०१७ ऋक्षवानरोत्पत्तिः

अथ सप्तदशः सर्गः

[ऋक्षवानराद्युत्पत्तिः]

॥ १।१७।१ ॥ पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।

उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥

अथ प्रपञ्च इव एक एव भगवान् त्रिभूमविग्रहोपगृहीतस्त्रिब्रह्ममूर्तिरपि विराडवतारे वैराजविष्णूपग्रहप्राधान्येनावतीर्णः स्वावयवसर्वत्रिदशानपि स्वस्वस्थूलविराड्विष्णूपग्रहप्राधान्येन प्रधानदेवतामयस्वसहायार्थं स्वयमेवावतारनियोगं करोति । (नित्य)अवयव्यवतारप्रसङ्गादवयवानामप्यवतारोपदेशः–पुत्रत्वमित्यादि । विष्णौविराडुपग्रहब्रह्मणि । एवं सर्वत्रार्थो द्रष्टव्यः । स्वयम्भूरिति । ऽभुवस्संज्ञान्तरयोःऽ इति क्किप् ॥ १।१७।१ ॥

॥ १।१७।२ ॥ सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।

विष्णोस्सहायान् बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

सहायानिति । महायकरणसमर्थानित्यर्थः । ननु कथं विष्णौ पुत्रत्वं गते ब्रह्मा देवान् अवतारे नियुङ्क इति । वालिसुग्रीवादेरुत्पत्तिवैरादीनां प्रागेव चिरप्रवृत्तत्वात् । उच्यते–पुत्रत्वं गते सहायार्थं सृजध्वमित्ययं भगवन्नियोगः प्राचीन एव । कविस्त्वद्य प्रसङ्गात्प्रतिपादयतीति ॥ १।१७।२ ॥

॥ १।१७।३ ॥ मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।

नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ ३ ॥

मायाविद् इति । असुरादिमायासंहारसमर्थदेवमायाशक्तिमन्त इति यावत् । जवेवेगवत्वविषये ॥ १।१७।३ ॥

॥ १।१७।४ ॥ असंहार्यानुपायज्ञान् सिंहसंहनान्वितान् ।

सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ ४ ॥

असंहार्यानिति । परैरिति शेषः । संहननंगात्रंसिंहसंहननसमानसंहननान्विता इत्यर्थः ।

अमृतप्राशनाःदेवाः, कर्तरि ल्युट्, देववत्सर्वास्त्रावध्यत्वसम्पन्ना इत्यर्थः ॥ १।१७।४ ॥

॥ १।१७।५ ॥ अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।

यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ ५ ॥

गन्धर्वीणामिति । ऽजातेरस्त्रीविषयात्ऽ इति ङीष् । तथा विद्याधरीष्वित्यपि ॥ १।१७।५ ॥

॥ १।१७।६ ॥ किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।

सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥

हरिरूपेणेति । वानररूपेणेति यावत् । ननु मनुष्यरूपेणैव कुतो नावयवदेवानामप्यवताराः । उच्यते–वनवासे सीतापहारादेव रावणस्य शीर्षछेद्यत्वे प्राप्ते तत्र च तपस्विनो रामस्य मनुष्यवेषैरशक्यसंहारसहायत्वात्, वानरशब्दस्यान्वर्थत्वतो मनुष्यवत्सुकरव्यवहारत्वात्, नन्दिना कृतस्य रावणशापस्य समर्थत्वाच्च । तथा हि–दिग्विजये रावणं नन्दिकेश्वरो भगवान् रावणकृतपरिहासश्शशाप"तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः" इति । अकथकमेकं नास्ति । तुल्यपराक्रमानिति । स्वतुल्यपराक्रमानित्यर्थः, यथाबीजं तथाङ्कुरमिति न्यायेन ॥ १।१७।६ ॥

॥ १।१७।७ ॥ पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।

जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ ७ ॥

यद्देहपरिग्रहनियोगः ? इत्यत्र कार्यार्थमस्माभिरप्यपरिमितज्ञानायुरैश्वर्यवन्तो ये सृष्टाः, तादृशां अंशतस्स्वीकृत्येत्याहपूर्वमित्यादि । विराङ्व्यतिरिक्तब्रह्मसृष्टेरनेकमूलत्वादाहजृम्भमाणस्येत्यादि । सहसाद्रागिति यावत् ॥ १।१७।७ ॥

॥ १।१७।८१० ॥ ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।

जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ८ ॥

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ ९ ॥

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।

सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १० ॥

एवमिति । वक्ष्यमाणप्रकारस्तावत् देवराजः–इन्द्रो वालिनं जनयामास । कथमिदं भगवन्नियोगविपरीततया राघवारातिमेव भगवानिन्द्रस्सृजति उच्यते–अवतीर्णदेवसेनानुग्रहक्षमराजसिद्धये स्वतुल्यपराक्रमवालिसर्गः । नास्य रामस्य च किञ्चिन्निमित्तमरातित्वम् । अपि त्वेतत्सख्ये रामस्य वृत्ते अयमेव सीतां क्षणात्प्रत्यर्पयेत् वाली । रावणः चिरकक्षपीडितः तच्चीटीमात्रेण स्वयमेव भीतः सीतां प्रत्यर्पयेत् । ततश्च देवकार्यं न संवृत्तं स्यात् । अत एवास्य वधः स्वसमानदुःखसापेक्षसुग्रीवसख्याय । अतो यावत्सुग्रीवराज्यं देवसेनारक्षणप्रयोजन एव वालिसर्गः । अपि च रामो ऽपि महाबलत्वात् स्वयमन्यसख्यं न प्रार्थयेत् ।

वाली तु सुतरां अकण्टकमहाबलमहाराजो निष्प्रयोजनं रामसंख्यं कटाक्षेणापि नेक्षेत । तथा च देवसेनानां सीतान्वेषणादिरामकृत्यानुप्रयोगः ।

अत उक्तमेव प्रयोजनम् ॥ १।१७।८१० ॥

॥ १।१७।१११४ ॥ बृहस्पतिस्त्वजनयत् तारं नाम महाहरिम् ।

सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ ११ ॥

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।

विश्वकर्मा त्वजनयत् नलं नाम महाहरिम् ॥ १२ ॥

पावकस्य सुतः श्रीमान् नीलो ऽग्निसदृशप्रभः ।

तेजसा यशसा वीर्यात् अत्यरिच्यत वानरान् ॥ १३ ॥

रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ ।

मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥

रूपेणलक्षणेन, द्रविणेनवित्तेन सम्पन्नौ तथा । अत एव रूपसम्मतमैन्दद्विविदयोस्सर्गः । रूपसम्मताविति मत्वर्थीयो ऽच् । प्रशस्तरूपवत्वेन सर्वलोकसम्मतावित्यर्थः ॥ १।१७।१४ ॥

॥ १।१७।१५ ॥ वरुणो जनयामास सुषेणं नाम वानरम् ।

शुरभं जनयामास पर्जन्यस्तु महाबलम् ॥ १५ ॥

पर्जन्यःजगद्वर्षानुग्रहकरभगवद्देवराजमूर्त्यन्तरम् ॥ १।१७।१५ ॥

॥ १।१७।१६ ॥ मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।

वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥

सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।

वज्रवदभेद्यसंहननोपेतः । तथा वानरमुख्याःसुग्रीवादयस्सुषेणान्ताः ॥ १।१७।१६ ॥

॥ १।१७।१७ ॥ ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ॥ १७ ॥

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।

दशग्रीववधे रता इति । भविष्यति निष्ठा छान्दसी, रंस्यमाना इति यावत् । अपि च ये रता भविष्यन्ति तादृशा बहुसाहस्राः सृष्टा इति । धातुसम्बन्धे प्रत्यया इति साधुः ॥ १।१७।१७ ॥

॥ १।१७।१८ ॥ मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ॥ १८ ॥

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।

गोपुच्छाः–वानरविशेषाः ॥ १।१७।१८ ॥

॥ १।१७।१९ ॥ यस्य देवस्य यद्रूपं वेपो यश्च पराक्रमः ॥ १९ ॥

अजायत समस्तेन तस्य तस्य सुतः पृथक् ।

रूपं–नीलपीतादि । वेषोवृत्तचतुरश्रादिसंस्थानविशेषः ॥ १।१७।१९ ॥

॥ १।१७।२०२५ ॥ गोलाङ्गूलिषु चोत्पन्नाः केचित् संमतविक्रमाः ॥ २० ॥

ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।

देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः ॥ २१ ॥

नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।

वहवो जनयामासुः हृष्टास्तत्र सहस्रशः ॥ २२ ॥

वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ।

अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ॥ २३ ॥

नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।

कामरूपबलोपेता यथाकामं विचारिणः ॥ २४ ॥

सिंहशार्दूलसदृशा दर्पेण च बलेन च ।

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥ २५ ॥

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।

सर्वास्त्रकोविदा इति । देवांशत्वात् स्वयं प्रतिभातसर्वास्त्रपरिहारोपाया इत्यर्थः । नैव ते ऽस्त्रप्रयोक्तारः । शिलादिप्रहरणा इत्युक्तत्वात् ॥ १।१७।२०२५ ॥

॥ १।१७।२६ ॥ विचालयेयुश्शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥ २६ ॥

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।

विचालयेयुरित्यादौ ऽशकि लिङ् चऽ इति लिङ् । ऽकम्पने चलिःऽ इति मित्वेपि ह्रस्वाभावश्छान्दसः ॥ १।१७।२६ ॥

॥ १।१७।२७ ॥ दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।

नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ २७ ॥

आप्लवेयुरिति । सन्तरेयुरिति यावत् ॥ १।१७।२७ ॥

॥ १।१७।२८ ॥ गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ।

नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २८ ॥

प्रव्रजतः । स्वच्छन्दगतीनित्यर्थः ॥ १।१७।२८ ॥

॥ १।१७।२९ ॥ ईदृशानां सहस्राणि हरीणां कामरूपिणाम् ।

शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ २९ ॥

शतं शतसहस्राणीति । अनेकानीति यावत् ॥ १।१७।२९ ॥

॥ १।१७।३० ॥ ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।

बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ ३० ॥

त इत्यादि । ते प्रागुक्ताः सुग्रीवादिसुषेणान्तः हरीणां प्रधानेषु यूथेषु–महायूथेषु हरियूथपाः बभूवुः । ते यूथपश्रेष्ठाश्च वीरान् हरीनजनयन् ॥ १।१७।३० ॥

॥ १।१७।३१ ॥ अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ।

अन्ये नानाविधान् शैलान् काननानि च भेजिरे ॥ ३१ ॥

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥ ३२ ॥

भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ।

नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ ३३ ॥

ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।

विचरन्तो ऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ॥ ३४ ॥

तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।

जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३५ ॥

वाली जुगोपेति देवराजावतारत्वादेव ॥ १।१७।३५ ॥

॥ १।१७।३६ ॥ तैरियं पृथीवी शूरैः सपर्वतवनार्णवा ।

कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३६ ॥

विविधसंस्थानैः–स्थूलसूक्ष्मह्रस्वदीर्घादिनानाप्रकारदेहसंस्थानविशेषवद्भिः । नानाविधानि व्यञ्जनानि–अयं सुग्रीवः, अयं हनूमानित्यसाधारणतत्तत्स्वरूपव्यक्त्य साधारणानि लक्षणानि–प्रशस्तहनुयुक्तत्वादिचिह्नानि येषां ते तथा ॥ १।१७।३६ ॥

॥ १।१७।३७ ॥ तैर्मेघबृन्दाचलकूटकल्पैः

महाबलैर्वानरयूथपालैः ।

बभूव भूर्भीमशरीररूपैः

समावृता रामसहायहेतोः ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तदशः सर्गः

अचलकूटःपर्वतशृङ्गः । शरीररूपंशरीरसंस्थानम् । साल(३७)मानः सर्गः ॥ १।१७।३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तदशः सर्गः