०२२ रामलक्ष्मणनिष्क्रमणम्

अथ द्वाविंशः सर्गः

[रामलक्ष्मणयोः प्रस्थानं, विश्वामित्रेण विद्योपदेशश्च]

॥ १।२२।१ ॥ तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम् ।

प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ १ ॥

अथ रामविद्यादानानुग्रहैकप्रयोजनागमनाद्विश्वामित्रात् भूष्णूरामब्रह्मणः पुरा स्वसृष्टनित्यभ्रातृप्रभास्वकमहाविद्याशक्तिसम्बन्धोपदेशःतथा वसिष्ठ इत्यादि । आजुहाव । आहूतं च उच्यमानविशेषणकं ददाविति सम्बन्धः ॥ १।२२।१ ॥

॥ १।२२।२ ॥ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।

पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ २ ॥

स्वस्त्ययनंमङ्गलानुष्ठानम् । मङ्गलैःमङ्गलाचरणमन्त्रैः, “स्वस्तिरिन्द्रस्खस्ति नो मिमीताम्” इत्यादिभिः ॥ १।२२।२ ॥

॥ १।२२।३,४ ॥ स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।

ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ ३ ॥

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।

विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ ४ ॥

अथ यात्रायां सुनिमित्तसम्पत्त्युपदेशः–तत इत्यादि । विरजस्कः । उरःप्रभृतित्वात् कप् । विश्वामित्रगतमिति द्वितीयासमासः ॥ १।२२।३,४ ॥

॥ १।२२।५ ॥ पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।

शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ ५ ॥

शङ्खदुन्दुभिनिर्घोषः स्वपुरजः । प्रयाते । प्रयाणोन्मुख इति यावत् ॥ १।२२।५ ॥

॥ १।२२।६ ॥ विश्वामित्रो ययावग्रे ततो रामो महायशाः ।

काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ ६ ॥

अथ धर्मप्रयुक्तगतिविशेषोपदेशः–विश्वामित्र इत्यादि । धन्वी–धनुष्मान् । व्रीह्यादित्वादिनिः । उकारान्तो ऽप्यस्ति धनुश्शब्दः ॥ १।२२।६ ॥

॥ १।२२।७ ॥ कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।

विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥ ७ ॥

अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।

कलापिनौसतूणीरौ । “कलापो भूषणे बर्हे तूणीरे संहतावपि” । शोभयानौआने मुगभावश्छान्दसः, प्रकाशयन्ताविति यावत् । प्रत्येकं तूणीरद्रयधारणात् त्रिशीर्षपन्नगोपमानम् । अक्षुद्रौ–अनल्पवीर्यादिवैभवौ । अत एवाश्विनोपमानम् ॥ १।२२।७ ॥

॥ १।२२।८,९,१० ॥ तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ॥ ८ ॥

बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ।

कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ॥ ९ ॥

अनुयातौ श्रिया दीप्त्या शोभयेतामनिन्दितौ ।

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥ १० ॥

बद्धं गोधाचर्मकृतमङ्गुलित्राणं ययोस्तौ तथा । शोभयेतामिति । लङि आताम् । अडभावश्छान्दसः । स्थाणुः रुद्रः । अचिन्त्यंअचिन्त्यवैभवम् । पावकी इति । पावकस्याग्नेरपत्यम् । अत इञ् । पावकी द्वौ कुमारौ सुब्रह्मण्याविवेत्यभूतोपमान्तः । पावकित्वविशेषणं तेजोविशेषवत्त्वद्योतनाय ॥ १।२२।८,९,१० ॥

॥ १।२२।११ ॥ अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।

रामेति मधुरां वाणीं विश्वामित्रो ऽभ्यभाषत ॥ ११ ॥

अध्यारूढमर्धं यस्मिन् तत् अध्यर्धम्, ततः कर्मधारयः, सार्धयोजनमिति यावत् । तावद्दूरगमने बालकयोः क्षत्तृड्पीडाप्रादुर्भावस्यावश्यकत्वात् महावैभव ऋषिर्विना ऽप्यत्रं परमतृप्तये दिव्यविद्ये उपदिशति–रामेत्यादि ॥ १।२२।११ ॥

॥ १।२२।१२ ॥ गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः ।

मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ १२ ॥

सलिलं गृहाणेति । शुद्धाचमनं कुर्विति यावत् । पर्ययःअतिक्रमः । मन्त्रग्रामंमन्त्रसमूहम्प्रागुक्तजयासुतादिव्यास्त्रशतम्, तथा प्रकृतोपयोगिन्यौ बलामतिबलां च विशिष्य गृहाण । अत्र त्वमित्याद्येकवचनेन रामस्यैव विद्योपदेश इति प्रतिभाति । इदं तु रामस्य विद्योपदेशप्राधान्यद्योतनमात्रम्, उपलक्षणं च लक्ष्मणविद्योपदेशस्यापीति द्रष्टव्यम् । प्रत्यक्षक्षुत्पिपासाशान्तिभावीन्द्रजिज्जयादिगुरुकार्याणां च दिव्यानुग्रहाभावे असाध्यत्वात् ॥ १।२२।१२ ॥

॥ १।२२।१३ ॥ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।

न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऋ़ताः ॥ १३ ॥

अथ बलातिबलयोरेव विशिष्य फलोपदेशःन श्रम इत्याति । बहुदूरगमनादावपीति शेषः । तेतव । रूपविपर्ययःवैवर्ण्यम् । प्रमत्तंक्रीडाव्याक्षिप्तचित्तम् । धर्षणंअभिभवः ॥ १।२२।१३ ॥

॥ १।२२।१४ ॥ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्त कश्चन ।

त्रिषु लोकेषु वा राम न भवेत् सदृशस्तव ॥ १४ ॥

पृथिव्यामस्तीति । वर्तमानसामीप्ये भविष्यति लट् । न भविष्यन्ति इति यावत् । न केवलं पृथिव्यां अपि तु त्रिष्वित्यादि ॥ १।२२।१४ ॥

॥ १।२२।१५ ॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।

नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥ १५ ॥

सौभाग्ये इत्यादिकं पदम् । ज्ञानंतत्त्वज्ञानम् । बुद्धिनिश्चयः ऐहिकविषयः ॥ १।२२।१५ ॥

॥ १।२२।१६ ॥ एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।

बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १६ ॥

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम

मातराविति । ऽबुभुक्षितं न प्रतिभाति किञ्चित्ऽ इति न्यायेन सर्वाप्रतिभामूलक्षुधादिनिवृत्यसाधारणसामर्थ्यात् ॥ १।२२।१६ ॥

॥ १।२२।१७ ॥ विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ॥ १७ ॥

नृपतेरिति पुत्रकेति शेषः । अधीयाने त्वयि पथि क्षुत्पिपासे न भविष्येते इति योजना । अपि च यशश्चातुलं भुवि भविष्यति इति शेषः ॥ १।२२।१७ ॥

॥ १।२२।१८ ॥ पितामहसुते ह्येते विद्ये तेजस्समन्विते ।

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥ १८ ॥

एवं वैभवः कुतः तयोरित्यत्राहपितामहेत्यादि । एते तवते प्रदातुं योग्ये । धार्मिकस्त्वं हि सदृश इति । ब्रह्मपुत्रौ, प्रागुक्तब्रह्मपुत्रांश्च प्रदातुं त्वं हि पात्रं, ब्रह्मांशत्वात् । अत एव तत्प्रदानोचितपरधर्मवत्वाच्च ॥ १।२२।१८ ॥

॥ १।२२।१९ ॥ कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।

तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥

अपि च । एते इति व्यत्ययात्प्रथमा, एतयोः सम्प्रदानयोग्याः सर्वे बहुगुणाः त्वयि सन्त्येव, नात्र संशयः । अतो मम तपसा सम्भृतेप्राप्ते एते त्वयि कामंअभ्यधिकं बहुरूपेबहुवीर्यविलासवैभवे भविष्यतः । न चात्र संशयः ॥ १।२२।१९ ॥

॥ १।२२।२० ॥ ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ २० ॥

जलं स्पृष्ट्वाआचम्य ॥ १।२२।२० ॥

॥ १।२२।२१ ॥ विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।

सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥

स्वतः सहस्ररश्मेः कालविशेषो यथा विशेषाभिव्यक्तिकारकः, एवं स्वतो भूरिविक्रमो रामो विद्यासम्बन्धादभ्यधिकं शुशुभे इत्यर्थः ॥ १।२२।२१ ॥

॥ १।२२।२२ ॥ गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।

ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ २२ ॥

एवं रामे संप्राप्त(गुरु?)शिष्यसम्बन्धः कुशिकात्मजो गुरुणा शिष्यस्य गुरुसेवाविषये नियोजनीयानि आदेष्टव्यानियानि कार्याणि ऽअथ यः पूर्वोत्थायी जघन्यसंवेशी, यावदासीनो बाहुभ्यां प्राप्नुयात्, गच्छन्तमनुगच्छेत्, धावन्तमनुधावेत्ऽ इत्यादीनि तानि सर्वाणि नियुज्य अथ स्वयं तौ चेति त्रयः तां रजनीं तत्र सुखं यथा ऊषुः । रजनीमिति । ऽकालाध्वनोःऽ इति द्वितीया ॥ १।२२।२२ ॥

॥ १।२२।२३ ॥ दशरथनृपसूनुसत्तमाभ्यां

तृणशयने ऽनुचिते तदोषिताभ्याम् ।

कुशिकसुतवचो ऽनुलालिताभ्यां

सुखमिव सा विबभौ विभावरी च ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वाविंशः सर्गः

सत्तमाभ्यामित्यादौ ऽचतुर्थ्यर्थे बहुलं छन्दसिऽ इत्यत्र बहुलग्रहणात् षष्ठ्यर्थे ऽपि

चतुर्थी । तृणाद्यनुचितशयनोषितयोरपि विभावर्यास्सुखवद्विभातत्वे हेतुःकुशिकसुतवचो ऽनुलालितत्वम् । विबभाविति । व्युष्टेति यावत् । गुरु (२३) मानः सर्गः ॥ १।२२।२३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वाविंशः सर्गः