०१३ यज्ञशाला-प्रवेशः

अथ त्रयोदशः सर्गः

[अश्वमेधदीक्षा]

॥ १।१३।१ ॥ पुनः प्राप्ते वसन्ते तु पूर्णस्संवत्सरो ऽभवत् ।

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

अथ ऽसंवत्सरान्ते दीक्षेतऽ इति सूत्रात् पूर्ववसन्तविसृष्टाश्वस्य पुनः संवत्सरान्ते प्राप्ते दीक्षादिप्रवृत्तिरुपदिश्यते–पुनरित्यादि । पूर्णस्संवत्सरो ऽभवदिति । पूर्ववसन्ते ऋत्विजो वरित्वा ऽइह धृतिस्स्वाहेह विधृतिस्स्वाहेह रन्तिस्स्वाहेह रमतिस्स्वाहेति चतुर्षु पत्सु जुहोतिऽ इति विहरन्तीकर्मानुष्ठानपूर्वं ऽभूरसि भूवे त्वा भव्याय त्वा भविष्यतेत्युत्सृजति सर्वत्वायऽ इति विसृष्टाश्वस्येति शेष । प्रसवार्थमित्यादि । ऽप्रजापतये त्वा जुष्टं प्रोक्षामि प्रजापतिं वा एष ईप्सतीत्याहुः यो ऽश्वमेधेन यजतेऽ इति श्रुतेः अश्वमेधस्य प्राजापत्यत्वात् पुत्रकामेष्ट्याश्च प्रजापतिदेवताकत्वात् प्रसवफलपाश्चात्ययागफलसिद्धिशेषतया भगवन्तं प्रजापतिं स्वाभिलषितं पुत्रं प्रदास्यन्तं हयमेधेन यष्टुं पुरोहितस्य वसिष्ठस्यान्तिकं गत इत्यर्थः ॥ १।१३।१ ॥

॥ १।१३।२ ॥ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।

अब्रवीत् प्रश्चितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

वसिष्ठं चेति चकारात् अरुन्धती चेत्यर्थः । प्रतिपूज्येति–उपदाविशेषैरिति शेषः । द्विजोत्तमं वाक्यमब्रवीदिति द्विकर्मकत्वात् ॥ १।१३।२ ॥

॥ १।१३।३ ॥ यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव

यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

यज्ञांगेषुअश्वादिष्विति यावत् ॥ १।१३।३ ॥

॥ १।१३।४ ॥ भवान् स्निग्धस्सुहृन्मह्यं गुरुश्च परमो महान् ।

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

स्निग्धस्सुहृदिति । सुहृदः स्निग्धत्वाव्यभिचारात् साधीयस्त्वं स्नेहस्य गम्यते । वोढव्यो भवतेति । प्राप्तकाले कृत्यप्रत्ययः, ऽकृत्यानां कर्तरि वाऽ इति पाक्षिकी कर्तरि तृतीया । उद्यतः । विसृष्ट्वा पुनः प्राप्ताश्वकत्वात् प्राप्तोद्योगकाल इत्यर्थः ॥ १।१३।४ ॥

॥ १।१३।५ ॥ तथेति च स राजानमब्रवीत् द्विजसत्तमः ।

करिष्ये सर्वमेवैतत् भवता यत्समर्थितम् ॥ ५ ॥

समर्थितमितिसम्यक् प्रार्थितमिति यावत् ॥ १।१३।५ ॥

॥ १।१३।६ ॥ ततो ऽब्रवीत् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ ६ ॥

स्थापत्येस्थपतिःरथकारः, तस्य भावः कर्म वा स्थापत्यम्, तत्र निष्ठिताः । कर्मप्रतिपादकमधमत्यादिशास्त्रे निष्ठिताः इति यावत् ॥ १।१३।६ ॥

॥ १।१३।७ ॥ कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि ।

गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

कर्मणामन्तःसमाप्तिर्यैस्ते तथा, ऽअत इनि ठनोऽ इति ठन्, भृतकानिति यावत् । शिल्पंचित्रादि । वर्धकीन्सामान्यतक्षाशिल्पिनश्चर्मकारादयः । नदनर्तकानिति । सूत्रधारा नृत्तकर्तारश्चेत्यर्थः ॥ १।१३।७ ॥

॥ १।१३।८ ॥ तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

समीहन्तामिति । अब्रवीदिति पूर्वेणान्वयः ॥ १।१३।८ ॥

॥ १।१३।९ ॥ इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९ ॥

इष्टकेति जात्या । बहुसाहस्रीबहुसहस्रसङ्ख्येया । उपकार्याराजसद्म, ऽसौधो ऽस्त्री राजसदनमुपकार्योपकारिकाऽ इति निघण्टुः । स्वार्थिको ऽण् । बहुगुणान्विताःबहुन्नपानाद्युपकरणयुक्ताः ॥ १।१३।९ ॥

॥ १।१३।१० ॥ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ २० ॥

सुनिष्ठिताःमहावातवर्षादिनिवारणक्षमतया सुप्रतिष्ठिताः ॥ १।१३।१० ॥

॥ १।१३।११,१२ ॥ तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ ११ ॥

तथा जानपदस्यापि जनस्य बहुशोभनम् ।

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ॥ १२ ॥

सत्कृत्य देयम्–परलोकप्रयोजनबुद्ध्या देयम् । न तु लीलयेति । केवलमुत्सवमात्रबुद्ध्येत्यर्थः ॥ १।१३।११,१२ ॥

॥ १।१३।१३,१४ ॥ सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ १३ ॥

यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ १४ ॥

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।

विशेषेणापि पूजा कार्येति । विशिष्टतास्बूलचन्दनसुवस्त्रादिदानेनेति शेषः । यथाक्रममिति । ज्येष्ठानुक्रमेणेत्यर्थः । सर्वे ते चेत्यादि । सर्वे भृतकाः । वसुधनम् । वस्वादिभिर्यथा सम्भृतास्स्युस्तथा कार्यम् ॥ १।१३।१३,१४ ॥

॥ १।१३।१५ ॥ यता सर्वं सुविहितं न किञ्चित्परिहीयते ॥ १५ ॥

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।

सर्वमिति । उक्तोपकरणजातमिति यावत् ॥ १।१३।१५ ॥

॥ १।१३।१६,१७ ॥ ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १६ ॥

यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।

यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते ॥ १७ ॥

यथोक्तं तत्सुविहितम्, अतः परं यदुक्तं भविष्यति तच्च यथोक्तं करिष्यामः ॥ १।१३।१६,१७ ॥

॥ १।१३।१८ ॥ ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १८ ॥

तत इत । द्विजातिनियोजनानन्तरमित्यर्थः ॥ १।१३।१८ ॥

॥ १।१३।१९ ॥ ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९ ॥

सर्वदेशेष्विति । स्थितानिति शेषः ॥ १।१३।१९ ॥

॥ १।१३।२०,२१ ॥ मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ २० ॥

तमानय महाभागं स्वयमेव सुसत्कृतम् ।

पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २१ ॥

वेदेषु निष्ठितं स्वयमेवेति । न तु मनुष्यमुखेन । कुत एवं विशेषः ? कुतश्च तदानयनस्य प्रथममुपदेशः ? इत्यतः–पूर्वेत्यादि । पूर्वकालमारभ्यैवास्मद्राज्ञा यौतादिसर्वसम्बन्धवानिति ज्ञात्वा तत एव हेतोः पूर्वं तस्यानयनं ते ब्रवीमि ॥ १।१३।२०,२१ ॥

॥ १।१३।२२,२३ ॥ तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।

वयस्यं राजसिह्मस्य स्वयमेवानयस्व ह ॥ २२ ॥

तथा केकयराजानं वृद्धं परमधार्मिकम् ।

श्वशुरं राजसिह्मस्य सपुत्रं त्वमिहानय ॥ २३ ॥

केकयराजानमिति । सामासान्तस्यानित्यात्वाट्टजभावः ॥ १।१३।२३ ॥

॥ १।१३।२४ ॥ अङ्गेश्वरं महाभागं रोमपादं समीपगम् ।

वयस्यं राजसिह्मस्य समानय यशस्विनम् ॥ २४ ॥

समीपगतमिति । आसन्नदेशवर्तिनमिति यावत् ॥ १।१३।२४ ॥

॥ १।१३।२५ ॥ प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ २५ ॥

प्राचीनान् । ऽविभाषाञ्चेःऽ इति स्वार्थे खः । प्राग्देशवर्तिन इति यावत् । सिन्धौ सौवीरे सौराष्ट्रे च भवाः, ढ आर्षः । सिन्धुसौवीरसौराष्ट्रेयान् ॥ १।१३।२५ ॥

॥ १।१३।२६,२७,२८ ॥ सन्ति स्विग्धाश्च ये चान्ये राजानः पृथिवीतले ।

तानानय यथाक्षिप्रं सानुगान् सहबान्धवान् ॥ २६ ॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।

व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ २७ ॥

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २८ ॥

स्वयन्तु त्वरितो भूत्वा समानेतुमिति । वसिष्ठेन विशिष्योक्तानिति शेषः ॥ १।१३।२६२८ ॥

॥ १।१३।२९ ॥ ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ २९ ॥

ते चेति । पूर्वनियुक्ता इत्यर्थः । यज्ञ इति निमित्तसप्तमी ॥ १।१३।२९ ॥

॥ १।१३।३० ॥ ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ।

अवज्ञया न दातव्यं कस्यचिल्लीलया ऽपि वा ॥ ३० ॥

अवज्ञया कृतं हन्यात् दातारं नात्र संशयः ।

अवश्यशिक्षणीयांशे पुनश्च शिक्षयतिअवज्ञयेत्यादि । कुत एवमिहातिवर्तत इत्यत्रअवज्ञयेत्यादि ॥ १।१३।३० ॥

॥ १।१३।३१ ॥ ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३१ ॥

बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ।

तत इति । सुमन्त्रगमनानन्तरमित्यर्थः । रत्नानीति । मणिमुक्तादिरत्नविचित्राभरणाम्बरचन्दनकुङ्कुमकर्पूराद्युत्तमवस्तूनीत्यर्थः ॥ १।१३।३१ ॥

॥ १।१३।३२,३३ ॥ ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् ॥ ३२ ॥

उपयाता नरव्याघ्र राजानस्तव शासनात् ।

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥ ३३ ॥

यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ।

यज्ञियमिति । यज्ञमर्हति, ऽयज्ञर्त्विग्भ्यां घखञौऽ इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ १।१३।३३ ॥

॥ १।१३।३४,३५ ॥ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३४ ॥

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३५ ॥

अन्तिकादिति । ऽदूरान्तिकार्थेभ्यो द्वितीया चऽ इति चकारेण पञ्चमीसमुच्चयः, अन्तिकेन वर्तमानं यज्ञायतनंशालामित्यर्थः । मनसेवेति क्षिप्रसिद्धत्वे उपकरणसौष्ठवे च दृष्टान्तः ॥ १।१३।३५ ॥

॥ १।१३।३६३८ ॥ तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।

शुभे दिवसनक्षत्रे नियातो जगतीपतिः ॥ ३६ ॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ३७ ॥

यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि ।

श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोदशः सर्गः

आरभन्निति छान्दसः । यज्ञवाटगतास्सर्वे यजमानर्त्विगादयः स्वीयं स्वीयं यज्ञकर्म यथाविधि यताकल्पसूत्रं यथाशास्त्रं, शास्त्रंमीमांसा, तच्चानतिक्रम्यारभन्तेत्यर्थः । जाल(३८)मानः सर्गः ॥ १।१३।३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोदशः सर्गः