०१९ विश्वामित्रकृत-रामयाचना

अथ एकोनविंशः सर्गः

[विश्वामित्रवाक्यम्]

॥ १।१९।१ ॥ तच्छ्रुत्वा राजसिह्मस्य वाक्यमद्भुतविस्तरम् ।

हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ॥ १ ॥

अथ राजप्रतिश्रुतस्वकार्येण विश्वामित्रेण स्वकार्यप्रवृत्तिरिव देवकार्य एव प्रवृत्तिः । तच्छ्रुत्वेत्यादि । अद्भुतविस्तरं–ऽदैवतं हि भवान् ममऽ इत्युक्तेः अद्भुतः–विस्मयकरः विस्तरः यस्मिन् ऽअथ हृष्टमनाराजाऽ इत्यादिराजवाक्ये तत्तथा । ऽप्रथने वावशब्देऽ इति व्युपसर्गे घञ्निषेधः ॥ १।१९।१ ॥

॥ १।१९।२ ॥ सदृशं राजशार्दूल तवैतद्भुवि नान्यतः ।

महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ २ ॥

सदृशमित्यादि । महावंशप्रसूतत्वादिगुणकस्य तवैव एतत्उक्तरूपं वचनं सदृशम् । कुतःयस्मादेतादृशवचनं नान्यतःअन्यस्माद्यस्मादपि कस्माद्राज्ञः समस्ति, अतस्तवैव सदृशंयुक्तरूपम् । वसिष्ठव्यपदेशिनः । व्यपदेशःनियोगः सो ऽस्यास्तीति इनिः । वसिष्ठनियोगवर्तिन इति यावत् । इदमेव सर्वगुणसम्पत्तिमूलम् ॥ १।१९।२ ॥

॥ १।१९।३ ॥ यत्तु मे हृद्गतं तस्य कार्यस्य निश्चयम् ।

कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ ३ ॥

यत्त्वित्यादि । अतः परं वक्तव्यं हृद्गतं यन्मे वाक्यं अस्ति, तद्विषयकस्य कार्यस्यावश्य कर्तव्यत्वनिश्चयं कुरुष्व । प्रतिश्रवःप्रतिज्ञा ॥ १।१९।३ ॥

॥ १।१९।४ ॥ अहं नियममातिष्ठे विध्यर्थं पुरुषर्षभ

तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ ४ ॥

व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।

समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ ५ ॥

किंतद्वाक्यमित्यत्र ऽरामं मे दातुमर्हसिऽ इति वक्तुं पातनिकांकरोतिअहमित्यादि । विधिःयागः । यदा ऽहं यज्ञार्थं नियममातिष्ठेदीक्षामास्थितो ऽस्मि तदा तस्य यज्ञस्य विघ्नकरौ ॥ ४ ॥ कामरूपत्वादिगुणकौ मारीचाद्याख्यौ यौ द्वौ राक्षसौ स्तः, ताविमौ मेमम व्रतेदीक्षारूपे नियमे बहुशःअभ्यधिकम्, समाप्तकल्पतयेति यावत्, चीर्णेअनुष्ठिते सति, चरेः निष्ठायामनिद्त्वम्, ईकारश्च छान्दसः, समाप्त्यांसमाप्तिकाले मांसरुधिरौधेण तां वेदिमभ्यवर्षतां ॥ १।१९।५ ॥

॥ १।१९।६ ॥ अवधूते तथाभूते तस्मिन्नियमनिश्चये ।

कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ॥ ६ ॥

तस्मिन् यज्ञे तथाभूतेनाशिते नियमनिश्चये च अवधूते कृतश्रमःकृतवृथाप्रयासः अत एव निरुत्साहः तस्माद्देशादपाक्रमेअपगतो भवामि ॥ १।१९।६ ॥

॥ १।१९।७ ॥ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव

तथा भूता हि सा चर्या न शापस्तत्र मुच्यते ॥ ७ ॥

ननु प्रतिसर्गकर्तुः महामहिमस्य ते कियदस्त्येतद्रक्षःप्रक्षेप इत्यत्रोक्तम्न च म इत्यादि । क्रोधमुत्स्रष्टुमिति । शप्तुमिति यावत् । कुतो ऽशाप इत्यतःतथेत्यादि । हियस्मात् सा चर्यादीक्षा तथाभूताशापादि प्रवृत्यनर्हा, तस्मात् तत्रतस्यां चर्यायाम् शापो न विमुच्यतेन क्रियते ॥ १।१९।७ ॥

॥ १।१९।८ ॥ स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।

काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ ८ ॥

किं तत इत्यतःस्वपुत्रमित्यादि । काकपक्षधरंबालानां शिखा काकपक्षः ॥ १।१९।८ ॥

॥ १।१९।९ ॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।

राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥

किमेतेन पितृमातृपरिपालनीयेन बालेनेत्यतः–शक्त इत्यादि । मयेति ।

पितृस्थानीयेनेति शेषः । दिव्येन स्वेन तेजसा तु ये राक्षसा विकर्तारःविघ्नकर्तारः तेषां विनाशने ऽपि शक्तः । अतो नाप्रयोजनतैतन्नयनस्य ॥ १।१९।९ ॥

॥ १।१९।१० ॥ श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।

त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥

बहुरूपमिति । ऐहिकामुष्मिकबहुविषयत्वेन बहुविधत्वम् । त्रयाणामिति । त्रिष्वपीति यावत् । येनेति । मत्प्रवृत्तश्रेयसेति यावत् ॥ १।१९।१० ॥

॥ १।१९।११ ॥ न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।

न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥

आसाद्येति । तत्पुरतो युद्ध इति शेषः ॥ १।१९।११ ॥

॥ १।१९।१२ ॥ वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।

रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ १२ ॥

कुतो रामादन्यो हन्तुं नोत्सहत इत्यतःवीर्येत्यादि । रामो वा कथं हन्यादित्यतः–कालेत्यादि । रामस्यवीर्यायेति शेषः ॥ १।१९।१२ ॥

॥ १।१९।१३ ॥ न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ।

अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥

पुत्रं गतंपुत्रगतम् । ऽद्वितीया श्रितऽ इत्यादिना समासः । अस्मासु विसर्जनप्रतिबन्धभूतमिति शेषः ॥ १।१९।१३ ॥

॥ १।१९।१४ ॥ अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।

वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थितः ॥ १४ ॥

कुत एवमित्यतःअहमित्यादि । रामं वेद्मीति । निरतिशयवैभवश्रीहिरण्यगर्भतेजोविभूत्यवताररूपं रामतत्त्वमित्यर्थः । उक्ततत्त्वज्ञानं ब्रह्मर्षिमात्रसिद्धमित्युच्यतेवसिष्ठ इत्यादि ॥ १।१९।१४ ॥

॥ १।१९।१५ ॥ यदि मे धर्मलाभं च यशश्च परमं भुवि ।

स्थितमिच्छसि राजेन्द्र सुतं मे दातुमर्हसि ॥ १५ ॥

न केवलं मत्कार्यमात्रसिद्धिः, अपि तु तवापि यथेच्छसि तथा कुर्वित्युच्यते–यदीत्यादि । यदि धर्मलाभमिच्छसि, भुवि स्थितंशाश्वतीं प्रतिष्ठाम् परमं यशश्च यदीच्छसि तदा तेतव सुतंरामं मेमह्यं दातुमर्हसि ॥ १।१९।१५ ॥

॥ १।१९।१६ ॥ यद्यप्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।

वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ॥ १६ ॥

यदि मदुक्तार्थो मद्वचनमात्रतस्ते हितं न भाति, अथापि त्वदिष्टसंमतानामेव वचनानुयोगं कुर्वित्युच्यतेयद्यपीत्यादि । अनुज्ञारामदानविषयकानुमतिः । ततो ऽपितदापि वा इति योजनार्थः ॥ १।१९।१६ ॥

॥ १।१९।१७ ॥ अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।

दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७ ॥

नापि चिरविप्रयोगः पुत्रेण ते इत्याह–अभिप्रेतमित्यादि । इष्टमिति यावत् । असंसक्तमिति । अतीतबाल्यत्वान्मातापितृकसक्तिरहितं रामं दातुमर्हसि । हियस्मात् यज्ञस्य दशरात्रंयज्ञसम्बधी दशरात्रपरिमितकाल एव राजीवलोचनं रामं अपेक्षते यज्ञपूर्तये, दशानां रात्रीणां समाहारः, द्विगुरेकवचनम्, ततः ऽअहस्सर्वऽ इत्यादिना सङ्ख्यापूर्वरात्र्यन्तादप्यच् । ऽरात्राह्रऽ इत्यादिना पुंस्त्वम् । ऽकालाध्वनोःऽ इति द्वितीया ॥ १।१९।१७ ॥

॥ १।१९।१८ ॥ नात्येति कालो यज्ञस्य यथा ऽयं मम राघव

तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ १८ ॥

हे राघवदशरथ ममा ऽयं यज्ञस्य कालो यथायथोक्तकालं च नात्येतिनाभ्याधिककालविलम्बी भवतीत्यर्थः । आवृत्तिरपीह । तदयमर्थः । हे राघव ममा ऽयं यज्ञस्य कालो यथा नात्येतिनातिपतेत् तथा कुरुष्वेति ॥ १।१९।१८ ॥

॥ १।१९।१९ ॥ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।

विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥

धर्मार्थसहितंधर्मप्रयोजनसहितम् ॥ १।१९।१९ ॥

॥ १।१९।२० ॥ स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ।

शोकमभ्यागमत्तीव्रं व्यषीदत भयान्वितः ॥ २० ॥

व्यषीदत । ऽप्राक्सितादड्व्यवाये ऽपिऽ इति षत्वम् । व्यत्ययादात्मनेपदम् । भयान्वितःरक्षोनिमित्तपुत्रविपत्तिभययुक्तः ॥ १।१९।२० ॥

॥ १।१९।२१ ॥ इति हृदयमनोविदारणं

मुनिवचनं तदतीव शुश्रुवान् ।

नरपतिरभवन्महांस्तदा

व्यथितमनाः प्रचचाल चासनात् ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनविंशः सर्गः

हृदयंहृदयपुण्डरीकं, तद्वर्त्यात्मा तथेत्युच्यते । मनःतदन्तःकरणम् । अतीवअत्यर्थम् हृदयादि विदारणमिति योजना । महान् । सार्वभौम इति यावत् । महात्मामहाबुद्धिः । व्यथितमनाःमूर्च्छितचित्तः । आसनाच्चचालेति । अवस्थातुमशक्तो निस्संज्ञः पपातेति यावत् । आकार (२९ १२) मानः ॥ १।१९।२१ ॥

इति श्रीमद्रामायणे बालकाण्डे एकोनविंशः सर्गः