावत् ॥ १।२५।८ ॥
॥ १।२५।९,१० ॥ सुन्दे तु निहते राम सा ऽगस्त्यं मुनिपुङ्गवम् ॥ ९ ॥
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।
भक्षार्थं जातसंरम्भा गर्जन्ती सा ऽभ्यधावत ॥ १० ॥
ऽशापाद्राक्षसो ऽभवत्ऽ इत्युक्ते किंशापादित्यतः–सुन्दे तु निहत इत्यादि । अगस्त्येनेति शेषः ।
इच्छतिइच्छति स्म । जातसंरम्भा–खभर्तृवधजकोपवती । अत एवभक्षार्थमभ्यधावतेति । एतेन यक्षरक्षो ऽसुरादेः पुरुषादत्वादिधर्मवत्वेन च साजात्यं यौनसम्बधार्हं द्रष्टव्यम् ॥ १।२५।१० ॥
॥ १।२५।११ ॥ आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ ११ ॥
राक्षसत्वं भजस्वेति । शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः ॥ १।२५।११ ॥
॥ १।२५।१२ ॥ अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।
पुरुषादी महायक्षी विरूपा विकृतानना ॥ १२ ॥
इदं रूपं विहायाथ दारुणं रूपमस्तु ते ।
पुरुषादीति । जतिलक्षणङीष् । कोपवशाद्विरूपविकृताननत्वम् । वैरूप्यंक्रोधवशजमुखारुण्यदि । इदं रूपंयक्षीरूपम् । दारुणं रूपमिति । पुत्रवदेव राक्षसं रूपमित्यर्थः ॥ १।२५।१२ ॥
॥ १।२५।१३ ॥ सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ॥ १३ ॥
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।
देशोत्सादने हेतुगर्भविशेषणम्–अगस्त्यचरितमिति ॥ १।२५।१३ ॥
॥ १।२५।१४ ॥ एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ॥ १४ ॥
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।
यक्षिः यक्षी यक्षिन्इति रूपत्रयमप्यस्ति ॥ १।२५।१४ ॥
॥ १।२५।१५ ॥ न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ॥ १५ ॥
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन
शापः–आगस्त्यः ॥ १।२५।१५ ॥
॥ १।२५।१६ ॥ न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ॥ १६ ॥
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।
हे नरोत्तम ते स्त्रीवधनिमित्ता या घृणा सा त्वया न कार्येति योजना । कुत एवमित्यतःचतुर्वर्ण्यहितार्थायेति । स्वार्थे ष्यञ् ॥ १।२५।१६ ॥
॥ १।२५।१७ ॥ नृशंसमनृशंसं वा प्रजारक्षणकारणात् ॥ १७ ॥
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ।
नृशंसःक्रूरकर्मा । प्रजारक्षकारणादिति । प्रजारक्षणसिद्धिहेतोरित्यर्थः । रक्षता सदेति । रक्षाधर्मसिद्धिशेषत्वेनेति यावत् ॥ १।२५।१७ ॥
॥ १।२५।१८ ॥ राज्यभारनियुक्तानां एष धर्मः सनातनः ॥ १८ ॥
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ।
इतश्चास्या वधो न्याय्य इत्याह–अधर्म्यामिति । धर्मादनपेता धर्म्या, सा न भवतीत्यधर्म्या । अयमेवार्थः स्थिरीक्रियते–धर्म इत्यादि ॥ १।२५।१८ ॥
॥ १।२५।१९ ॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ॥ १९ ॥
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।
प्रजारक्षाप्राप्तो ऽधर्म्यस्त्रीवधो धर्म्य एवेतीममर्थं सम्मतिभिः स्थिरीकरोति–श्रूयत इत्यादि । पृथिवीमित्यादि । देवताविग्रहवतीमिति यावत् ॥ १।२५।१९ ॥
॥ १।२५।२० ॥ विष्णुना च पुरा राम भृगुपत्नी दृढव्रता ॥ २० ॥
अनिद्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।
अनिद्रंनिद्रासुखरहितम् । काव्यःशुक्रः ॥ १।२५।२० ॥
॥ १।२५।२१,२२ ॥ एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ॥ २१ ॥
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चविंशः सर्गः
–
एतैरिति । छान्दसं बहुत्वम् । एताभ्यां शक्रविष्णुभ्यामित्यर्थः । रुद्र (२२) मानः ॥ १।२५।२२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चविंशः सर्गः