०१४ अश्वमेधयजनम्

अथ चतुर्दशः सर्गः

[अश्वमेधः]

॥ १।१४।१ ॥ अत संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ॥ १ ॥

एवं वसन्तोत्सृष्टाश्वत्वात् पुनर्वसन्तप्रवृत्तिकाले तन्मेदःपुरोडाशेन यागाय सम्भारसम्भरणादिशालाप्रवेशनान्तकर्मणि प्रवृत्ते वसन्तान्तरे संवत्सरपूर्तौ मेध्ये तुरङ्गे सदः प्राप्ते सति पश्चाद्यथाविधि यज्ञप्रवृत्युपदेशः, काव्यलक्षमत्वाच्च यज्ञवर्णनम्–अथेत्यादि । संवत्सरे पूर्णे इति । त्रिंशद्दिनात्मकसावनमासपरिच्छिन्नो ऽत्र संवत्सरो भवतीति सूत्रात् ॥ १।१४।१ ॥

॥ १।१४।२ ॥ ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।

अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः ॥ २ ॥

ऋश्यशृङ्गं पुरस्कृत्येति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं च तस्येति गम्यते ॥ १।१४।२ ॥

॥ १।१४।३ ॥ कर्म कुर्वन्ति विधिवत् याजका वेदपारगाः ।

यथाविधि यतान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥

यताविधीति । विधिः–वेदः साक्षात् विप्रकीर्णतया वेदविहितार्थस्य प्रयोगानुकूलतया साकल्यविधिः कल्पसूत्रं–शास्त्रम् तत्प्रतिपाद्यार्थस्यैव पूवोत्तरपक्षप्रवर्तनेन स्थिरीकारिका पूर्वमीमांसान्यायः, तदनतिक्रम्येति यावत् । शास्त्रतः परिक्रामन्तीति । अमुकर्त्विजि अमुकं कुर्वाणे तस्मिन्नेव काले अनेनर्त्विजेदं कर्तव्यमित्यादि तच्छास्त्रतः प्रतिपाद्यमानं स्वस्वकर्मकालमविस्मृत्य परिक्रामन्ति प्रवर्तन्त इत्यर्थः ॥ १।१४।३ ॥

॥ १।१४।४ ॥ प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।

चक्रुश्च विधिवत्सर्वमाधिकं कर्म शास्त्रतः ॥ ४ ॥

उपसदं । यागविशेषप्राप्तमिष्टिविशेषम् । अधिकमिति । प्रकृत्युपदिष्टांगानुमितौ तत्तद्विकृत्यपेक्षातो विशेषो ऽधिकं कर्म ॥ १।१४।४ ॥

॥ १।१४।५ ॥ अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।

प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ ५ ॥

अभिपूज्येति । तत्तत्कर्मभिः पूजनीयां देवतामिति शेषः । अस्यैव प्रपञ्चःप्रातस्सवनेत्यादि ॥ १।१४।५ ॥

॥ १।१४।६ ॥ ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतो ऽनघः ।

माध्यन्दिनं च सवनं प्रावर्तत यताक्रमम् ॥ ६ ॥

ऐन्द्रं चेति । इन्द्रदेवताकहविर्विशेषः । राजासोमलता । अभिष्टुतः, ग्रावभिस्संक्षुद्य सारनिस्सारणमभिषवः ॥ १।१४।६ ॥

॥ १।१४।७,८ ॥ तृतीयसवनं चैव राज्ञो ऽस्य सुमहात्मनः ।

चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ ७ ॥

नचाहुतमभूत्तत्र स्खलितं वा ऽपि किं च न ।

दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ ८ ॥

अहुतमिति । अन्यथा हुतमित्यर्थः । स्खलितं–अज्ञानतः कस्यचित्कर्मणस्त्यागः । ब्रह्मवत्मन्त्रवत् । क्षेमःविध्यपराधराहित्यम् ॥ १।१४।७,१० ॥

॥ १।१४।९ ॥ न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।

नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ९ ॥

श्रान्तःस्वार्त्विज्याशक्तः । तत्रतद्यज्ञर्त्विक्षु । शतं अनुचराः न विद्यन्ते यस्य स तथा ॥ १।१४।९ ॥

॥ १।१४।१० ॥ ब्राह्मणा भुञ्जते नित्यं नाथवान्तश्च भुञ्जते ।

तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ १० ॥

नाथवन्तःदासाःशूद्रा इति यावत् । तापसाःशैवमार्गगाः शूद्राः । श्रमणाः–त्यक्तपुत्र मृत्यादिसंसाराः काषायम्बराः शूद्रविशेषाः ॥ १।१४।१० ॥

॥ १।१४।११ ॥ वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।

अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ११ ॥

व्याधिताःसंजातव्याधयः । स्त्रिय इति–आकुलस्त्रियः । न तृप्तिरुपलभ्यत इति । भोजनसौष्ठवादुदरपूर्तावपि मानसी तृप्तिर्नोपलभ्यते । वतोदरं पूर्णं एवं भक्ष्यमेवं भोज्यमेवं धनक्षीरर्शकराम्रकदल्यादि, न शक्नुमो भोक्तुं, किं कुर्म इति ॥ १।१४।११ ॥

॥ १।१४।१२ ॥ दीयतां दीयतामन्नं वासांसि विविधानि च ।

इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १२ ॥

तथा चक्रुरिति । दत्तवन्त इति यावत् ॥ १।१४।१२ ॥

॥ १।१४।१३ ॥ अन्नकूटाश्च वहवो दृश्यन्ते पर्वतोपमाः ।

दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १३ ॥

सिद्धस्येति । पक्कस्येति यावत् । इदमन्नकूटा इत्यन्नविशषणम् । अन्नेति लुप्तषष्ठीकमार्षम् । अन्नस्य कूटा इति यावत् ॥ १।१४।१३ ॥

॥ १।१४।१४ ॥ नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।

अन्नपानैस्सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १४ ॥

सुविहिता इति । सुविहिततृप्तिका इति यावत् ॥ १४ ॥ ॥ १।१४।१४ ॥

॥ १।१४।१५,१६ ॥ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।

अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ १५ ॥

स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।

उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १६ ॥

ब्राह्मणपरिवेषणस्य पुरुषकर्तृत्वं भोक्तृबहुत्वेन स्त्र्यसाध्यत्वात् । स्वलङ्कृता इत्यनेन शुचित्वं प्रदर्शितम् । सुमृष्टमणिकुण्डला इत्यनेन यज्ञपरिचारकसत्कारवैभवो राजकृतः प्रकाश्यते । तानिति । परिवेषयितृनिति यावत् । अन्य इति । तत्सहायभूता हति यावत् । सुमृष्टंउत्तेजितंमणिखचितं कुण्डलंकर्णाभरणविशेषो येषां ते तथा ॥ १।१४।१६ ॥

॥ १।१४।१७ ॥ कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।

प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥ १७ ॥

कर्मान्तरे–एकं सवनं समाप्य पुनस्सवनान्तरारम्भकालागमात् पूर्वस्मिन्नन्तरालकाले । हेतुपन्यासविशेषैः परस्परविजिगीषार्थाः वादाः ॥ १।१४।१७ ॥

॥ १।१४।१८ ॥ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १८ ॥

तथा तत्र संस्तरेतस्मिन्यज्ञे । ऽसंस्तरौ प्रस्तराध्वरौऽ । प्रचोदिता इति । शास्त्रीयब्रूहिप्रेष्यादिशब्दैरिति शेषः ॥ १।१४।१८ ॥

॥ १।१४।१९ ॥ नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।

सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १९ ॥

सदस्याः–“सदस्या विधिदर्शिनः” इति निघण्टुः ॥ १।१४।१९ ॥

॥ १।१४।२० ॥ प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।

तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥ २० ॥

यूपोच्छ्रये–यूपोत्क्षेपणप्रैषकाल इति यावत् । बैल्वा इतिऽतस्य विकारःऽ इत्यादकारे ऽबिल्वादिभ्यो ऽण्ऽ इत्यण् । तावन्त इति । षडिति यावत् । अपि त्वेषां विशेषः–बिल्वसहिता इति । बिल्वयूपसमीपे स्वावस्थानवन्तः, प्रयोगे ऽयं विशेषः । पर्णिनः–पर्णःपलाशः “पलाशे किंशुकः पर्णः”–पर्णः प्रकृतिभूतो येषां यूपानामिति पर्णिनः । तथेति । षट्सङ्ख्याका इति यावत् ॥ १।१४।२० ॥

॥ १।१४।२१ ॥ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ २१ ॥

श्लेष्मातकःराज्जुदालपर्यायः । न च विभ्वेकत्वं विवक्षितम् । दिष्टःसन्दिष्टः–उपदिष्ट इति यावत् । तथा देवदारुमयो ऽप्यस्ति यूपः, अपि तु नायमेकः, नापि षट्, अपि तु तत्र यज्ञे द्वावेव देवदारुयूपौ विहितौ । अपि च बाहुव्यस्तपरिग्रहौ । आहिताग्न्यादि । व्यस्तबाहुभ्यां–प्रसारितभुजाभ्यां तावदायामेन परिग्रहः–स्वीकारो ययोस्तौ तथा । एवं च “राज्जुदालमाग्निष्ठं मिनोति” इत्यनुवाकोपदिष्टा एकविंशतियूपा इहोक्ताः । “पौतुद्रवावभितो भवतः” इति श्रुतेः राज्जुदालयूपस्योभयपार्श्वतो देवदारुयूपौ भवतः । तत्रैकपार्श्ववर्तिदेवदारुयूपस्य दक्षिणतः उत्तरतश्च द्विधा विभक्तबिल्वयूपत्रिकयोस्स्थापनं । तथा तत्पार्श्ववर्तिदेवदारुयूपस्य दक्षिणोत्तरयोः खादिरत्रिकयोः ।

पलाशयूपास्त्वन्यत्र । एवं च प्रागुक्तबिल्वसमीपवर्तित्वधर्मः खादिरयूपानां सिद्धः । यथोक्तरूपतया बैल्वादियूपस्थापनं सूत्रात् ऽत्रयो बैल्वा दक्षइमतस्त्रय उत्तरतः, त्रयः खादिरा दक्षिणतस्त्रय उत्तरतःऽ इति ॥ १।१४।२१ ॥

॥ १।१४।२२ ॥ कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।

शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ २२ ॥

शास्त्रज्ञैरिति । शिल्पशास्त्रज्ञैश्चेत्यर्थः । काञ्चनालङ्कृता भवन्निति । अभवन्निति यावत् । ऽबहुलं छन्दस्यमाङ्योगे ऽपिऽ इत्यडभावः ॥ १।१४।२२ ॥

॥ १।१४।२३ ॥ एकविंशतियूपास्ते एकविंशत्यरत्नयः ।

वासोभिरेकविंशद्भिरेकैकं समलङ्कताः ॥ २३ ॥

ऽचतुर्विंशत्यङ्गुलयो ऽरत्निःऽ इति सूत्रम् ॥ १।१४।२३ ॥

॥ १।१४।२४ ॥ विन्यस्ता विधिवर्त्स्वे शिल्पिभिस्सुकृता दृढाः ।

अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २४ ॥

अश्रयः–कोटयः । श्लक्ष्णः–तक्षणसामर्थ्येन श्लक्ष्णेन–श्लक्ष्णस्पर्शवता रूपेण–स्वरूपेण समन्विताः ॥ १।१४।२४ ॥

॥ १।१४।२५ ॥ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २५ ॥

यथा विराजन्ते तथा व्यराजन्तेत्यनुकर्षः ॥ १।१४।२५ ॥

॥ १।१४।२६ ॥ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।

चितो ऽग्निर्बाह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २६ ॥

यथान्यायमिति । अर्धेष्टकामण्डलेष्टकादयश्च यथा चेत् न्यायात्–सूत्रादनपेता भवन्ति तथेत्यर्थः । कारिता इति । शिल्पविद्भिरिति शेषः । अग्निरिति श्रौतमिष्टकानां नाम । शुल्बकर्मणि कुशलैः ब्राह्मणैरग्निश्चितःकृतचयनः ॥ १।१४।२६ ॥

॥ १।१४।२७ ॥ स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।

गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः ॥ २७ ॥

एवं चित्यः–चेतव्यः ऽचित्याग्निचित्ये चऽ इति निपातः । सःअग्निः कुशलैश्चितः । कथं चित इत्यतः–गरुड इत्यादि । गरुडसंस्थानः । रुक्मपक्ष इति ।

ऽसहस्रहिरण्यशल्कैः प्रतिदिशमग्निं प्रोक्षतिऽ इति सूत्रात् रुक्मपक्षत्वम् । एवं पाङ्क्ते, अग्निःअग्न्याधारभूतो देश इत्याह कश्चित् । त्रिगुणःत्रिगुणप्रस्तारः । अत एव अष्टादशात्मकःअष्टादशप्रस्तारात्मकः सञ्चित इत्यन्वयः । ऽषट् चितयो भवन्तिऽ इति श्रुतेः श्येनः षट्चितिको भवति प्रकृतिः, अश्वमेधस्य तत्रैगुम्यविधानादष्टादशगुणात्मकः ॥ १।१४।२७ ॥

॥ १।१४।२८ ॥ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ २८ ॥

नियुक्ता इति । ऽअमुष्मै त्वा जुष्टं नियुनज्मिऽ इति देवतोद्देशेन नियुक्ताः । तदेवोक्तम्–तत्तदुद्दिश्य दैवतमिति । के ते पशव इत्यतः–उरगा इत्यादि । ऽइन्द्राय राज्ञे सूकरःऽ इत्याद्यनुवाकैस्ते प्रतिपादिताः ॥ १।१४।२८ ॥

॥ १।१४।२९ ॥ शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।

ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ २९ ॥

तथा हयश्च शामित्रेमरणविशसनादिकर्मणि नियुक्तंनियतंबद्धं ॥ १।१४।२९ ॥

॥ १।१४।३० ॥ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।

अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ ३० ॥

अश्वरत्नेषुअश्वश्रेष्ठेषूत्तमःश्रेष्ठस्तथा । नियत इत्यनुकर्षः ॥ १।१४।३० ॥

॥ १।१४।३१ ॥ कौसल्या तं हयं तत्र परिचर्य समन्ततः ।

कृपाणैर्वशशासैनं त्रिभिः परमया मुदा ॥ ३१ ॥

परिचर्यप्रोक्षणादिना संस्कृत्य । त्रिभिः कृप्राणैःशस्त्रैः एनंअश्वं परमया मुदा विशशास । ऽमहिष्यो ऽश्वस्यासिपथान् कल्पयन्तिऽ इति सूत्रम् ॥ १।१४।३१ ॥

॥ १।१४।३२ ॥ पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।

अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ ३२ ॥

पतत्रिणाअश्वेन, पुरा अश्वानां पतत्राणि सन्तीति प्रसिद्ध्या त्वेवं वादः । सुस्थितेनस्थिरेण चेतसा उपलक्षिता सती धर्मकाम्यया काम्यजन्तादकारप्रत्यये टाप् ॥ १।१४।३२ ॥

॥ १।१४।३३ ॥ होता ऽध्वर्युस्तथोद्गता हयेन समयोजयन् ।

महिष्या परिवृत्त्या च वावातामपरे तथा ॥ ३३ ॥

राज्ञो भोगात् बहिष्कृता परिवृत्तिः, राज्ञो वल्लभा महिषी, भुजिष्या वावाता, महिषीपरिवृत्तिभ्यां सह वावातां अपरे श्रेष्ठा होत्रादयो हयेन समयोजयन् ॥ १।१४।३३ ॥

॥ १।१४।३४,३५ ॥ पतत्रिणस्तस्य वपां उद्धृत्य नियतेन्द्रियः ।

ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३४ ॥

धूमगन्धं वपायास्तु जिघ्नति स्म नराधिपः ।

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ ३५ ॥

वपांचन्द्राख्यं मेदः “चन्द्रनामा मेदो ऽस्ति तदुद्धरति नास्य वपा विद्यतेऽ इति सूत्रात् । परमेणश्रौतप्रयोगचातुर्येण सम्पन्नस्तथा । निर्णुदन् जिघ्नति स्मेति योजना ॥ १।१४।३४,३५ ॥

॥ १।१४।३६ ॥ हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।

अग्नौ प्रास्यन्ति विधिवत् सवसाः षोडशर्त्विजः ॥ ३६ ॥

तानि सर्वाणि ब्राह्मणाः इत्यार्षं गुर्वक्षरम् । सवसाःवसासहिताः ॥ १।१४।३६ ॥

॥ १।१४।३७ ॥ प्लक्षसाखासु यज्ञानां अन्येषां क्रियते हविः ।

अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ ३७ ॥

अन्येषांअश्वमेधातिरिक्तयागानां पाशुकं हविः प्लक्षशाखासु क्रियतेनिधायावदीयते । अश्वमेधस्य यज्ञस्य यो ऽयमाश्वो हविर्भागः स वैतसो भवति, वैतसे कटे निधायावदातव्यो भवति । वैतस इति शैषिको ऽण्, दार्षदाः सक्तव इत्यादिवत् ॥ “वैतसः कटो भवति” इति श्रुतेः ॥ १।१४।३७ ॥

॥ १।१४।३८,३९ ॥ त्र्यहो ऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ३८ ॥

उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३९ ॥

त्र्यह इति । त्रीण्यहानि सवनीयानि यस्य स तथा । अश्वमेधस्यानेकाहस्साध्यत्वे ऽपि सवनीयानां प्राधान्यात्तद्ग्रहः । ऽअश्वमेधस्य त्रीणि सवनीयान्यहानिऽ इति कल्पसूत्रेण तन्मूलब्राह्मणैश्चाश्वमेधस्त्र्यहस्सङ्ख्यातः । ऽअच्प्रत्यन्ववऽ इत्यत्र अच् इति योगविभागे त्र्यह इति षष्ठीसमासादचि टिलोपः । तान्येव सवनीयानि त्र्यहानीति गण्यन्ते । चतुष्टोममित्यादि । ऽत्रिवृत् पञ्चदशः सप्तदशः एकविंशःऽ इति स्तोमचतुष्टययुक्तत्वादग्निष्टोमः चतुष्टोमशब्दवाच्यः । उत्तरमिति । तृतीयमिति यावत् । अप्रधानभूताः शास्त्रदर्शनाद्विहिताः बहवः क्ततवश्चात्र कारिताः ॥ १।१४।३९ ॥

॥ १।१४।४० ॥ ज्योतिष्टोमायुषी चैवमति रात्रौ विनिर्मितौ ।

अभिजिद्विश्वजिच्चैव मप्तोर्यामौ महाक्रतुः ॥ ४० ॥

के ते क्रतव इत्यतःज्योतिरित्यादि । आयुः आयुष्टोमः । अतिरात्राविति द्विवचनादतिरात्रस्य द्विः प्रयोगः । तथा अप्तोर्यामाविति ॥ १।१४।४० ॥

॥ १।१४।४१,४२ ॥ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४१ ॥

उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।

हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४२ ॥

प्राचीमित्यादि । ऽप्रतिदिशं दक्षिणां ददाति, प्राचीं होतुः दक्षिणां ब्रह्मणः प्रतीचीं अध्वर्योरुदीचीं उद्गातुःऽ इति सूत्राद्दिशो दक्षिणात्वेन विनिर्मिताः–विहिता इति यावत् । स्वयंभूविहित इति । ऽप्रजापतिरश्वमेधमसृजतऽ इति श्रुतेः ॥ १।१४।४२ ॥

॥ १।१४।४३,४४ ॥ क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।

ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥ ४३ ॥

ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।

भवानेव महीं कृत्स्नां एको रक्षितुमर्हति ॥ ४४ ॥

हियस्मात् ऋत्विग्भ्यः सर्वां धरां ददौ, तस्मात् सर्व ऋत्विजो राजानमब्रुवन् । किमब्रुवन् इत्यत्रभवानित्यादि ॥ १।१४।४३,४४ ॥

॥ १।१४।४५ ॥ न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ॥ ४५ ॥

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ।

न भूम्या कार्यमस्माकमिति । भूमेर्भोगैकप्रयोजनत्वात् न तया नः किंचित्प्रयोजनमित्यर्थः । अपि च तस्याः पालने चोरनिवारणादिद्वारके वयं न हि शक्ताः स्म । कुत इत्यतःरता इत्यादि । स्वाध्यायकरण इति । स्वाध्यायाभ्यासकर्मणीति यावत् । नापि च दण्डादावस्माकमधिकार इति शेषः । निष्क्रयमित्यादि । ऽमूल्यं वस्तु निष्क्रयश्चऽ इति पर्यायः । मया दत्तकृत्स्नभुवो कथं मूल्यं शक्यदानमित्यतः–किञ्चिदेवेति । यथाशक्ति स्वल्पमेवेति यावत् ॥ १।१४।४५ ॥

॥ १।१४।४६ ॥ मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ॥ ४६ ॥

तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ।

भूमेर्व्यतिरेकेण मया देयं किंचिद्वा किं स्यादित्यतः–मणिरत्नमित्यादि । मणिरत्नंमणिश्रेष्ठं अनर्घरत्नमिति यावत् । तस्य राजैकार्हत्वात् पक्षान्तरं–सुवर्णं वेत्यादि । समुद्यतमिति । उपस्थितमिति यावत् ॥ १।१४।४६ ॥

॥ १।१४।४७,४८ ॥ एवमुक्तो नरपतिः ब्राह्मणैर्वेदपारगैः ॥ ४७ ॥

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।

दशकोटीस्सुवर्णस्य रजतस्य चतुर्दश ॥ ४८ ॥

शतसहस्राणि दशेति । दशलक्षमिति यावत् । चतुर्दशेति । चतुर्दशकोटीरिति यावत् ॥ १।१४।४७,४८ ॥

॥ १।१४।४९ ॥ ऋत्विजस्तु ततस्सर्वे प्रददुः सहिता वसु ।

ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ ४९ ॥

ततस्सर्वे ऋत्विजः सहिताः सर्वं वसु दक्षिणाप्राप्तं धनजातमङ्गीकृत्य दानाय ऋश्यशृङ्गवसिष्ठाभ्यां ददुः ॥ १।१४।४९ ॥

॥ १।१४।५० ॥ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।

सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ५० ॥

न्यायतः प्रविभागं कृत्वेति योजना । वसिष्ठादिद्वारा विभज्य गृहीत्वेति यावत् । सुप्रीतमनसः सन्तो राजानं प्रति, सर्वे वयं भृशं मुदिता इत्यूचुः ॥ १।१४।५० ॥

॥ १।१४।५१ ॥ ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।

जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ ५१ ॥

प्रसर्पकेभ्यो ब्राह्मणेभ्य इति । परिचारकद्विजेभ्य इति यावत् । जाम्बूनदं हिरण्यमिति । दशवर्णसुवर्णमिति यावत् ॥ १।१४।५१ ॥

॥ १।१४।५२ ॥ दरिद्राय द्विजायाथ हस्ताभरणमृत्तमम् ।

कस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ ५२ ॥

अथ सर्वदक्षिणादानानन्तरमागताय दरिद्राय याचमानाय दातव्यवस्त्वन्तराभावात् स्वकमेव हस्ताभरणमेव ददौ ॥ १।१४।५२ ॥

॥ १।१४।५३,५४,५५ ॥ ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।

प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ ५३ । ।

तस्याशिषो ऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।

उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ ५४ ॥

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।

पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ॥ ५५ ॥

तत इति । तेन च हस्ताभरणस्य दानेनेत्यर्थः । विविधाशिष इति । ऽआब्रह्मन्ऽ ऽआयुष्मन्तम्ऽ इत्याद्याः । उदारःउन्नतचित्तः । पर्यायाश्रयणेन गृह्यते । अत एव स्वर्नयनं स्वर्गप्रापकं दुस्तरंप्राकृतेन तरितुमशक्यं, अप्राप्यपारमिति यावत् ॥ १।१४।५३,५४,५५ ॥

॥ १।१४।५६।५७ ॥ ततो ऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।

कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ ५६ ॥

तथेति स राजानमुवाच द्विजसत्तमः ।

भविष्यति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायमे बालकाण्डे चतुर्दशः सर्गः

पूर्वं यज्ञार्थं प्रसवार्थं स्वर्गार्थं च वृत ऋश्यशृङ्गः । तत्र यज्ञस्तद्वारा स्वर्गश्च सिद्धः । ततस्तत्सिद्ध्यनन्तरं अवशिष्टार्थे युङ्क्त इत्युच्यते–तत इत्यादि । कुलं वर्धयतीति कुलवर्धनम्, तादृशं कर्मेति यावत् ॥ सम(५७)मानः ॥ १।१४।५६,५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्दशः सर्गः