०२१ वसिष्ठवचनाद् रामप्रेषणम्

अथ एकविंशः सर्गः

[वसिष्ठेन दशरथसान्त्वनम्]

॥ १।२१।१ ॥ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।

समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १ ॥

एवं स्नेहपाशात् प्राप्तमह्वानर्थं राजानमन्वर्थपुरोहितस्त्रायत इत्यावेद्यते–तच्छ्रुत्वेत्यादि । स्नेहेन पर्याकुलानिगद्गदान्यक्षराणि यस्मिन् तत्तथा ॥ १।२१।१ ॥

॥ १।२१।२ ॥ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।

राघवाणामयुक्तो ऽयं कुलस्यास्य विपर्ययः ॥ २ ॥

अर्थमिति । प्रार्थितार्थमित्यर्थः । अयं विपर्यय इति । प्रतिज्ञाहानिरूपो ऽयं विपर्ययः राघवाणामस्य कुलस्यायुक्तः ॥ १।२१।२ ॥

॥ १।२१।३ ॥ यदीदं ते क्षमं राजन् गमिष्यामि यथा ऽ ऽगतम् ।

मिथ्याप्रतिज्ञः काकुत्स्थ सुखीभव सबान्धवः ॥ ३ ॥

इदमिति । कुलानुचितार्थानुष्ठानमित्यर्थः । मिथ्याप्रतिज्ञाइत्यादिः व्यङ्ग्योक्तिः ॥ १।२१।३ ॥

॥ १।२१।४ ॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।

चचाल वसुधा कृत्स्ना विविशुश्च च भयं सुराः ॥ ४ ॥

धीमत इति । रोषं दृष्ट्वेति शेषः । सुरा भयं विविशुरिति । जगदन्यथाकृतिसमर्थो ऽयमद्य च क्रुद्धः किं करिष्यतीति भयम् ॥ १।२१।४ ॥

॥ १।२१।५ ॥ त्रस्तरूपं स विज्ञाय जगत् सर्वं महानृषिः ।

नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ ५ ॥

त्रस्तरूपंभीतस्वरूपं । जगत्त्रिस्रोतोमात्रं । धीरःनिर्भयः ॥ १।२१।५ ॥

॥ १।२१।६,७,८ ॥ इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।

धृतिमान् सुव्रतःश्रीमान् न धर्मं हातुमर्हसि ॥ ६ ॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।

स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ ७ ॥

संश्रुत्यैवंकरिष्यामीत्यकुर्वाणस्य राघव

इष्टापूर्तवधो भूयात् तस्माद्रामं विसर्जय ॥ ८ ॥

धर्म इवापर इति । इतः पूर्वमिति शेषः । धर्मात्मा इतीति असन्धिश्छान्दसः । स्वधर्मंसत्यप्रतिज्ञत्वम् ॥ ७ ॥

अकुर्वाणस्येति । प्रतिज्ञातार्थमननुतिष्ठत इत्यर्थः । इष्टंअश्वमेधान्तयागः, पूर्तंवापीकूपतडाकादिप्रतिष्ठा, तयोर्वधःनाशः भूयात् । भवेदिति यावत् ॥ १।२१।७ ॥

॥ १।२१।९ ॥ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।

गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ ९ ॥

अथ पुत्रविपत्तिभीतिमपनयतिकृतेत्यादि । शक्ष्यन्तीति । प्रधर्षितुमिति शेषः ॥ १।२१।९ ॥

॥ १।२१।१० ॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः ।

एष बुध्या ऽधिको लोके तपसश्च परायणम् ॥ १० ॥

कुत एवं प्रभावः कुशिकपुत्रस्येत्यतः–एष इत्यादि । परं च तत् अयनंआस्पदं तथा । नातो ऽधिकः क्कचित्तपस्वी भूतो भावी वेति यावत् ॥ १।२१।१० ॥

॥ १।२१।११ ॥ एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।

नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन ॥ ११ ॥

अस्त्रानिति पुल्लिङ्गश्छान्दसः । एनंएतदवगतमस्त्रसमूहम् ॥ १।२१।११ ॥

॥ १।२१।१२ ॥ नैवं देवा न ऋषयः नासुरा न च राक्षसाः ।

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १२ ॥

केचनेत्यस्यैव प्रपञ्चः–नैवं देवा इत्यादि ॥ १।२१।१२ ॥

॥ १।२१।१३ ॥ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।

कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १३ ॥

ननु कथं देवाद्यनवगतसर्वास्त्रप्राप्तिः ऋषेर्विश्वामित्रस्येत्यतःसर्वास्त्राणीत्यादि । कृशाश्वःप्रजापतिष्वेकः । परमधार्मिकाःप्रतिष्ठावन्त इति यावत् । एतेन पापिदुर्लभत्वं सूचितम् । प्रशासतीति बहुवचनं छान्दसं । प्रशासतस्तस्येति यावत् ॥ १।२१।१३ ॥

॥ १।२१।१४ ॥ ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।

नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १४ ॥

तेषां मातृप्राशस्त्यमपि प्रतिपाद्यतेते ऽपीत्यादि ॥ १।२१।१४ ॥

॥ १।२१।१५ ॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।

ते सुवाते ऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १५ ॥

के ते प्रजापतिसुते इत्यतःजया चेत्यादि । शस्त्राणिशसेः ष्टन् । परविशसितृणीति यावत् ॥ १।२१।१५ ॥

॥ १।२१।१६ ॥ पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा ।

वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ १६ ॥

का कति सुतान् इत्यतः–पञ्चाशतमित्यादि । परान्–श्रेष्ठान् ॥ १।२१।१६ ॥

॥ १।२१।१७ ॥ सुप्रभा ऽजनयच्चापि सुतान् पञ्चाशतं पुनः ।

संहारान्नामदुर्धर्षान् दुराक्रामान् बलीयसः ॥ १७ ॥

संहारान्अन्वर्थसंहारनामकान् । दुर्धर्षान्परैस्सोढुमशक्यान् । दुराक्रामान्परैश्चाशक्याक्रमान् ॥ १।२१।१७ ॥

॥ १।२१।१८ ॥ तानि चास्त्राणि वेत्येष यथावत् कुशिकात्मजः ।

अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ १८ ॥

अपूर्वाणामिति । विद्याविशेषाणामिति शेषः ॥ १।२१।१८ ॥

॥ १।२१।१९ ॥ एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।

न रामगमने राजन् संशयं गन्तुमर्हसि ॥ १९ ॥

यदेवमतःन रामगमन इत्यादि ॥ १।२१।१९ ॥

॥ १।२१।२० ॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।

तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ २० ॥

वस्तुतस्तु त्वदनुग्रहप्रयोजनमेव विश्वामित्रागमनमित्याह–तेषामित्यादि । पुत्रहितार्थायेति । अतिरहस्यानन्यदुर्लभानेकविद्याप्रदानानुग्रहार्थमित्यर्थः ॥ १।२१।२० ॥

॥ १।२१।२१ ॥ इति मुनिवचनात् प्रसन्नचित्तः

रघुवृषभश्च मुमोद भास्वराङ्गः ।

गमनमभिरुरोच राघवस्य

प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकविंशः सर्गः

भास्वराङ्गः–“स्थेशभास” इति वरच्, भासनशीलाङ्गः, प्रसन्नमुख इति यावत् । मुमोदव्यत्ययात्परस्मैपदम् । अतो राघवस्य गमनं अभिरुरोच । अतो राघवं कुशिकात्मजाय दातुं च बुध्या अचिन्तयदिति शेषः । करि (२१) मानस्सर्गः ॥ १।२१।२१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकविंशतितमः सर्गः