अथ त्रयोविंशः सर्गः
[कामाश्रमकथा]
॥ १।२३।१ ॥ प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ १ ॥
अथ गमनप्रसङ्गात् महारुद्रदिव्यचरितवर्णनं बालकयोः पुण्याय, विस्मयसन्तोषाभ्यां च । प्रभातायामित्यादि । पर्णसंस्तरेमृदुपर्णादिपरिकल्पितशयनीये । ऽऋदोरप्ऽ इत्यप् ॥ १।२३।१ ॥
॥ १।२३।२ ॥ कौसल्यासुप्रजाराम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ २ ॥
किमभ्यभाषतेत्यत्राहकौसल्येत्यादि । शोभना चेयं प्रजा सुप्रजा अनेन कौसल्याशब्दस्य षष्ठीतत्पुरुषः, ततः ऽसुपां सुलुक्ऽ इत्यादिना सम्बुद्धेराकारः, ततो ऽन्तरङ्गः सवर्णदीर्घः । उभयाश्रयेनान्तादिवद्भावात् ऽआङिचापस्सम्बुद्धौ चऽ इत्येत्वाभावः । हे कौसल्यासुप्रजा कौसल्यासुपुत्र एवं महोकौशल्यमार्गानुसारादुक्तं वस्तुतो ऽसत् अपि तुसुप्रजारूपो रामःसुप्रजारामः । कौसल्यापदेनास्य षष्ठीतत्पुरुषः । हे कौसल्यापुत्ररामेत्येकं पदम् । पूर्वा सन्ध्या, अत एव आह्निकंअहनि भवम्, ऽकालात् ठञ्ऽ, दैवंकुलदैवतब्रह्मोपासनाविषयं, विशिष्य प्रातिर्हिरण्यगर्भोपासनविषयकं च कर्म कर्तव्यम्, अत उत्तिष्ठ ॥ १।२३।२ ॥
॥ १।२३।३ ॥ तस्यर्षेः परमोदारं वचःश्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ ३ ॥
परमोदारंगम्भीरम् । कृतोदकाविति । कृतौ ब्राह्यानुष्ठानाङ्गौअर्ध्यप्रदानावित्यर्थः । परमं जपं ऽन सावित्र्याः परं जप्यंऽ इत्यादेः नित्यप्राप्तत्वात्, स्नानार्ध्यादेः ब्राह्यानुष्ठानत्वोपदेशाच्च परमजपो गायत्रीजपः ॥ १।२३।३ ॥
॥ १।२३।४ ॥ कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ ४ ॥
अभितस्थतुरिति । अभिमुखौ स्थितौ इति यावत् ॥ १।२३।४ ॥
॥ १।२३।५ ॥ तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥ ५ ॥
तत इति । प्रयाणानन्तरमिति यावत् ॥ १।२३।५ ॥
॥ १।२३।६ ॥ तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ ६ ॥
तत्राश्रमेति । गङ्गासरयूसङ्गमदेश इति यावत् । तप्यतामिति । तपतामिति यावत् । कर्तरि यत् छान्दसः ॥ १।२३।६ ॥
॥ १।२३।७ ॥ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ ७ ॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् ।
भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८ ॥
वसत इति । वसतीति यावत् ॥ १।२३।८ ॥
॥ १।२३।९ ॥ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ ९ ॥
बालकानामज्ञानमूलाभिवादनादिव्यवहारस्य पितृवत्तुल्यानामतिप्रीतिकरत्वादृषेः बालकवचनश्रवणजसन्तोषात्–प्रहस्येति । अथ कस्यायं पूर्वः ? इदानीं कः इह वसतीति प्रश्नयोः प्रथमप्रश्नोत्तरे ब्रूते–अब्रवीदित्यादि । यस्यायमाश्रमः पूर्वःपूर्वकालाधिष्ठेयो ऽभूत् स श्रूयताम् ॥ १।२३।९ ॥
॥ १।२३।१० ॥ कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ॥ १० ॥
एवं प्रतिज्ञाय तत्प्रतिपादनाय पातानिका–कन्दर्प इत्यादि । यः काम इति बुधैरुच्यते कन्दर्पपर्यायस्सो ऽसौ पुरा मूर्तिमानासीत् ॥ १।२३।१० ॥
॥ १।२३।११ ॥ तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥ ११ ॥
किन्ततः इत्यतः–तपस्यन्तमित्यादि । नियमेन समाहितंसमाहितचित्तम् । इहआश्रमे । तपस्यन्तंतपश्चरन्तम् । ऽकर्मणो रोमन्थतपोभ्यांऽ इत्यादिना तपश्शब्दात् क्यङ्, ऽतपसः परस्मैपदं चऽ इति । तद्वत्स्थाणुंतद्वदविकल्पसमाधिम् । अथ तपस्समाधेः कृतोद्वाहंकृतव्युत्थानम् । अत एव समरुद्गणं यथा तथा व्युत्थानकालोचितलीलाविलासदेशं गच्छन्तं देवेशं दुर्मेधाः कामो धर्षयामासचित्तविकारोत्पादनेना ऽभिभूतवान् ॥ १।२३।११ ॥
॥ १।२३।१२ ॥ अवध्यातस्य रुद्रेण चक्षुषा रघुनन्दन
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १२ ॥
ततो देवेशेन महात्मना रुद्रेणावध्यातःकुत एवमिति ध्यानम्, ज्ञातापराधः, ततो हुङ्कृतः, चक्षुषा दग्धश्च । अयं व्यापारः कस्मिंश्चदहनि रुद्रमूर्तिभेदेन काममूर्तिभेदस्येति द्रष्टव्यम् । ततः किं इत्यतः–व्यशीर्यन्तेत्यादि । शृ हिंसने । ततश्च कर्तरि श्यन् ॥ १।२३।१२ ॥
॥ १।२३।१३ ॥ तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ १३ ॥
तत्र हतमिति । तस्मिन् काले देशे चेत्यर्थः । हिशब्दः प्रसिद्धौ ॥ १।२३।१३ ॥
॥ १।२३।१४ ॥ अनङ्ग इति विख्यातः तदाप्रभृति राघव
स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ १४ ॥
स चाङ्गविषय इत्यादि । यत्र देशे स कामो ऽङ्गं मुमोच ह, तत एवान्वर्थनिर्वचनः श्रीमान् सौ ऽसौ अङ्गविषयः ॥ १।२३।१४ ॥
॥ १।२३।१५ ॥ तस्यायमाश्रमः पुण्यः तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ १५ ॥
तस्मिन्अस्मिन् देशे वर्तमानः पुण्यो ऽयमाश्रमः तस्य–स्थाणोः । इमे हि मुनयः इदानीमिह तपस्यन्तस्तस्य दक्षिणामूर्तिरुद्रस्य पुरापूर्वकालमारभ्य सन्तानपरम्परया च शिष्याः । यदेवमतःधर्मपराःधर्मैकतत्पराः । अतः तेषां कदापि पापं न विद्यते । एतेन प्रश्नद्वयं तत् प्राप्तोत्तरम् ॥ १।२३।१५ ॥
॥ १।२३।१६ ॥ इहाद्य रजनीं राम वसेम शुभदर्शन
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १६ ॥
सरितोःगङ्गासरय्वोः ॥ १।२३।१६ ॥
॥ १।२३।१७ ॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
इह वासः परो ऽस्माकं, सुखं वत्स्यामहे निशाम् ।
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ॥ १७ ॥
गङ्गानद्यादिस्रानादिकर्मभिर्युक्ताः, अत एव शुचयः भूत्वैव पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् ॥ १।२३।१७ ॥
॥ १।२३।१८,१९ ॥ तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १८ ॥
अर्ध्यं पाद्यं तथा ऽ ऽतिथ्यं निवेद्य कुशिकात्मजे ।
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १९ ॥
तेषां संवदतां भावलक्षणे षष्ठी । तत्र आश्रमे तेष्वेवं संवदत्सु तान् अदृष्ट्वा ऽपि तत्रत्यमुनयस्तपोमहम्ना दीर्घदर्शनज्ञानचक्षुषा रामाद्यागमनं विज्ञाय परमप्रीता मुनयः कुशिकात्मजायार्ध्यादिकं निवेद्य हर्षमागमन् ॥ १।२३।१८,१९ ॥
॥ १।२३।२० ॥ सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ॥ २० ॥
अभिरञ्जयन्निति । भोजनात्परमतिष्ठन्निति शेषः । अजपन्निति । नदीतीर इति शेषः ॥ १।२३।२० ॥
॥ १।२३।२१ ॥ तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ।
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ २१ ॥
तत्रआश्रमे निवासिभिः सुव्रतैः मुनिभिः संवेशनाय पुनः स्वाश्रममानीताः तत्रसर्वकामपरिपूर्णे दुष्कामप्रसक्तिरहिते आश्रमेश्रीदक्षिणमूर्तिरुद्राश्रमस्थाने तथा सुखं न्यवसन् ॥ १।२३।२१ ॥
॥ १।२३।२२ ॥ कथाभिरभिरामाभिः अभिरामौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोविंशः सर्गः
–
स्वारि (२२) मानः सर्गः ॥ १।२३।२२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोविंशः सर्गः