०१६ पायसप्रदानम्

अथ षोडशः सर्गः

[पायसोत्पत्तिः, तत्प्राशनं च]

॥ १।१६।१ ॥ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।

जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ १ ॥

एवं प्राप्तिनियोग उक्तावतारोपायश्च भगवान्विष्णुः पुनस्तान् स्थैर्याय ब्रूते । तदप्यस्माभिरस्मत्कार्यनियुक्तस्य साहाय्यकमस्माभिः कर्तव्यमिति बुद्ध्या । ततो नारायण इत्यादि । नियुक्तःकृतनियोगः । देवनियोगे दोष इत्याशङ्क्य नियुक्तःप्रार्थित इति परिहरतीव कश्चित् । अदोषत्वमारादेव तस्योक्तमस्माभिः । जानन्नपीतितमब्रुवन्नित्यादिपूर्वसर्गोक्तवचनैरिति शेषः ॥ १।१६।१ ॥

॥ १।१६।२ ॥ उपायः को वधे तस्य राक्षसाधिपतेः सुराः

यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥

यमुपायमास्थाय तमहं हन्यां स उपायः क इति योजना ॥ १।१६।२ ॥

॥ १।१६।३,४ ॥ पूर्वेषामपि पूर्वजो ब्रह्मेति । श्रीमच्चतुर्मुखरुद्रश्रीप्रजेशविष्ण्वादयो ये पूर्वेसर्वसंसारपूर्वभूताः कारणमूर्तयः सन्ति तेषामपि पूर्वजःभगवान् हिरण्यगर्भ इति यावत् ।

श्रीमदादब्रह्मण आन्तरज्ञानमूर्तित्वात् तस्य सर्वपूर्वजत्वं, " हिरण्यगर्भः समवर्तताग्रे" इत्यादेः ॥ १।१६।३।४ ॥

॥ १।१६।५९ ॥ सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।

नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ ५ ॥

अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।

एवं पितामहात्तास्मात् वरं प्राप्य स दर्पितः ॥ ६ ॥

उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्यपकर्षति ।

तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥ ७ ॥

इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।

पितरं रोचयामास तदा दशरथं नृपम् ॥ ८ ॥

स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।

अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ९ ॥

स चापीति । स दशरथो ऽपीत्यर्थः । तस्मिन् काल इति । भगवदवतितीर्षाकाल इत्यर्थः । पुत्रियामिति । ह्रस्वश्छान्दसः ॥ १।१६।५९ ॥

॥ १।१६।१० ॥ स कृत्वा निश्चयं विष्णुरामन्त्रय च पितामहम् ।

अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १० ॥

निश्चयं–अवतारविषयम् । आमन्त्र्य चेति । साधयामीत्युक्त्वेति यावत् । अन्तर्धानं गत इति । तस्मादेव समाजादिति शेषः ॥ १।१६।१० ॥

॥ १।१६।११ ॥ ततौ वै यजमानस्य पावकादतुलप्रभम् ।

प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ ११ ॥

यजमानस्य पावकादिति । गार्हपत्यादित्यर्थः । एतदग्नेः पुरुषोत्थानादेवावतार्यमाणं तेजो हैरण्यगर्भमिति सुस्पष्टम् । तस्य तु भूम्यवतारे विष्णूपाधिः द्वारमिति सिद्धान्तः । अतुलप्रभमिति । विद्युदादिवत् दृष्टिप्रतिघातकतेजस्वीति यावत् । महद्भूतमिति । एतेन प्रादुर्भावसमये अनिर्धार्यमाणस्त्रीपुरुषादिलिङ्गविशेषमिति सूचितम् ॥ १।१६।११ ॥

॥ १।१६।१२ ॥ कृष्णं रक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम् ।

स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १२ ॥

अनन्तरमाकारानुभवः । कृष्णंकृष्णवर्णम् । स्निग्धाःचिक्कणाः हर्यक्षस्येव तनुजाः–लोमानि श्मश्रुप्रवरा मूर्धजाः–केशाश्च यस्य स तथा ॥ १।१६।१२ ॥

॥ १।१६।१३ ॥ शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।

शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥

समुस्तेधो ऽत्र उछ्रायः । दृप्तशार्दूलविक्रममिति । तद्वद्भयङ्करदर्शनमिति यावत् ॥ १।१६।१३ ॥

॥ १।१६।१४,१५ ॥ दिवाकरसमाकारं दीप्तानलशिखोपमम् ।

तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥

दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥

दिवाकरसमाकारमिति प्रभामण्डलवत्त्वशि दृष्टान्तः । तैक्ष्ण्यशि दृष्टान्तःदीप्तानलशिखोपममिति । राजतोरजतविकारः अन्तेउपरि परिच्छदःपिधानपात्रं–यस्यास्सा तथा । पात्रीति लिङ्गसामान्यात् । प्रियां पत्नीमिवेति । अयं कविसमाधिः । स्वयं दोर्भ्यां परिगृह्य प्रादुर्भूतमित्यन्वयः । भावे निष्ठा । मायामयीमिव । इव शब्द एवार्थे । भगवतो हिरण्यगर्भस्याचिन्त्यशक्तिदेशक्तिदेवमायाविर्भावितामेवेत्यर्थः ॥ १।१६।१४,१५ ॥

॥ १।१६।१६ ॥ समवेक्ष्याब्रवीद्वाक्यं इदं दशरथं नृपम् ।

प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १६ ॥

दशरथं समवेक्ष्येति योजना । प्राजापत्यं" पत्यन्तपुरोहितादिभ्यो यक्" इत्यपत्यादिप्राग्दीव्यतीयाधिकारेण्यप्रत्ययः, प्रजापतिपुत्रः प्रजापतिनिसृष्टःप्रजापतेरागत इत्याद्यर्थः ॥ १।१६।१६ ॥

॥ १।१६।१७ ॥ अतः परं ततो राजा प्रत्युवाच कृताञ्जलिः ।

भगवन् स्वागतं ते ऽस्तु किमहं करवाणि ते ॥ १७ ॥

अतः परमिति । प्राजापत्यं मां विद्धीत्युक्त्यनन्तरम् । ततःतत एव हेतोः ।

गतभीस्सन् राजा कृताञ्जलिः प्रत्युवाच । महाभूताकारतयोत्थानात्कृत्ययेव नाशशङ्काभीतः पश्चात्प्राजापत्यत्वश्रवणान्निर्भय उवाच ॥ १।१६।१७ ॥

॥ १।१६।१८ ॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् ।

राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥

देवानिति । ब्रह्मादीनर्चयता–हयमेधपूर्वकपुत्रकामेष्ट्येति यावत् ॥ १।१६।१८ ॥

॥ १।१६।१९ ॥ इदं तु नरशार्दूल पायसं देवनिर्मितम् ।

प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १९ ॥

इदमिति किमित्यतः–इदं त्वित्यादि । देवनिर्मितमिति । देवनिर्मितजलपृथिवीमयमूलोके निजकार्यावताराय प्रजेश विष्णवात्मनावतरितव्यत्वात् परमान्नमयप्रजापतिविष्णवात्मना देवेन श्रीहिरण्यगर्भेण निर्मितं, अत एवते प्रजाकरं, धन्यं ऽस्वर्गादिभ्यो यत्ऽ इति यत् व्युत्पत्तिमात्रमिदम् । प्रशस्तमिति यावत् ॥ १।१६।१९ ॥

॥ १।१६।२० ॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।

तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥ २० ॥

भार्याणामिति षष्ठी छान्दसी । भार्याभ्य इति यावत् । अनुरूपाःत्वदनुकूलाः एतत्प्राशनोचिताश्चेत्यर्थः, अशभोजनेतस्मात् यस्य तादेशः । ऽईहल्यघोःऽ इतीत्वम् । यजस इति कर्त्रभिप्रायत्वात् ॥ १।१६।२० ॥

॥ १।१६।२१ ॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।

पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ २१ ॥

हिरण्यमयींहिरण्यविकाराम् । दाण्डिनायनसूत्रे यादिलोपनिपातः ॥ १।१६।२१ ॥

॥ १।१६।२२ ॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।

मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ २२ । ।

अभितः प्रदक्षिणंअभिप्रदक्षिणं । अद्भुतप्रख्यं–अद्भुताकारम् ॥ १।१६।२२ ॥

॥ १।१६।२३,२४ ॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।

बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।

संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ २४ ॥

भूतं कर्तृ । संवर्तयित्वासमाप्य । तत्कर्मेति । श्रीहिरण्यगर्भतेर्जो ऽशावतारणकर्मेति यावत् । तत्रेति । अग्निकुण्ड इति यावत् ॥ १।१६।२४ ॥

॥ १।१६।२५ ॥ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।

शारदस्याभिरामस्य चन्द्रस्येव नर्भों ऽशुभिः ॥ २५ ॥

हर्षेति । हर्षजाः रश्मयःस्मितज्योत्स्नारूपाः तैरुद्भूतः उद्योतःप्रकाशो यस्य तत्तथा । अन्तःपुरं तद्वर्तिस्त्रीजातमिति यावत् । शरदि भवश्शारदः । चन्द्रस्यांशुभिः नभ इवेति योजना ॥ १।१६।२५ ॥

॥ १।१६।२६ ॥ सो ऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।

पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २६ ॥

आत्मन इति । स्वस्या इत्यर्थः । ऽमनःऽ इति ङीब्निषेधः ॥ १।१६।२६ ॥

॥ १।१६।२७,२८ ॥ कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।

अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ २७ ।

कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥ २८ ॥

अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ।

कौसल्याया इत्यादि । अत्रेदं ब्रह्मविद्भिर्मामकैरनुसन्धेयम् ः–

ऽपुष्पवद्धिरण्यरजश्शचीन्द्रौ धीस्वयम्भुवोऽ इत्युपदिष्टाश्वमेधमहायागविकारश्रीमद्ब्रह्मयोगराजब्रह्मवद्याविलासप्रकृतिभूताष्टब्रह्मविद्यातदर्थपुण्यकर्मपरमकाष्ठाश्वमेधप्राप्यफलश्रीहिरण्यगर्भतेजोमयमूलविद्यायाः प्राजापत्यपादे ऋश्यशृङ्गबीजान्वयात् श्रीहिरण्यगर्भपादे च गर्भबीजान्वयात् विहितगर्भशक्तिमत्पायसं अष्टब्रह्मविद्यात्मत्वात् अष्टांशं भवति । तस्यास्य पुष्पवतोः भास्करसौरसरस्वतीस्वयम्भुमयांशचतुष्टयमेकमर्धं भवति । चन्द्रपरोरजश्शचीन्द्रमयांशचतुष्टयमपरमर्धं भवति । एवं प्रथमतो द्विधाकृतस्य पायसस्यार्दं स्वायम्भुवान्नापरीतं प्रधानमहिष्यै कौसल्यायै प्रथमं ददौ । अनन्तरमस्यै दत्तमर्धं च द्विधाकृत्य तु तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं योगप्रधानां कौसल्यामनुव्रतायै सुमित्रायै ददौ । अयमेव भागो भास्करात्मा लक्ष्मणः । ततश्च कौसल्यायां धीस्वयम्भूसौरभागास्त्रयः स्थिताः । अन्तःपूर्णशक्तिर्भगवान् हिरण्यगर्भो रामः । अथैन्द्रमर्धं कैकेय्यै ददौ । तदपि द्विधा कृत्वा अथ तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं च भोगपत्नीं कैकेयीमप्यनुव्रतायै सुमित्रायै ददौ । अयमेव भागश्चन्द्रश्शत्रुघ्नः । अहो भरतश्च पूर्णशक्तिर्विराङ्प्रधानः । लक्ष्मणशत्रुघ्नौ मध्यस्थसम्राङ्प्रधानौ । भगवान् रामः स्वराट् हिरण्यगर्भ इति । शब्दतो योजयामः । तदा नरपतिः कौसल्यायै समग्रपायसस्यार्धं ददौ । अपि च नराधिपस्सुमित्रायै अर्धादर्धं ददौ । अत्र आवृत्तो ऽर्धशब्दो द्रष्टव्यः । तथा ऽग्रेपि । तथाचार्धार्धादर्धं ददौ । अथ कैकेय्यै च पुत्रकारणादवशिष्टार्धंकौसल्यायै दत्तादवशिष्टार्धं ददौ । पुनरेव च नराधिपो ऽनुचिन्त्य अमृतोपमं पायसस्यावशिष्टार्धं च सुमित्रायै प्रददौ । अविष्टस्यकौसल्यादत्तावशिष्टस्य कैकेयीपायसस्यार्धादर्धं ददावित्यर्थः ॥ १।१६।२७,२८ ॥

॥ १।१६।२९ ॥ एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ २९ ॥

एवमित्यादि । पृथगिति । विभज्येति शेषः ॥ १।१६।२९ ॥

॥ १।१६।३० ॥ तास्त्वेतत्पायसं प्राश्य नरेन्द्रस्योत्तमास्त्रियः ।

समानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ ३० ॥

प्राश्य प्रहर्षोदितचेतसः–उदितंउन्मिषितं, प्रहर्षविकसितचेतस इति यावत् । ताः उत्तमस्त्रियः नृपतिं समानं मेनिरे । स्वासु समानस्नेहं अपक्षपातमवागमन् । यद्यपि कौसल्याकैकेय्योस्त्रयो भागाः, सुमित्रायै द्वौ अथापि मय्येवमनुशयो राज्ञः, यदुभयत्रापि मामनुसस्मारेति सुमित्राया अपि सन्तोषः ॥ १।१६।३० ॥

॥ १।१६।३१ ॥ ततस्तु ताः प्राश्य तदुत्तमस्त्रियो

महीपतेरुत्तमपायसं पृथक् ।

हुताशनादित्यसमानतेजसो ऽ

चिरेण गर्भान् प्रतिपेदिरे तथा ॥ ३१ ॥

हुताशनादित्यसमानतेजस इति गर्भविशेषणं दिव्यगर्भवत्सत्रीविशेषणं च, प्रथमान्ततया रूपं चाविशिष्टम् ॥ १।१६।३१ ॥

॥ १।१६।३२ ॥ ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रीयः

प्ररूढगर्भाः प्रतिलब्धमानसः ।

बभूव हृष्टस्निदिवे यथा हरिः

सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षोडशः सर्गः

प्ररूढगर्भाः प्रतिवीक्ष्य प्रतिलब्धमानसःप्राप्तगर्भसत्तानिश्चयं मानसं यस्य स तथा । इदं विशेषणं हरेरिन्द्रस्यापि हर्षोत्पतौ समानम् । रङ्ग (३२) मानः सर्गः ॥ १।१६।३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षोडशः सर्गः