०२० दशरथविज्ञापना

अथ विंशः सर्गः

[दशरथसन्तापः]

॥ १।२०।१ ॥ तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।

मुहूर्तमिव निस्संज्ञः संज्ञावानिदमब्रवीत् ॥ १ ॥

एवमिर्थितरामदानकस्य नृपतेः, रामे प्राकृतमानवमत्या प्राप्तो लौकिकव्यवहार उपन्यस्यतेतच्छ्रुत्वेत्यादि । अनेन वृत्तानुवादः । इव शब्द एवार्थे । मुहूर्तं निस्संज्ञ एवमूर्च्छित एव स्थित्वेत्यर्थः ॥ १।२०।१ ॥

॥ १।२०।२ ॥ ऊनषोडशवर्षो मे रामो राजीवलोचनः ।

न युद्धयोग्यतामस्य पश्यामि सह राक्षसौः ॥ २ ॥

ऊनेति । एकेन द्वाभ्यां वा ऊनाः षोडशवर्षाः यस्य स तथा । इदं विशेषणं ऽन युद्धयोग्यतामस्य पश्यामिऽ इत्युक्तिप्रयोजकम् । षोडशवर्षः कुमारः क्षत्रियकुमार एव कवचधरो युद्धार्हः इति शास्त्रम् । अतो रामो विश्वामित्रायतिकाले द्वादशवर्षः पञ्चदशवर्षो वेति काकदन्तपरीक्षायां बहु प्रयतते कश्चित् ॥ १।२०।२ ॥

॥ १।२०।३ ॥ इयमक्षोहिणी पूर्णा यस्याहं पतिरीश्वरः ।

अनया संवृतो गत्वा योद्धा ऽहं तैर्निशाचरैः ॥ ३ ॥

अक्षोहिणीति । ऽअक्षादूहिन्यां वृद्धिर्वक्तव्याऽ । सा च सङ्ख्यादिपर्वोक्ता–एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तउज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिं तु त्रिगुणामेकां विदुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम, वाहिनी तु गणास्त्रयः । स्मृतास्त्रिस्रस्तु वाहिन्याः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रश्चम्वस्तिस्रस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाःइति । यस्याहमितिसन्धिरार्षः । पतिः, पालयिता–ऽपातेर्डतिःऽ ईश्वरःस्वामी । योद्धेति तृच् । अस्तीति शेषः, तेर्यज्ञविघ्नकरैरिति च शेषः ॥ १।२०।३ ॥

॥ १।२०।४,५ ॥ इमे शूराश्च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः ।

योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ ४ ॥

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।

यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥

अत एवसमरमूर्धनीत्यादि ॥ १।२०।४,५ ॥

॥ १।२०।६,७ ॥ निर्विघ्ना व्रतचर्या सा भविष्यति सुराक्षिता ।

अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ ६ ॥

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।

न चास्रबलसंयुक्तो न च युद्धविशारदः ॥ ७ ॥

न चासौ रक्षसां योग्यः, कूटयुद्धा हि ते भृशम् ।

रामनयने का ऽनुपपत्तिरित्यतस्तद्वर्णनम्बाल इत्यादि । ऊनषोडशवर्षत्वादेव बालत्वम् । अत एवाकृतसर्वविद्यश्च । न हि धनुर्वेदे बालस्याधिकारः । अयमेव हेतुरग्रिमविशेषणानामपि सिद्धौ न चासौ रक्षसां योग्य इति । तत्सम्बन्धिनि रण इति शेषः । कुत इत्यतःकूटेत्यादि । ऽकूटं कपटशालादौऽ ॥ १।२०।६,७ ॥

॥ १।२०।८ ॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ ८ ॥

जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।

तिष्ठतु रामस्य क्षमचिन्ता मद्वृत्तान्त एतावानित्याहविप्रयुक्त इत्यादि ॥ १।२०।८ ॥

॥ १।२०।९ ॥ अथ वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥ ९ ॥

चतुरङ्गसमायुक्तं मया च सहितं नय ।

अनन्तरोक्तानुपपत्तिपरिहारःअथवेत्यादि ॥ १।२०।९ ॥

॥ १।२०।१० ॥ षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥ १० ॥

दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।

इतश्चेतश्च रामनयनमयुक्तमित्याहषष्टिरित्यादि । जातस्य ममेति । अतीतानि तदनन्तरमिति शेषः । दुःखंव्रतोपवासयज्ञदीक्षालक्षणम् ॥ १।२०।१० ॥

॥ १।२०।११ ॥ चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ ११ ॥

ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।

परमिका । परमशब्दात्स्वार्थे कः । ऽप्रत्ययस्थात्ऽ इत्यादिना इत्वम् ॥ १।२०।११ ॥

॥ १।२०।१२ ॥ किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के ? ॥ १२ ॥

कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ।

अथ सर्वथा रामनयनमन्याय्यमिति प्रतिपादयितुं योद्धव्यरक्षस्वरूपादिप्रश्नःकिंवीर्या इत्यादि । के च त इति । किंनामान इति यावत् । कथंप्रमाणाःकिंवाक्यप्रमाणकाः ॥ १।२०।१२ ॥

॥ १।२०।१३ ॥ कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १३ ॥

मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।

तेषां प्रतिकर्तव्यंप्रतिक्रिया संहारश्च कथं स्यात् ॥ १।२०।१३ ॥

॥ १।२०।१४ ॥ सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥ १४ ॥

स्थातव्यं दुष्टभावानां, वीर्योत्सिक्ता हि राक्षसाः ।

दुष्टभावानां तेषां सम्बधिनि रण इति योजना ॥ १।२०।१४ ॥

॥ १।२०।१५,१६ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रो ऽभ्यभाषत ॥ १५ ॥

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।

स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ १६ ॥

महाबला महावीर्यो राक्षसैर्बहुभिर्वृतः ।

त्रैलोक्यं बाधत इति । इदं किं वीर्या इत्यस्योत्तरम् ॥ १।२०।१५,१६ ॥

॥ १।२०।१७ ॥ श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ॥ १७ ॥

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।

प्रसिद्धश्चायं रावण इत्युच्यतेश्रूयत इति ॥ १।२०।१७ ॥

॥ १।२०।१८,१९ ॥ यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ॥ १८ ॥

तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ ।

मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १९ ॥

यदा स्वयं न विघ्नकर्तेति । अलक्ष्यत्वादिनेति शेषः । तेन सञ्चोदिताविति किंप्रमाणा इत्यस्योत्तरम् ॥ १।२०।१८,१९ ॥

॥ १।२०।२० ॥ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।

न हि शक्तो ऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥ २० ॥

अथ रक्षःस्वरूपादि प्रश्ने रावणप्रसङ्गेन स्वयमेव निवृत्तिप्रतिक्रियाप्रत्याशो राजा ऽ ऽहइत्युक्त इत्यादि ॥ १।२०।२० ॥

॥ १।२०।२१ ॥ स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।

मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥ २१ ॥

अल्पभाग्यस्येति । प्रकृतिनियोगकरणासमर्थत्वादित्याशयः । कथं तर्हि मत्प्रसादप्रसङ्ग इत्यत्राहदैवतं हीत्यादि । देवताःब्रह्मविदः परमाचार्याश्च नित्यकृतार्थत्वतः कुतश्चित्किञ्चिदलाभान्न कोपादिविकृतिं प्राप्नुवन्तीत्याशयः ॥ १।२०।२१ ॥

॥ १।२०।२२ ॥ देवदानवगन्धर्वाः यक्षाः पतगपन्नगाः ।

न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ २२ ॥

रावणसङ्ग्रामाद्वैमुख्यमपि न मे दूषणं, अशक्यार्थत्वादित्याहदेवेत्यादि ॥ १।२०।२२ ॥

॥ १।२०।२३ ॥ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।

तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः ॥ २३ ॥

सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।

वीर्यमादत्त इति । आहरतीति यावत् । तस्य वा बलैःमारीचादिभिरिति यावत् ॥ १।२०।२३ ॥

॥ १।२०।२४ ॥ कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम् ॥ २४ ॥

बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।

अमरप्रख्यंदेवतुल्यरूपादिमन्तम् । तर्हि यज्ञरक्षायै देहि इत्यत्राहसङ्ग्रामाणामित्यादि । पुत्रकमिति । अनुकम्पायां कन् । अनुकम्पाया विषयभूतमिति यावत् ॥ १।२०।२४ ॥

॥ १।२०।२५,२६ ॥ अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥ २५ ॥

यज्ञविघ्नकरौ तौ, ते नैव दास्यामि पुत्रकम् ।

तयोरन्यतरेणाहं योद्धा स्यां स सुहृद्गणः ॥ २६ ॥

सुन्दोपसुन्दयोस्तौ सुतौ युद्धे कालोपमौमारीचसुबहू इति यावत् । अतः तद्युद्धस्य पुत्रकं न दास्यामीति ॥ १।२०।२६ ॥

॥ १।२०।२७ ॥ इति नरपतिजल्पनाद्द्विजेन्द्रं

कुशिकसुतं सुमहान् विवेश मन्युः ।

सुहुत इव समिद्भिराज्यसिक्तः

समभवदुज्वलितो महर्षिवह्निः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे विंशः सर्गः

सुहुतः प्रथमं शुष्कसमिद्भिः पश्चादाज्यसिक्तो ऽग्निरिवेति योजना । सार (२७) मानः ॥ १।२०।२७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे विंशः सर्गः