अथ एकादशः सर्गः
[दशरथेन स्वनगरं प्रति ऋश्यशृङ्गानयनम्]
॥ १।११।१ ॥ भूय एव हि राजेन्द्र श्रुणु मे वचनं हितम् ।
यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १ ॥
एवं रोमपादप्रसङ्गेन दशरथस्य ऋश्यशृङ्गात् पुत्रप्राप्तिकथां ब्रह्मपुत्रीयामुक्त्वा अथ प्राधान्यात् ऋश्यशृङ्गाद्दशरथस्य पुत्रप्राप्तिकथा च कालान्तरोक्ता ब्रह्मपुत्रीया ऽस्तीति सुमन्त्रो ऽनेकयुगवृद्धो राज्ञः ऋश्यशृङ्गानयनमेव साक्षात्पुत्रप्राप्तिसाधनमिति स्थैर्यायाह–भूय इत्यादि । स देवप्रवर इति । यः पूर्वं रोमपादप्रसङ्गेन त्वत्पुत्रोपायमुक्तवान् स ब्रह्मपुत्र इत्यर्थः । कथायामिति । कालान्तरीयायामिति शेषः ॥ १।११।१ ॥
॥ १।११।२ ॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥
सत्यप्रतिश्रवःसत्यप्रतिज्ञः ॥ १।११।२ ॥
॥ १।११।३ ॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥
अङ्गराजेनरोमपादेन । तस्येति । दशरथस्येति यावत् । येनाङ्गराजेन दशरथस्य सख्यं भविष्यति, अस्याङ्गराजस्य शान्ताख्या कन्या च भविष्यति ॥ १।११।३ ॥
॥ १।११।४ ॥ पुत्रस्त्वङ्गाधिराजस्य रोमपाद इति श्रुतः ।
अङ्गराजं दशरथो गमिष्यति महायशाः ॥ ४ ॥
किंनामको ऽसावङ्गदेशाधिपतिः राजा ? येन दशरथस्य सख्यमित्यत्रोक्तम्–पुत्र इत्यादि । अङ्गस्यअङ्गदेशाधिपतेः राज्ञः पुत्रः, दशरथसखा च रोमपाद इति श्रुतः । तं रोमपादं स्वमित्रं गमिष्यतीति । ऋश्यशृङ्गानयनार्थमिति शेषः ॥ १।११।४ ॥
॥ १।११।५ ॥ अनपत्यो ऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।
आहरेत त्वया ऽ ऽज्ञप्तः सन्तानार्थं कुलस्य च ॥ ५ ॥
तदेव प्रतिपाद्यते–अनपत्यो ऽस्मीत्यादि । धर्मात्मा धर्मदेवतावतारमूर्तिः । शान्तायास्त्वत्पुत्र्याः भर्ता त्वद्गृहवासी, ऋश्यशृङ्ग इति यावत् । एवं स्थिते पाङ्क्ते पूर्वापराविरुद्धे कश्चित्–कन्या चास्येत्यत्र अस्य दशरथस्य शान्ताख्या भविष्यतीत्यवोचत् । एवं मृषा प्रलप्य तत्समर्थनाय भूयो ऽनेकमृषा ऽवोचत् । प्रलपतु नाम । आहरेतेति प्रार्थने लिङ् ॥ १।११।५ ॥
॥ १।११।६ ॥ श्रुत्वा राज्ञो ऽथ तद्वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥
मनसा स विचिन्त्येति । दशरथस्यास्मज्जामात्रा यज्ञप्रवर्तनमसहायेन दुश्शकम् । अतो मम दौहित्रसहितमेव जामातरं प्रेषयिष्यामि इति निश्चित्य पुत्रवन्तं शान्ताभर्तारं प्रदास्यते ॥ १।११।६ ॥
॥ १।११।७ ॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥
तं यज्ञमिति । पुत्रकामेष्टिरूपमिति यावत् ॥ १।११।७ ॥
॥ १।११।८ ॥ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥
वरयिष्यतीति । वरःवरणम् । ऽतत्करोतिऽ इति णिच् । दिलोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः ।
एवं पाङ्क्ते, शाब्दिकमानी कश्चित् ऽआधृषाद्वाऽ इति णिच्, प्रयोगपरम्परावशात् वृद्ध्यभाव इत्यजल्पत् ॥ १।११।८ ॥
॥ १।११।९ ॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः ।
लभते च स तं कामं विप्रमुख्याद्विशां पतिः ॥ ९ ॥
किंविषयकं वरणमित्यतो–यज्ञार्थम् । नापुत्रस्य लोको ऽस्तीति श्रुतेः । प्रसवःस्वर्गद्वारम् ॥ १।११।९ ॥
॥ १।११।१०,११ ॥ पुत्राश्चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥
पूर्वंविभक्तिप्रतिरूपकमव्ययम्, पूर्वस्मिन् काले । कस्मिन् पूर्वस्मिन् काले इत्यतः–पुरा देवयुग इति । कृतयुग इति यावत् ॥ १।११।१०,११ ॥
॥ १।११।१२ ॥ स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ॥ १२ ॥
स्वयमेवेति । न पुरोहितादिद्वारा ॥ १।११।१२ ॥
॥ १।११।१३ ॥ अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥
अनुमान्य–कृतानुमतिकं कृत्वा । उक्तप्रक्रियः । पुरोहिते मयि स्थिते कथं यज्ञार्थं अन्यानयनमिति शङ्काप्रसङ्गात्तदनुमतिस्सुमन्त्रोक्तवृत्तान्तकथनद्वारा । यत्रेति । रोमपादसमीप इत्यर्थः ॥ १।११।१३ ॥
॥ १।११।१४,१५,१६ ॥ वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनैः ।
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥
ततो राजेति । रोमापद इति यावत् । तस्य वै राज्ञ इति । दशरथस्येति यावत् ॥ १।११।१४,१५,१६ ॥
॥ १।११।१७ ॥ रोमपादेन चाख्यतामृषिपुत्राय धीमते ।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥
रोमपादेन स्वस्य दशरथस्य च सख्यंसखित्वं यौतादिसम्बन्धकं चैव ऋषिपुत्रायाख्यातमभूत् । तदेत्यादि । श्रवणानन्तरकाले तं–दशरथं ऋषिपुत्रः प्रत्यपूजयत् ॥ १।११।१७ ॥
॥ १।११।१८ ॥ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ १८ ॥
तेन सहेति । रोमपादेन सहेति यावत् ॥ १।११।१८ ॥
॥ १।११।१९ ॥ शान्ता तव सुता राजन् सहभर्त्रा विशांपते
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥
शान्ता तव सुता राजन्हे रोमपाद एवं स्पष्टे दशरथस्य कन्या शान्तेति प्रलपितवन्तं किं ब्रूमः ॥ १।११।१९ ॥
॥ १।११।२०,२१ ॥ तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥
सह भार्यया प्रतिश्रुत्यतथा भवत्विति श्वशुरं प्रतिश्रुत्य, नृपंदशरथं च प्रति ततास्त्वित्याह ॥ १।११।२०,२१ ॥
॥ १।११।२२,२३,२४ ॥ तावन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ २२ ॥
ततस्सुहृदमापृच्छय प्रस्थितो रघुनन्दनः ।
पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ २३ ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
धूपितं सिक्तसंमृष्टं पताकाभिरलङ्कृतम् ॥ २४ ॥
स्वलङ्कृतमित्यस्यैव प्रकारकथनं–धूपितमित्यादि । इतजन्तो ऽयम् । पूर्वं सिक्तः पश्चात्संमृष्टः तथा । ऽपूर्वकालऽ इति समासः ॥ १।११।२२,२३,२४ ॥
॥ १।११।२५,२६,२७ ॥ ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २५ ॥
ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६ ॥
ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥
द्विजमिति । ऋश्यशृङ्गमिति यावत् । प्रवेश्यमानं सत्कृत्येति । नगरालङ्कारचतुरङ्गबलोपेता भ्युत्थानादिनेति शेषः । इन्द्रसहायार्थं कर्म यस्य स तथा एतेन राज्ञस्समग्रमहिमा सूचितः ॥ १।११।२८ ॥
॥ १।११।२९ ॥ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।
कृतकृत्यं तदा ऽ ऽत्मानं मेने तस्योपवाहनात् ॥ २९ ॥
उपवाहनात्स्वसमीपानयनात् ॥ १।११।२९ ॥
॥ १।११।३०,३१ ॥ अन्तःपुरस्त्रियस्सर्वाः शान्तां दृष्ट्वा तथा ऽ ऽगताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्या ऽ ऽनन्दमुपागमन् ॥ ३० ॥
पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित्कालं सहद्विजा ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकादशः सर्गः
–
सहद्विजेति । सहभर्तृकेति यावत् ॥ १।११।३१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकादशः सर्गः