०२४ कामाश्रमदर्शनम्

अथ चतुर्विंशः सर्गः

[गङ्गातरणं, ताटकावनप्रवेशश्च]

॥ १।२४।१ ॥ ततः प्रभाते विमले कृत्वा ऽ ऽह्निकमरिन्दमौ ।

विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥

अथ बाल्यैकमूललौकिकपरप्रश्नमुचितप्रतिवचनेनोपलालयन् निजाश्रमसमीपवर्तिनिजारातिनिवृत्तिप्रयोजनं वक्ष्यति भगवान् विश्वामित्रःततः प्रभात इत्यादि । नद्याःगङ्गाया इति यावत् ॥ १।२४।१ ॥

॥ १।२४।२,३ ॥ ते च सर्वे महात्मानो मुनयस्संशितव्रताः ।

उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ ॥

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।

अरिष्टं गच्छ पन्थानं मा भूत् कालविपर्ययः ॥ ३ ॥

राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टंकष्टम् । ताटकोपद्रवादिति शेषः । विपर्ययःअत्ययः ॥ १।२४।२,३ ॥

॥ १।२४।४ ॥ विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।

ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ ४ ॥

सागरङ्गमामिति । खच्प्रकरणे ऽगमेस्सुप्युपसङ्ख्यानम्ऽ इति खच् ॥ १।२४।४ ॥

॥ १।२४।५ ॥ ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम् ।

मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥ ५ ॥

अतिसंरम्भेणतरङ्गपरस्परसङ्घट्टजक्षोभेण वर्धितंअतिप्रवृद्धम् । निश्चयमिति । सहज औपाधिको वेति निश्चयम् ॥ १।२४।५ ॥

॥ १।२४।६ ॥ अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ ६ ॥

अथ तदनन्तरंजित्रासानन्तरम् । भिद्यमानस्यपरस्परं सङ्घट्यमानस्य तुमुलःनिबिडः यः ध्वनिः, स किं वारिस्वभावजो वा उतोपाधिजो वेति प्रश्नः ॥ १।२४।६ ॥

॥ १।२४।७,८ ॥ राघवस्य वचःश्रुत्वा कौतूहलसमन्वितः ।

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ ७ ॥

कैलासपर्वते राम मनसा निर्मितं सरः ।

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ ८ ॥

उपाधिज इति सपातनिकमुत्तरम्–राघवस्येत्यादि । एवमपि प्रश्नो भगवति रामे ब्रह्मणि निजदृढवैभवप्रकटनप्रयोजनः प्रादुर्भूतः तदेव प्रतिपाद्यतेएतच्छ्रुत्वेत्यादि ॥ १।२४।८ ॥

॥ १।२४।९ ॥ तस्मात् सुस्राव सरसः सा ऽयोध्यामुपगूहते ।

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ ९ ॥

साब्रह्मसरःप्रवृत्तसृतिरिति यावत् । तस्यास्सरःप्रवृत्तत्वात् सरयूरिति नाम । सरसो यौतिप्रवर्तते इति सरयूः । पूरुषादिवत् दीर्घः ॥ १।२४।९ ॥

॥ १।२४।१० ॥ तस्यायमतुलः शब्दो जाह्नवीमभि वर्तते ।

वारिसंक्षोभजो राम प्रणामं नियतः कुरु ॥ १० ॥

तस्यायमिति सन्धिश्च्छान्दसः । अभिअभिगताया इति यावत् । यदेवमतःवारिसङ्क्षोभजः ॥ १।२४।१० ॥

॥ १।२४।११ ॥ ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ ११ ॥

ताभ्यांगङ्गासरयूभ्यां ॥ १।२४।११ ॥

॥ १।२४।१२ ॥ स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥

सङ्काशत इति सङ्काशः, घोरसङ्काशं घोररूपमिति । अविप्रहतं अप्रहतं, खिलमिति यावत् । सार्थगमागमाभावात् ॥ १।२४।१२ ॥

॥ १।२४।१३ ॥ अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।

भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारवैः ॥ १३ ॥

झिल्लिका" भृङ्गारी चीरिका चीरी झिल्लीका च समा इमाः" । श्वापदानिदुष्टमृगाः । दारुणं आरवं येषां ते तथा । शकुन्तो भास उच्यते ॥ १।२४।१३ ॥

॥ १।२४।१४ ॥ नानाप्रकारैः शकुनैः वाश्यद्भिर्भैरवस्वनैः ।

सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ १४ ॥

शकुनाः सर्वपक्षिणः । वाश्यद्भिःकुत्सितं शब्दायमानैः ॥ १।२४।१४ ॥

॥ १।२४।१५ ॥ धवाश्वकर्णककुभैः मरुतिन्दुकपाटलैः ।

सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५ ॥

धवःश्वेताक्षः । अश्वकर्णःसालः, ऽइन्द्रदुः ककुभो ऽर्जुनःऽ । किं नुकिमियम् ॥ १।२४।१५ ॥

॥ १।२४।१६ ॥ तमुवाच महातेजा विश्वामित्रो महामुनिः ।

श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ १६ ॥

एतद्दारुणं वनं यस्य प्राणिनः, स प्राणी श्रूयतामिति योजना ॥ १।२४।१६ ॥

॥ १।२४।१७ ॥ एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम

मलदाश्च करूशाश्च देवनिर्मामनिर्मितौ ॥ १७ ॥

तमेव प्रतिपादयितुं पातनिका–एतावित्यादि । स्फीतौप्रवृद्धधनधान्यौ । मलदाश्च करूशाश्चेति एतौ देवनिर्माणेन निर्मितनामधेयौ ॥ १।२४।१७ ॥

॥ १।२४।१८ ॥ पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८ ॥

को ऽसौ देव एतयोर्नामनिर्मातेत्यतः–पुरेत्यादि । मलेनप्रकृत्या मर्त्यधर्मप्रसिद्धाकारेण तथा तद्धर्मप्रसिद्धक्षुधा च । ब्रह्महत्येत्यादि । ऽहनस्त च ऽ इति क्यप्सन्नियोगे हन्तेस्तकारादेशः । वृत्रस्य ब्रह्मसन्तानत्वात् तद्धनने ब्रह्महत्या ॥ १।२४।१८ ॥

॥ १।२४।१९ ॥ तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।

कलशैः स्नापयामासुः मलं चास्य प्रमोचयन् ॥ १९ ॥

तमिन्द्रं देवाःवस्वादयः कलशैःगङ्गातीर्थकलशैः स्नापयन्ऽष्णा शौचेऽ अनुपसर्गे वा मित्, अडभावश्छान्दसः, अस्नापयन् । अथ ऋषयःवसिष्ठाद्याश्च कलशैः स्नापयामासुः । तद्बलेनास्य मलं करूशपर्यायं क्षुधं च प्रमोचयन् । अडभावश्छान्दसः । तथा सर्वत्रा ऽग्रे द्रष्टव्यम् ॥ १।२४।१९ ॥

॥ १।२४।२० ॥ इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ २० ॥

तत इह भूम्यां महेन्द्रस्य शरीरजं मलं कारूशमेव च दत्त्वा ततो हर्षं प्रपेदिरे ॥ १।२४।२० ॥

॥ १।२४।२१ ॥ निर्मलो निष्करूशश्च शुचिरिन्द्रो यदा ऽभवत् ।

ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ २१ ॥

यदा तदेति योजना ॥ १।२४।२१ ॥

॥ १।२४।२२ ॥ इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।

मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२ ॥

कीदृशीं ख्यातिमित्यतः–मलदाश्चेति । दारादिवच्छब्दस्वाभाव्यमूलं बहुत्वम् । यस्मात् ममाङ्गमलधारिणौ तस्मादिति योजना ॥ १।२४।२२ ॥

॥ १।२४।२३ ॥ साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।

दशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २३ ॥

शक्रेण कृतां देशस्य पूजां दृष्ट्वा देवाः पाकशासनं साधु साध्वित्यब्रुवन् ॥ १।२४।२३ ॥

॥ १।२४।२४ ॥ एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दभ

मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ २४ ॥

यदेवमतःएतावित्यादि ॥ १।२४।२४ ॥

॥ १।२४।२५ ॥ कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २५ ॥

ताटका नाम, भद्रं ते, भार्या सुन्दस्य धीमतः ।

कस्य चिदिति । कियत इति यावत् । कालस्येति । यदा, अपगमे, इति शेषः । ताटका नामाभूत् । हे राम तेतुभ्यम् भद्रंशुभम् भूयात् । सहस्रनागबलवत्या यक्ष्याः प्रसङ्गे बालस्य त्रासो माभूदिति मध्य एवाशीर्वादो विश्वामित्रस्य ॥ १।२४।२५ ॥

॥ १।२४।२६ ॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ २६ ॥

वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ २७ ॥

यस्याः, उच्यमानविशेषणकायो नित्यं प्रजास्त्रासयते स मारीचः पुत्रः, सा ऽभूदिति योजना ॥ १।२४।२६,२७ ॥

॥ १।२४।२८ ॥ इमौ जनपदौ नित्यं विनाशयति राघव

मलदांश्च करूशाश्च ताटका दुष्टचारिणी ॥ २८ ॥

सेयं पन्थानमावार्य वसत्यत्यर्धयोजने ।

इमावित्यादि । या विनाशयति सेयमिति योजना । आवार्यवृद्धिश्छान्दसी, आवृत्य निरुध्येति यावत् । अतिक्रान्तो ऽर्धमत्यर्धम्, ततः कर्मधारयः, अस्माभिरतीतार्धके योजनेअर्धयोजनदूरे पन्थानमावार्य तिष्ठति ॥ १।२४।२८ ॥

॥ १।२४।२९,३० ॥ अत एव च गन्तव्यं ताटकाया वनं यतः ॥ २९ ॥

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ ३० ॥

यतश्चेदं ताटकावनमस्माभिर्गन्तव्यं अत एव हेतोः हे राम स्वबाहुबलमाश्रित्य दुष्टचारिणीं मन्नियोगात् त्यक्तस्त्रीवधशङ्को जहि, हत्वा च तमिमं देशं पुनः निष्कण्टकं कुरु ॥ १।२४।२९,३० ॥

॥ १।२४।३१ ॥ न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।

यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ ३१ ॥

ईदृशमिति अनुभूयमानाभिनयः ॥ १।२४।३१ ॥

॥ १।२४।३२ ॥ एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।

यक्ष्या चोत्सादितं सर्वं अद्यापि न निवर्तते ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्विंशः सर्गः

पृष्टोत्तरमुक्तमुपसंह्रियते–एतदित्यादि । दारुणं सर्वमेतद्वनंताटकावनं यथायेन प्रकारेण यक्ष्योत्सादितं, एतत्ते सर्वमाख्यातं । अपि च अद्यापि यक्ष्युत्सादनमस्य वनस्य न निवर्तते, अतो निष्कण्टकं कुरु । लीला (३३) (?) मानः ॥ १।२४।३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्विंशः सर्गः