०१२ अश्वमेधारम्भः

अथ द्वादशः सर्गः

[अश्वमेधसंभारः]

॥ १।१२।१ ॥ ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।

वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ॥ १ ॥

एवमानीतादृश्यशृङ्गात् पुत्रप्राप्तौ निश्चितायां तस्याश्च तदसाधारणफलकपुत्रकामेष्टिसाध्यत्वात्तत्फलस्य च पापप्रतिबन्धे प्रतिबन्धस्यावश्यकत्वात् ऽ सर्वं पाप्मानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते" इति श्रुतेः सार्वभौमाधिकारिकाश्वमेधेनैव तस्य सार्वभौमस्य सर्वपापनिवृत्तेस्साध्यत्वात् ऋश्यशृङ्गप्रसङ्गात् प्रागेव च सामान्यतस्तत्तत्प्रकृतेस्संक्षिप्तत्वाच्च प्रथमं प्रथमसङ्कल्पिताश्वमेधेन यजनप्रवृत्तिः–ततः काल इत्यादि । बहुतिथेबहूनां पूरणो बहुतिथः । ऽतस्य पुरणेऽ इति ढट्, तस्मन् परे ऽबहुपूगणऽ इत्यादिनाङ्गस्य तिथुगागमः बहुकाल इति यावत् । अतीत इति शेषः । कस्मिंश्चिद्वसन्त इति योजना ॥ १।१२।१ ॥

॥ १।१२।२ ॥ ततः प्रसाद्य शिरसां तं विप्रं देववर्णिनम् ।

यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ॥ २ ॥

देववर्णिनंदेवतेजसम् । सन्तानार्थं यज्ञायेति । सन्तानप्रयोजनमुद्दिश्य तच्छेषतया अश्वमेधयज्ञार्थमित्यर्थः ॥ १।१२।२ ॥

॥ १।१२।३,४ ॥ तथेति च स राजानमुवाच च सुसत्कृतः ।

सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥

ततो राजा ऽब्रवीत् सूतं ब्राह्मणान् वेदपारगान् ।

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ ४ ॥

ततो राजा सूतमब्रवीत् । किमब्रवीदित्यतः–ब्राह्मणेत्यादि । हे सुमन्त्र, ब्राह्मणान् वेदपारगान् ऋत्विगादीश्च आवाहयेति ॥ १।१२।३,४ ॥

॥ १।१२।५,६ ॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।

पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ॥ ५ ॥

ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।

समानयत् स तान् सर्वान् समर्थान् वेदपारगान् ॥ ६ ॥

ततः सुमन्त्र इत्यादिर्गतार्थः ॥ १।१२।६ ॥

॥ १।१२।७१४ ॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।

ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥ ९ ॥

ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।

वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ १० ॥

ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृषतिं तदा ।

सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

सर्वथा प्राप्स्यसे पुत्रांश्चतुरो ऽमितविक्रमान् ।

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥

ततः प्रीतो ऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।

अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ १३ ॥

गुरूणां वचनाच्छीघ्रं सम्भारास्सम्भ्रियन्तु मे ।

समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १४ ।

सम्भ्रियन्तुसम्भारोपस्थानं कुर्वन्तु । छान्दसं परस्मैपदम् ॥ १।१२।७१४ ॥

॥ १।१२।१५२१ ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६ ॥

छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः ।

विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।

तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥

तथेति च ततस्सर्वे मन्त्रिणः प्रत्यपूजयन् ।

पार्थिवेन्द्रस्य तद्वाक्यं यथा ऽ ऽज्ञप्तमकुर्वत ॥ १९ ॥

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥

गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः ॥

विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वादशः सर्गः

गतानामित्यादि । गतेषु द्विजातिष्विति यावत् । संवत्सरान्ते यागार्थं अश्वं विसर्जयित्वेति शेषः । ऽषष्ठी धानादरेऽ इति भावलक्षणमात्रे ऽपि छन्दसि षष्ठी । तथा ऽन्यत्रापि ॥ १।१२।१५२१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वादशः सर्गः