०१८ रामजन्म

अथ अष्टादशः सर्गः

[श्रीरामाद्यवतारः, विश्वामित्रागमनं च]

॥ १।१८।१ ॥ निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।

प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥

एवं प्रासङ्गिकावयवदेवताः प्रसङ्गादुक्त्वा प्रकृतप्रधानदेवता प्रतिपाद्यते–निर्वृत्ते त्वित्यादि । ऽपुत्रोत्पत्तिं विचिन्तयन्ऽ (श्लो।७) इत्यन्तो वृत्तानुवादः । निर्वृत्ते–समाप्ते । हयमेध इति । स्वोपकार्यपुत्रेष्टियुत इति शेषः ॥ १।१८।१ ॥

॥ १।१८।२ ॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।

प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥

प्रविवेशप्रवेशाभिमुखो बभूव ॥ १।१८।२ ॥

॥ १।१८।३ ॥ यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।

मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥

मुनिपुङ्गवः वसिष्ठः । पुरोहित आश्रयणीयः किल ॥ १।१८।३ ॥

॥ १।१८।४ ॥ श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः ।

बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥

शुभ्राणीति । दशरथदत्तवस्त्राभरणादितो ऽत्युज्वलानि । तत एव हेतोः प्रहर्षः ॥ १।१८।४ ॥

॥ १।१८।५ ॥ गतेषु पृथिवीशेषु राजा दशरथस्तदा ।

प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥

द्विजोत्तमाःवसिष्ठाद्याः ॥ १।१८।५ ॥

॥ १।१८।६ ॥ शान्तया प्रययौ सार्धमृश्यशृङ्गस्सुपूजितः ।

अनुगम्यमानो राज्ञा ऽथ सानुयात्रेण धीमता ॥ १।१८।६ ॥

अनुगम्यमान इति ऋश्यशृङ्गविशेषणं । आर्षं गुरुलध्वक्षरवैषम्यम् ॥ १।१८।६ ॥

॥ १।१८।७ ॥ एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।

उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥

एवं विसृज्येति । एवं द्विजैस्सह प्रविश्य तांश्च विसृज्येत्यर्थः ॥ १।१८।७ ॥

॥ १।१८।८११ ॥ ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥

नक्षत्रे ऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।

ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।

कौसल्या ऽजनयद्रामं सर्वलक्षणसंयुतम् ॥ १० ॥

विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकनन्दनम् ।

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ॥ ११ ॥

यथा वरेण देवानामदितिर्वज्रपाणिना ।

द्वादश इति । ऽतस्य पूरणेऽ इति डट् । चैत्रे मास इति । चैत्री पौर्णमास्यस्मिन् मास इति चैत्रः । ऽसा ऽस्मिन् पौर्णमासीतिऽ इति संज्ञायामण् । नवम्या संसृष्टं नावमिकम्, ऽसंसृष्टेऽ इति ठक् । ऽतदाद्यास्तिथयो द्वयोःऽ इति पुंस्त्वम्, नवमीतिथावित्यर्थः । अदितिदैवत्ये नक्षत्र इति । पुनर्वसुनक्षत्र इति यावत् । देवतान्तात्तदर्थ्ये यक् छान्दसः । स्वोच्चसंस्थेषुस्वस्वोच्चस्थानगतेषु पञ्चसु ग्रहेषुसूर्याङ्गारकसौरिबृहस्पतिशुक्रेषु । सामान्यतो ग्रहाणामुच्चस्थानानि तु ऽअजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादि तुङ्गःऽ इति ।

वाक्पतिःबृहस्पतिः । इन्दुना सह प्रोद्यमान इति–पुनर्वसुनक्षत्रस्य कर्कटकराशित्वादेव इन्दुः तत्र । कर्कटकस्तु बृहस्तेरुच्चस्थानम् । सूर्यो ऽपि स्वोच्चे मेषे स्थितः । एवं मन्दाङ्गारकशुक्रास्तदानीं तुलामकरमीनस्था इति ज्ञेयम् । राममिति । रमन्ते ऽस्मिन् लोका इत्यधिकरणेघञ् । विष्णोरर्धमिति । विष्ण्वंशस्य पायसस्य प्रथमप्रविभागप्राधान्येन सिद्धम् । ऐक्ष्वाकस्यदशरथस्य नन्दनम् । ऽदाण्डिनायनऽ इत्यादिना उकारलोपः । वरःश्रेष्ठः ॥ १।१८।८११ ॥

॥ १।१८।१२ ॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ १२ ॥

साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ।

चतुर्भाग इति । चतुंरंशोपेतो भागः पायसार्धभागप्राधान्यसिद्धः ॥ १।१८।१२ ॥

॥ १।१८।१३ ॥ अथ लक्ष्मणशत्रुघ्नौ सुमित्रा ऽजनयत् सुतौ ॥ १३ ॥

सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ ।

अथ लक्ष्मणशत्रुघ्नाविति । पायसपूर्वापरार्धैकदेशसिद्धाविति शेषः । तदोवोक्तम्–विष्णोरर्धसमन्विताविति । प्रथमचरमार्धयोरर्धादर्धेति यावत् ॥ १।१८।१३ ॥

॥ १।१८।१४ ॥ पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ १४ ॥

सार्पे जातौ च सौमित्री कुलीरे ऽभ्युदिते रवौ ।

सार्पः आश्लेषः । सौमित्रीति द्विवचनेन यमत्वं सूच्यते । बाह्वादित्वादिञ् ॥ १।१८।१४ ॥

॥ १।१८।१५ ॥ राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ॥ १५ ॥

गुमवन्तो ऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ।

पृथक् गुणवन्त इति । प्रत्येकमनन्यसाधारणगुणवन्त इति यावत् । अनुरूपाःज्येष्ठकनिष्ठत्वादिरूपव्यवहारवन्तः । रुच्याचतुर्ष्वाकारजशोभयापूर्वोत्तरप्रोष्ठपदाश्चत्वारः, अत एव तदुपमात्वम् ॥ १।१८।१५ ॥

॥ १।१८।१६ ॥ जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ ॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।

जगुरित्यादि । रामाद्युत्पत्तिकाल इति शेषः ॥ १।१८।१६ ॥

॥ १।१८।१७,१८ ॥ उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ ॥

रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः ।

गायनैश्च विराविण्यो वादनैश्च तथा ऽपरैः ॥ १८ ॥

गायनैः । गायतेः ऽण्युट् चऽ इति कर्तरि ण्युट्, गायकैरिति यावत् । तथा ऽपरैर्वादनैश्च विराविण्यो रथ्याः आसन्निति योजना ॥ १।१८।१७,१८ ॥

॥ १।१८।१९ ॥ प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।

ब्राह्मणेभ्यो ददौ वित्तं गोदानानि सहस्रशः ॥ १९ ॥

प्रदेयाः–पारितोषिकाः । सूताःपौराणिकाः । मागधाःवंशावळीकीर्तकाः । वन्दिनःस्तुतिपाठकाः । वन्दिनामिति सम्बन्धसामान्ये षष्ठी । सूतादिसम्बन्धि यद्देयं पारितोषिकं तत्तेभ्यो ददाविति योजना ॥ १।१८।१९ ॥

॥ १।१८।२० ॥ अतीत्यैकादशाहं तु नामकर्म तथा ऽकरोत् ।

एकादशमासन्नं अहः यस्य तदेकादशाहम्, द्वादशाहमित्यन्यपदार्थः । क्षत्रियस्य द्वादशाहं सूतकमिति स्मृतेरेवं व्याख्या । इयमेव व्याख्या तु शब्दद्योतिता । नामकर्मनामकरणम् अकरोत् । पुत्राणां यथाकृतजातकर्मणामिति शेषः ॥ ॥

ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २० ॥

सौमित्री लक्ष्मणमिति शत्रुघ्नमपरं तथा ।

कस्य किन्नामेत्यतःज्येष्ठमित्यादि । राममिति । रामनामकमिति यावत् । तथा ऽग्रे ऽपि । सौमित्रीसुमित्रापुत्रौ ॥ १।१८।२० ॥

॥ १।१८।२१ ॥ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २१ ॥

ननु कथं राज्ञो नामकरणादावधिकार इत्यतःवसिष्ठ इत्यादि । तथा च पुरोहितद्वारा अकरोदित्युक्तं भवति ॥ १।१८।२१ ॥

॥ १।१८।२२ ॥ ब्राह्मणान् भोजयामास पौरान् जानपदानपि ।

अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २२ ॥

ब्राह्मणानामदददिति । एवमादौ सर्वत्र सम्बन्धसामान्ये षष्ठी । अमितं रत्नौघं बह्वदददिति । बहुप्रकारवदिति क्रियाविशेषणम् । दानस्य बहुप्रकाराः हेमाद्य्रादिस्मृतिप्रसिद्धाः ॥ १।१८।२२ ॥

॥ १।१८।२२ ॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।

जन्मक्रियादीनि । जातकर्माद्युपनयनान्तानीति यावत् ॥ १।१८।२२ ॥

॥ १।१८।२३ ॥ तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २३ ॥

बभूव भूयो भतानां स्वयम्भूरिव संमतः ।

केतुःबिरुदध्वजः । स यथान्नदानादिकीर्तिं ख्यापयति एवं इक्ष्वाकुकुलवैभवप्रकाशकः । पितुः भूयःअभ्यधिकं रतिकरःसन्तोषकरः । अपि च भूतानांसर्वप्राणिनां स्वयम्भूःभगवान् हिरण्यगर्भ इव संमतःनित्यप्रेमास्पदभूतः । कमेकं सिद्धवत्कृत्य दृष्टान्तः ?–उच्यते । भगवतो हिरण्यगर्भस्यैकस्यैव समग्रजगत्सर्गादिपञ्चकृत्यसमग्र सहजशक्तित्वात् । स्वतस्त्वादिशक्तिप्राधान्येन स महेशः सर्वस्रोतास्त्रितनू उपादानिभूय सृजति । ऽतदात्मानं स्वयमकुरुतऽ इति सर्वत्रिस्रोतस्त्रितनुमत्प्रताचामनुपचारेण स्वस्यैवोपादानतयावस्थितत्वात् । अत एव श्रुत्या च तत्त्वमस्यादितो ऽकृतकतदनन्यताप्रतिपादनात् । क्रिमेरपि स्वस्वात्मनः परमप्रेमास्पदत्वं च सुस्पष्टम् । एतेन कारणगुणा हि कार्ये गुणानारभन्त इति न्यायेन श्रीमदादिब्रह्मणात्रासाधारणधर्मभूतं सर्वसंमतत्वं परमचिति भगवत्तेर्जो ऽशप्रधानावतारे भगवत्यपि रामे स्वत एव न्यायप्राप्तमित्युपदिष्टं वेदितव्यम् ॥ १।१८।२३ ॥

॥ १।१८।२४ ॥ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २४ ॥

सर्वे ज्ञानोपपन्नाश्च सर्वे समुदिता गुणैः ।

ज्ञानोपपन्नाः । आत्मानात्मतत्त्वज्ञानयुक्ता इति यावत् । गुणैःसर्ववर्णाश्रमसाधारणैः क्षत्रासाधारणैश्च सद्गुणैरिति यावत् ॥ १।१८।२४ ॥

॥ १।१८।२५ ॥ तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २५ ॥

इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।

तेषामपीति निर्धारमे षष्ठी । सर्वगुणसमुदित इति शेषः । इष्टः सर्वस्येत्यादि । गुणकथने पौनरुक्त्यं अलङ्कार इत्यादावोवोक्तम् ॥ १।१८।२५ ॥

॥ १।१८।२६ ॥ गजस्कन्धे ऽश्वपृष्टे च रथचर्यासु संमतः ॥ २६ ॥

धनुर्वेद च निरतः पितुः शुश्रूषणे रतः ।

रथचर्यासु । रणोचितरथप्रचारेष्वित्यर्थः ॥ १।१८।२६ ॥

॥ १।१८।२७ ॥ बाल्यात्प्रभृतिसुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २७ ॥

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।

बाल्यादिति । प्रभृतियोगे पञ्चम्यस्ति । लक्ष्मिवर्धन इति । ऽङ्यापोः संज्ञाछन्दसोःऽ इति ह्रस्वः । परस्तु मृषाह ऽइको ह्रस्वःऽ इति । लोकान् रमयतीति लोकरामः । ण्यन्तात्कर्मण्यण् ॥ १।१८।२७ ॥

॥ १।१८।२८ ॥ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २८ ॥

लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः ।

सर्वेत्यादि । अन्तःप्राणात् अपरःअन्यःबहिश्चरन् प्राण इव रामस्य निरतिशयप्रेमास्पदभूतो लक्ष्मणः अत एव रामस्य शरीरतः–स्वशरीरादपि सवाप्रयकरःसकलानुकूलकर्मकारी बभूव ॥ १।१८।२८ ॥

॥ १।१८।२९ ॥ न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ २९ ॥

मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।

तेनलक्ष्मणेन, “पृथग्बिना” इति तृतीया । अन्यतरस्यांग्रहणात् तं विनेत्यपि ॥ १।१८।२९ ॥

॥ १।१८।३० ॥ यदा हि हयमारूढो मृगयां याति राघवः ॥ ३० ॥

तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन् ।

मृगया इति निपातः–आखेटः, तमुद्दिश्येति यावत् । सधनुःधनुस्सहितः । परिपालयन्, रामशरीरमिति शेषः । अयं तु लक्ष्मणस्य भक्त्यतिशयप्रवृत्तः स्वाभाविको व्यापारः, न तु लोकरक्षकस्य रामस्य स्वशरीररक्षणे परापेक्षा ऽस्ति ॥ १।१८।३० ॥

॥ १।१८।३१ ॥ भरतस्यापि शत्रुघ्नः लक्ष्मणावरजो हि सः ॥ ३१ ॥

प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ।

हियस्मात् शत्रुघ्नो लक्ष्मणावरजःअवरकालप्राशितकैकेयीपिण्डांशजः, तस्माल्लक्ष्मणो रामस्येव भरतस्य शत्रुघ्नः प्रिय आसीदित्यर्थः ॥ १।१८।३१ ॥

॥ १।१८।३२ ॥ स चतुर्मिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३२ ॥

बभूव परमप्रीतो देवैरिव पितामहः ।

चतुर्भिर्देवैः पितामह इवेति । ऽवसवः पुरस्तात्, रुद्रा दक्षिणतः, आदित्याः पश्चात्, विश्वेदेवा उत्तरतःऽ इति श्रुतेः भगवच्चतुर्मुखजैः भगवत्पुत्रैर्वस्वादिभिः तथेन्द्रयमवरुणकुबेरैश्च भगवत्पुत्रैर्भगवानिव परमप्रीत इत्यर्थः ॥ १।१८।३२ ॥

॥ १।१८।३३ ॥ ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः ॥ ३३ ॥

ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।

ज्ञानादिकं व्याकृतम् ॥ १।१८।३३ ॥

॥ १।१८।३४ ॥ तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् ॥ ३४ ॥

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।

तेषां पिता दशरथः तत्पुत्रलाभतः हृष्टो बभूव । यथा भूरादिब्रह्मलोकान्तसावर्तनावर्तनसकललोकस्य, अस्मच्छरीरेषु वयमिव, साक्षात्स्वामी भगवान् ब्रह्मा हिरण्यगर्भः, सर्वेषामेव दप्तितेजसां गृहनक्षत्रचन्द्राग्निभास्करादीनां पुत्राणां लाभतो हृष्टो भवति तथेत्यर्थः ॥ १।१८।३४ ॥

॥ १।१८।३५ ॥ ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३५ ॥

पितृशुश्रूषणरताः धनुर्वेदे च निष्ठिताः ।

अध्ययनंनियमोपेतो विद्याभ्यासः । वेदसम्बन्धि वैदिकम्, तादृशे ऽध्ययने रताःनियताः इत्यर्थः ॥ १।१८।३५ ॥

॥ १।१८।३६ ॥ अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३६ ॥

चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।

दाराक्रियाविवाहः ॥ १।१८।३६ ॥

॥ १।१८।३७ ॥ तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३७ ॥

अभ्यागच्छन्महातेजा वश्वामित्रो महामुनिः ।

मन्त्रिमध्य इति । कदाचित्सभायामवस्थितस्येति शेषः ॥ १।१८।३७ ॥

॥ १।१८।३८ ॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३८ ॥

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम् ।

कौशिकंकुशिकगोत्रजम् ॥ १।१८।३८ ॥

॥ १।१८।३९ ॥ तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ३९ ॥

सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।

वेश्मेति । अन्तर्वेश्मेति यावत् । सम्भ्रान्तमनस इति । क्षुभितचित्ता इति यावत् । तेनेति । तदीयेनेति शेषः ॥ १।१८।३९ ॥

॥ १।१८।४० ॥ ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४० ॥

प्राप्तमावेदयामासुः नृपायेक्ष्वाकवे तदा ।

इक्ष्वाकव इति । तद्वंशजत्वात्ताच्छब्द्यम् । तथा सर्वत्र ॥ १।१८।४० ॥

॥ १।१८।४१ ॥ तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४१ ॥

प्रत्युञ्जगाम तं हृष्टो ब्रह्माणमिव वासवः ।

सपुरोधाःपुरोहितसहितः । ब्रह्माणमिति । बृहस्पतिमिति यावत् । तथा हि–ऽबृहस्पतिर्देवानां ब्रह्मऽ इति ॥ १।१८।४१ ॥

॥ १।१८।४२ ॥ तं दृष्ट्वा ज्वलतं दीप्त्या तापसं संशितव्रतम् ॥ १।१८।४२ ॥

प्रहृष्टवदनो राजा ततो ऽर्ध्यमुपहारयत् ।

ज्वलितमिति । अकर्मकत्वात् ऽगत्यर्थाकर्मकऽ इति कर्तरि क्तः । संशितव्रतंतीक्ष्णनियमम् । शो तनूकरणे, ऽशाच्छोरन्यतरस्यांऽ तादौ कितीत्वम् ।

उपहारयदिति । अडभावश्छान्दसः ॥ १।१८।४२ ॥

॥ १।१८।४३ ॥ स राज्ञः प्रतिगृह्यार्ध्यं शास्त्रदृष्टेन कर्मणा ॥ ४३ ॥

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।

कुशलंयथास्थितस्य परिपालनं व्ययःअपायः, तदभावः अव्ययं सुखाभिवृद्धिमनुपद्रवञ्चेत्यर्थः ॥ १।१८।४३ ॥

॥ १।१८।४४ ॥ पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४४ ॥

कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ।

किं विषयकः कुशलादिप्रश्न इत्यतः–पुर इत्यादि । अथ विशिष्य प्रश्नः–कुशलमित्यादि ॥ १।१८।४४ ॥

॥ १।१८।४५ ॥ अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः ॥ ४५ ॥

दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ।

राज्ञो विशेषः कुशलप्रश्नप्रकारः–अपि त इत्यादि । अपिः प्रश्ने । सामन्ताः सन्नताःप्रवणा अपि ? रिपवो जिता अपि ? दैवंदेवलोकोपकारकम् । मानुषंमनुष्यलोकोपकारकम् । तत्राद्यं कर्म नित्यनैमित्तिकप्रायश्चित्तरूपं, द्वितीयं सामादिषट्कर्मरूपम् ॥ १।१८।४५ ॥

॥ १।१८।४६ ॥ वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४६ ॥

ऋषींश्चान्यान् यथान्यायं महाभागानुवाच ह ।

मुनिपुङ्गवःविश्वामित्रः वसिष्ठं च पुरोहितत्वात् राजक्रियाग्निहोत्रदेवपूजागृहादौ स्थितं स्वकार्यार्थं समागम्ययथान्यायं प्रणामादिपूर्वं सङ्गत्य तान् प्रसिद्धान् वामदेवादीन् ऋषींश्च यथान्यायं समागत्य कुशलं चोवाच । कुशलप्रश्नमपि कृतवानित्यर्थः ॥ १।१८।४६ ॥

॥ १।१८।४७ ॥ ते सर्वे हृष्टमनस्तत्र राज्ञो निवेशनम् ॥ ४७ ॥

विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः ।

एवं स्वकार्यार्थं कृतसङ्गमा वसिष्ठादयः सर्वे राज्ञो निवेशनं–तत्सभारूपं विविशुः । पूजिता इति । राज्ञेति शेषः ॥ १।१८।४७ ॥

॥ १।१८।४८ ॥ अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४८ ॥

उवाच परमोदारो हृष्टस्तमभिपूजयन् ।

परमोदारःपरमदाता । “उदारो दातृमहतोः” । हृष्टःपुलकितः । ऽहृषेर्लोमसुऽ इतीडभावः ॥ १।१८।४८ ॥

॥ १।१८।४९ ॥ यथा ऽमृतस्य सम्प्राप्तिः यथावर्षमनूदके ॥ ४९ ॥

यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ।

अनूदकेऽअन्येषामपिऽ ति दीर्घः ।

सदृशदारेषुजातिवियोरूपकुलगुणतुल्येष्वित्यर्थः ॥ १।१८।४९ ॥

॥ १।१८।५० ॥ प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥ ५० ॥

तथैवागमनं मन्ये स्वागतं ते महामुने ।

यथा प्रणष्टस्यअदृष्टस्य निजपित्रादिस्थापितनिध्यादेः लाभः यथा महोदयःमहःपुत्रविवाहाद्युत्सवः तस्य उदयो यस्य स तथा, तादृशो हर्षो यथा, तथैव ते आगमनं अचिन्तितोपनतमिति सन्तोषकरं सिद्धं मन्ये । हे महामुने ते स्वागतम् ॥ १।१८।५० ॥

॥ १।१८।५१ ॥ कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५१ ॥

पात्रभूतो ऽसि मे ब्रह्मन् दिष्ट्या प्राप्तो ऽसि धार्मिक ।

कं च ते परमं कामंअभीष्टं करोमिकुर्याम्, वर्तमानसामीप्ये वर्तमानवल्लट् । हर्षितःतत्कारणमपि मे सिध्यति किमु मे त्वद्विषयकमत्कर्तृकसर्वशुश्रूषाणां पात्रभूतस्त्वं दिष्ट्याशुभादृष्टवशेन प्राप्तो ऽसि ॥ १।१८।५१ ॥

॥ १।१८।५२,५३ ॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५२ ॥

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।

ब्रह्मर्षित्वमनु प्राप्तः पूज्यो ऽसि बहुधा मया ॥ ५३ ॥

पूर्वं राजर्षिशब्देनतद्वाच्यसाधकेन तपसा अस्मदादिवत् द्योतितप्रभःप्रकाशितवैभः, अनुपश्चात् ब्रह्मर्षिशब्दवाच्यत्वसाधकेन तपसा ब्रह्मर्षित्वं च प्राप्तः । यदेवं अतः बहुधाबहुप्रकारेण राजर्षिप्रकारेण ब्रह्मर्षिप्रकारेण च विशिष्य पूज्यो ऽसि ॥ १।१८।५३ ॥

॥ १।१८।५४ ॥ तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम ।

शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ॥ ५४ ॥

इदमिति । त्वदागमनमित्यर्थः । हे प्रभो तव सन्दर्शनात् एतद्देहलब्धात् अहं शुभक्षेत्रगतःऐहिकामुष्मिकसकलशुभसाधनपुण्यदेहमेव प्राप्तवानस्मि सफलजन्मास्मीति यावत् । “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इति गीतिः ॥ १।१८।५४ ॥

॥ १।१८।५५ ॥ ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।

इच्छाम्यनुगृहीतो ऽयं त्वदर्थपरिवृद्धये ॥ ५५ ॥

तुभ्यमिति षष्ठ्यर्थे चतुर्थी । ते यत्कार्यं प्रति आगमनं तत्ते प्रार्थितं कार्यं ब्रूहि । अभिमतकार्यनियोगेनानुगृहीतो ऽहं त्वदर्थपरिवृद्धयेत्वत्प्रयोजनपरिवृद्धिं कर्तुमिच्छामि । ऽतुमर्थाच्च भाववचनात्ऽ इति चतुर्थी ॥ १।१८।५५ ॥

॥ १।१८।५६ ॥ कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक

कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥ ५६ ॥

विमर्शःकरिष्यति न वेति संशयः । उक्तविमर्शं विना नियोगहेतुःदैवतं हीति ॥ १।१८।५६ ॥

॥ १।१८।५७ ॥ मम चायमनुप्राप्तो महानभ्युदयो द्विज

तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ ५७ ॥

इतश्च न विमर्शं गन्तुमर्हसीत्युच्यतेमम चेत्यादि ॥ ५७ ॥

इति हृदयसुखं निशम्य वाक्यं

श्रुतिसुखमात्मवता विनीतमुक्तम् ।

प्रथितगुणयशा गुणैर्विशिष्टः

परम ऋषिः परमं जगाम हर्षम् ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टादशः सर्गः

हृदयसुखं अत एव श्रुतिसुखं च । विनीतंविनयान्वितं यथा तथा उक्तम् । प्रथितगुणयशाः–ऽततो मूलैः फलैः पर्णैस्तृणैरिति च वर्तयन् चरन्नन्ततः प्रवृत्तानि । ततो ऽपो वायुमाकाशम्ऽ इत्युपदिष्टैः प्रसिद्धै रलौकिकसामान्यतपोगुणैः अम्बाचतुर्व्यूहचतुर्दिगनुष्ठानपरमसाधनैः उपजातब्रह्मदेवाम्बया नूतनस्थिरसर्गप्रवृत्यादिरूपं यशो यस्य स तथा । गुणैः–ब्रह्मर्षित्वप्रापकैश्शौचादिनगुणैर्वसिष्ठादिवद्विशिष्टः, अत एव परमऋषि, अत एव परमऋषिः । ऽऋत्यकऽ इति प्रकृतिभावः । इच्छांश (५७) मानः सर्गः ॥ १।१८।५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टादशः सर्गः