०१५ पुत्रकामेष्टिः रावणवधचिन्ता

अथ पञ्चदशः सर्गः

[पुत्रीयेष्टिः, विष्णुं प्रति देवानां प्रार्थना च]

॥ १।१५।१ ॥ मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।

लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १ ॥

अथ जलपृथिवीप्रधानस्थूलभूमवग्रहोपग्रहस्य विराजो ब्रह्मणो जलप्राधान्येन प्रजापत्यात्मना सृष्टत्रिस्रोतस आहरतः तत्संसारप्रवृत्तये तद्वारा पालनसिद्धये भूमप्राधान्येन विष्ण्वात्मना युगे युगे ऽवतारनैसर्गस्य प्रतीतान्नपानादिदेहयात्रात्रिमलवन्निजभूमविग्रहयात्रावशजत्रिमलस्य रावणादित्रिरक्षःपरिणतस्य संहाराय त्रेतायामपि यथाप्राप्तकालोचितावतारो दशरथपुत्रप्रवृत्तिप्रसङ्ग उपदिश्यते–मेधावीत्यादिना । ततःपुत्रोत्पादनप्रतिश्रवानन्तरम् । मेधावीसदा स्वबुद्धिधृताशेषवेदशास्त्रः । अथ एव सदा वेदज्ञःस्वरूपतो ऽर्थतश्च वेदतत्ववित् । स ऋश्यशृङ्गः । प्रतिश्रुतांशनिर्वाहाय किं कर्तव्यमिति निश्चेतुं किञ्चित्कालं विकल्पसमाधौ स्थितो ध्यात्वा तत इदमुत्तरंइदमिहोत्तरमनुष्ठेयकृत्यमिति निश्चित्य पश्चात् लब्धसंज्ञःसमाधिव्युत्थितः तं तु नृपमब्रवीत् ॥ १।१५।१ ॥

॥ १।१५।२ ॥ इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।

अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धां विधानतः ॥ २ ॥

किमब्रवीदित्यतःइष्टिमित्यादि । पुत्रकारणात्पुत्रप्राप्तिहेतोः, ते पुत्रीयां–पुत्रप्राप्तिनिमित्तभूताम्, निमित्ताधिकारे ऽपुत्राच्छ चऽ इति छः, अथर्वशिरसि प्रोक्तैः मन्त्रैः विधानतः–कल्पसूत्रतः सिद्धामिष्टिं करिष्यामि । इत्युक्तेव्ति शेषः ॥ १।१५।२ ॥

॥ १।१५।३ ॥ ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।

जुहाव चाग्रौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ ३ ॥

मन्त्रदृष्टेनेति । मन्त्रपूर्वकतया कल्पसूत्रदृष्टेनेत्यर्थः ॥ १।१५।३ ॥

॥ १।१५।४ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥

ततःतत्रेति यावत् ॥ १।१५।४ ॥

॥ १।१५।५ ॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।

अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत् ॥ ५ ॥

तस्मिन् सदसि ता देवतास्समेत्येति । अन्तर्धानशक्त्या मर्त्यानवलोकितमिति शेषः । लोककर्तारं–यज्ञदेवतायज्ञपशुयज्ञकर्तृमयसंसारस्रष्टारं भगवन्तं सावित्र्यंशं विराजंब्रह्माणमिति यावत् ॥ १।१५।५ ॥

॥ १।१५।६,७ ॥ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।

सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।

मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥

कुतो युष्मद्बाधनक्षमवीर्यलाभ इत्यतः–त्वयेत्याद । युष्माकमपि दत्तमेव वीर्यमस्माभिरित्यत्र–मानयन्तश्च तमिति । सर्वदेवताभिरवध्यत्वरूपो यो वरो दत्तस्तं परिपालयन्त इति यावत् ॥ १।१५।६,७ ॥

॥ १।१५।८ ॥ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।

शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥

त्रिदशराजानमिति । प्रागप्युक्तमनित्यस्समासान्त इति ॥ १।१५।८ ॥

॥ १।१५।९ ॥ ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा ।

अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥

असुराःराहुप्रमुखाः आजानजदेवयोनयः ॥ १।१५।९ ॥

॥ १।१५।१० ॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।

चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते ॥ १० ॥

न प्रतपतीतिअन्तर्भावितणिः, न तापयतीति यावत् । एवमादिकं तत्कार्यातिशयप्रकाशनपरम् । चलोर्मिभिः माला ऽस्यास्तीति तथा, व्रीह्यादित्वादिनिः ॥ १।१५।१० ॥

॥ १।१५।११,१२ ॥ तन्महन्नो भयं तस्माद्राक्षसाद्धोरदर्शनात् ।

वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११ ॥

एवमुक्तस्सुरैस्सर्वैश्चिन्तयित्वा ततो ऽब्रवीत् ।

हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥

एवमुक्त इति । भगवान् ब्रह्मेति शेषः । हन्तेत्यनुकम्पायाम् ॥ १।१५।११,१२ ॥

॥ १।१५।१३ ॥ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।

अवध्यो ऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥

अयमिति क इत्यतःतेनेत्यादि । तत् तथास्त्वित्युक्तमिति योजना ॥ १।१५।१३ ॥

॥ १।१५।१४ ॥ नाकीर्तयदवज्ञानात् तद्रक्षो मानुषांस्तदा ।

तस्मात् स मानुषाद्वध्यो मृत्युर्नान्यो ऽस्य विद्यते ॥ १४ ॥

तदेति । अवध्यत्ववरणसमय इत्यर्थः । मृत्युःमृतिसाधकमिति यावत् ॥ १।१५।१४ ॥

॥ १।१५।१५ ॥ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।

सर्वे महर्षयो देवाः प्रहृष्टास्ते ऽभवंस्तदा ॥ १५ ॥

प्रहृष्टा इति । मनुष्यद्वारेणापि वधश्रवणजस्सन्तोषः ॥ १।१५।१५ ॥

॥ १।१५।१६,१७ ॥ एतस्मिन्नन्तर इति । मनुष्याद्वधश्रवणजसर्वदेवतासन्तोषकाल इति यावत् । सर्वास्वपि देवतासु भूमावतारो भूमशक्तिप्राधान्यान्मदेकसाध्यः, विशिष्य तु देवारातिसंहारकः । अतो मयेदं सर्वदेवताप्रीतिकरं कृत्य मनुष्ठेयमित्यभिध्याय भगवानपि स्वप्रधानमूर्त्या ब्रह्मणा समागत्य देवकार्येण समाहितस्तस्थौ ॥ १।१५।१६,१७ ॥

॥ १।१५।१८ ॥ तमब्रुवन् सुरास्सर्वे समभिष्टूय संनताः ।

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ १८ ॥

सन्नताःप्रणता इति यावत् । हे विष्णो त्वां नियोक्ष्यामह इति । प्रागुक्तरीत्या भूमावतारस्य त्वदेकसाध्यत्वादिति भावः ॥ १।१५।१८ ॥

॥ १।१५।१९,२० ॥ राज्ञो दशरथस्य त्वं अयोध्याधिपतेर्विभोः ।

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ॥ १९ ॥

तस्य भार्यासु तिसृषु हीश्रीकीर्त्युपमासु च ।

विष्णो पुत्रत्वमागच्छ कृत्वा ऽ ऽत्मानं चतुर्विधम् ॥ २० ॥

कस्मिन्नियुङ्ध्व इत्यतो राज्ञ इत्यादि । अत्रत्यराजराजपत्नीविशेषणं विष्णोरवतारयोग्यताप्रतिपादकम् ॥ १।१५।२० ॥

॥ १।१५।२१ ॥ तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥ २१ ॥

कुतो ममैष नियोग इत्यतः–अवध्यं दैवतैरित्यादि । ऽकृत्यानां कर्तरि वाऽ इति पक्षे तृतीया । जहिहन्तेर्जः ॥ १।१५।२१ ॥

॥ १।१५।२२,२३,२४,२५ ॥ स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ।

राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ २२ ॥

ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा ।

क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥ २३ ॥

वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।

सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ २४ ॥

त्वं गतिः परमा देव सर्वेषां नः परन्तप

वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ २५ ॥

हे देव नस्सर्वेषां अत्र विषये त्वमेव परमा गतिः–उपायः । नृणामिति । ऽनृचऽ इति पाक्षिको नामि न दीर्घः । मनः कुर्विति । अवतरितुमिति शेषः ॥ १।१५।२२,२३,२४,२५ ॥

॥ १।१५।२६,२७,२८,२९ ॥ एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ।

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ॥ २६ ॥

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ।

भयं त्यजत भद्रं वः, हितार्थं युधि रावणम् ॥ २७ ॥

सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ।

हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥ २८ ॥

दशवर्षसहस्राणि दशवर्षशतानि च ।

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ २९ ॥

हत्वा वत्स्यामीति योजना ॥ १।१५।२६२९ ॥

॥ १।१५।३० ॥ एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ।

मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ ३० ॥

चिन्तयामासेति । यथा देवैराज्ञप्तं तथेति शेषः ॥ १।१५।३० ॥

॥ १।१५।३१,३२ ॥ ततः पद्मपलाशाक्षः कृत्वा ऽ ऽत्मानं चतुर्विधम् ।

पितरं रोचयामास तदा दशरथं नृपम् ॥ ३१ ॥

ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।

स्तुतिभिर्दिव्यरूपाभिः तुष्टुवुर्मधुसूदनम् ॥ ३२ ॥

दिव्यरूपाभिः स्तुतिभिस्तुष्टुवुः ॥ १।१५।३२ ॥

॥ १।१५।३३ ॥ तमुद्धतं रावणमुग्रतेजसम्

प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।

विरावणं साधुतपस्विकण्टकं

तपस्विनामुद्धर तं भयावहम् ॥ ३३ ॥

स्तुत्वा च, उच्यमानविशेषणं रावणं उद्धरतमुन्मूलय, सबलत्वादिविशेषणकमेव हत्वा स्वर्लोकमागच्छेत्यपि न्ययुञ्जतेति शेषः । विरावणंविशेषेण त्रिलोकमाक्रन्दयितारं । अत्र तत्तदसाधारणकृत्ये तत्तद्देवस्य तदितरदेवैर्मगवदादिगुरुब्रह्मैकावयवैर्नियोजनम् । तस्य तस्य तत्र तत्र नियोज्यत्वं च गुण एव, न तु दोषः । यथा “तेषामसुराणां तिस्त्रः पुर आसन्” इत्यारभ्य रुद्रैकसाध्यकृत्ये रुद्रस्य सर्वदेवैर्नियोगः"रुद्र इत्यब्रुवन्, रुद्रो वै क्रूरः, सो ऽस्यत्विति," तथा “यज्ञस्य शिरो ऽच्छिद्यत । ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः इदं यज्ञस्य शिरः प्रतिधत्तम् " इति । तथा “अग्रेस्त्रयो ज्यायांसो भ्रातर आसन्” इत्यादि । “उप न आवर्तस्व, हव्यं नो वह”, इति नियोगः । मूढास्तु ततः किञ्चिदुत्कर्षापकर्षं कल्पयन्ति । एकस्य भगवतः श्रीमदादिब्रह्मणो ऽपत्यानि त्रिब्रह्ममुखाः सर्वे त्रिदशाः सर्वे ऽपि स्वस्वकृत्ये प्रधानभूताः तत्र भगवन्नियोगवन्तश्च । यथा चक्षुरदिः रूपादौ नियतनियोगस्तिष्ठति तथा ॥ १।१५।३३ ॥

॥ १।१५।३४ ॥ तमेव हत्वा सबलं सबान्धवं

विरावणं रावणमुग्रपौरुषम् ।

स्वर्लोकमागच्छ गतज्वरश्चिरं

सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चदशः सर्गः

अत्र स्वर्लोकमित्यस्य गतदोषकल्मषमिति विशेषणमस्ति । तत्र दोषा रागद्वेषमोहादयः । कल्मषंपापंस्वहृदि स्वात्मतया ऽवस्थितश्रीमदादिब्रह्मानुपासनादि ब्रह्महत्यान्तम् । एतयोः प्रसङ्गो यत्र गतः तादृश स्वर्लोकमिति । इदं च परस्वर्गाख्ये ब्रह्मलोक एव । समस्तसुरेन्द्रैस्सर्वैरपि यथाभगवद्दत्तस्वस्वदेशमवस्थितैर्गुप्तमिति चासङ्कोचेन ब्रह्मलोक एवास्ति । नापि च शक्रलोकप्रत्यागमनियोगश्च युज्यते । विष्णोर्भगवतो विराङ्त्वतो वैराजब्रह्मलोकप्रत्यागतिरेवोपदिश्यते । राज्यमपासत्वा ब्रह्मलोकं गमिष्यतीति स्पष्टत्वाच्च । तदविदितब्रह्मतत्वा मोहात्स्वकुलदैवब्रह्मापकर्षगवेषणपरमश्रद्धामिथ्यापकर्षं चापादयन्तो वदन्तु नाम । भग(३४)मानः ॥ १।१५।३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चदशः सर्गः