०१० ऋष्यशृङ्गकथा

अथ दशमः सर्गः

[ऋश्यशृङ्गोपाख्यानम्]

॥ १।१०।१ ॥ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा ।

यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिस्सह ॥ १ ॥

अथ पुरोहिताशक्यानयनः कथं गणिकाभिरानीत इति असम्भावनया तदानयनप्रकारे चोदिते यथाश्रुततत्त्वकथनेन तं सम्भावयति सुमन्त्रः–सुमन्त्र इत्यादि । चोदित इति । विस्तरेणानयनप्रकारकथनायेति शेषः । मन्त्रिभिस्सह संमन्त्र्य रोमपादेन यथर्श्यशृङ्गस्त्वानीतः, तं प्रकारं मे मम सकाशात् शृण्विति योजनार्थः ॥ १।१०।१ ॥

॥ १।१०।२ ॥ रोमपादमुवाचेदं सहामात्यः पुरोहितः ।

उपायो निरपायो ऽयमस्माभिरभिचिन्तितः ॥ २ ॥

रोमेत्यादि । सहामात्यः पुरोहितो रोमपादमिदमुवाच । किमुवाचेत्यतः–उपाय इत्यादि ॥ १।१०।२ ॥

॥ १।१०।३ ॥ ऋश्यशऋङ्गो वनचरः तपस्स्वाध्यायने रतः ।

अनभिज्ञस्स नारीणां विषयाणां सुखस्य च ॥ ३ ॥

ऋश्येत्यादि । नारीणां विषयाणामिति व्यधिकरणे सम्बन्धमात्रे षष्ठ्यौ ॥ १।१०।३ ॥

॥ १।१०।४ ॥ इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।

पुरमानाययिष्यामः क्षिप्रं चाध्यवसीतयाम् ॥ ४ ॥

इन्द्रियार्थाः–द्रव्यवस्त्रगीत्यादयः । अध्यवसीयतामिति । अस्मदुक्तार्थकरण इति शेषः ॥ १।१०।४ ॥

॥ १।१०।५ ॥ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः ।

प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ ५ ॥

किं मया ऽनुष्ठयमित्यतो–गणिका इत्यादि । सत्कृताःविचित्राम्बराभरणान्नपानकृतोपचारा गणिका इति योजना ॥ १।१०।५ ॥

॥ १।१०।६ ॥ श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।

पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ॥ ६ ॥

वारमुख्यास्तु तच्छुत्वा वनं प्रविविशुर्महत् ।

राजा पुरोहितं तथेति प्रत्युवाचेति । मन्नियोगात् भवानेव तथा अनुतिष्ठेत्युक्तवानित्यर्थः । अत्यल्पविषयत्वाद्राज्ञ एवंवादः । अथ पुरोहितस्य च द्विजत्वात् गणिकादिव्यवहारो ऽनुचित इति सो ऽपि मन्त्रिणः प्रत्युवाच गणिकानियोगं । ते मन्त्रिणस्तथा चक्रुः साक्षाद्गणिकाः प्रैरयन् तच्छुत्वेति यावत् ॥ १।१०।६ ॥

॥ १।१०।७,८ ॥ आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥ ७ ॥

ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।

पितुस्स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ ८ ॥

यद्वनं प्रविविशुः, अस्मिन् वने आश्रमस्यविभण्डकाश्रमस्य अविदूरे स्थित्वा धीरत्वादिगुणकस्य ऋषिपुत्रस्य दर्शने यत्नं कुर्वन्ति स्म । पितुरिति । उपलालनभेदैरिति शेषः ॥ १।१०।७,८ ॥

॥ १।१०।९ ॥ न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।

स्त्री वा पुमान् वा यच्चान्यत् सर्वं नगरराष्ट्रजम् ॥ ९ ॥

नगरजं सत्वं उत्तमाश्वादिकं । राष्ट्रजं सत्वं ग्रामसूकरकुक्कुटादिः ॥ १।१०।९ ॥

॥ १।१०।१० ॥ ततः कदाचित्तं देशमाजगाम यदृच्छया ।

विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १० ॥

कदाचिदिति । दैवगत्येति । शेषः । तं देशमिति । वारस्त्रीसञ्चारप्रदेशमित्यर्थः ॥ १।१०।१० ॥

॥ १।१०।११,१२ ॥ ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।

ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ ११ ॥

कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् ।

एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १२ ॥

कस्त्वमिति । किं जातिः कस्य पुत्र इत्यर्थः । किं वर्तसे इति । किं नामधेयो वर्तस इत्यर्थः । अपि च विजने एकस्सन् कथं चरसीति प्रश्नत्रयम् ॥ १।१०।११,१२ ॥

॥ १।१०।१३ ॥ अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।

हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १३ ॥

अदृष्टरूपाः । इतः प्रागदृष्टैवंरूपाः, अपि च कमनीयरूपाः तास्त्रियः । तेन वने दृष्टा इति शेषः ॥ १।१०।१३ ॥

॥ १।१०।१४,१५ ॥ पिता विभण्डको ऽस्माकं तस्याहं सुत औरसः ।

ऋश्यशृङ्गं इति ख्यातं नाम कर्म च मे भुवि ॥ १४ ॥

इहाश्रमपदे ऽस्माकं समीपे शुभदर्शनाः ।

करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १५ ॥

इहवने समीपे वर्तमाने अस्माकं आश्रमपदे वः पूजां करिष्ये इत्यनेन नाहमेकाकी विजने वने पिशाचवत् सञ्चरामि, अपि तु समातापित्रकस्य मे स्वीयं स्थानमेवेत्युक्तं भवति । इहाश्रमपदो ऽस्माकमिति पाठो ऽस्तीत्यभिप्रेत्य तत्राश्रमपद इति लिङ्गव्यत्यय इत्यन्ये । तदा तु व्यक्तमेव तृतीयप्रश्नोत्तरम् । अत्र सर्वेषामिति निर्देशस्त्वविवक्षितस्त्रीत्ववस्तुमात्राभिप्रायेण । एतेन स्त्रीविकारापरिज्ञानं

द्योतितम् ॥ १।१०।१४,१५ ॥

॥ १।१०।१६ ॥ ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै ।

तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ताः ॥ १६ ॥

असेः अनुप्रयोगवत् भूभावाभावश्छान्दसः ॥ १।१०।१६ ॥

॥ १।१०।१७,१८ ॥ आगतानां ततः पूजां ऋषिपुत्रश्चकार ह ।

इदमर्ध्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ १७ ॥

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।

ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ १८ ॥

सर्वा एव समुत्सुका इति । चिरं तदालापसमुत्सुका एवेति यावत् । ऋषेः–विभण्डकात् ॥ १।१०।१७,१८ ॥

॥ १।१०।१९ ॥ अस्माकमपि मुख्यानि फलानीमानि वै द्विज

गृहाम प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ १९ ॥

मुख्यानीति । प्रशस्तास्वादवन्तीति यावत् । फलानीति प्रतारणार्थं मोदका एवोच्यन्ते । गृहाणप्रतीति । ऽछन्दसि परे ऽपिऽ इति प्रयोगः, प्रतिगृहाणेति यावत् । ते भद्रंभक्षणायातिमधुरम् । अतो भक्षयस्व, मा चिरं–विलम्बं मा कुरु ॥ १।१०।१९ ॥

॥ १।१०।२० ॥ ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।

मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ २० ॥

समालिङ्ग्य । स्पर्शतो वशीकरणार्थमिति शेषः । हर्षसमन्विता इति–उभयथापि बालब्रह्मचारितस्सुन्दरालिङ्गनप्राप्त्या स्वकार्यानुकूलस्पर्शसिद्ध्या च ॥ १।१०।२० ॥

॥ १।१०।२१ ॥ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।

अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ २१ ॥

वने नित्यनिवासिनां अनास्वादितपूर्वाणि, ऽपूरणगुणऽ इति सुहितार्थयोगजषष्ठ्यास्समासनिषेधादेव ज्ञापकात् तृतीयार्थे षष्ठी, पूर्वमनास्वादितानि । सुप्सुपेति समासः । फलानीति मन्यते स्मेति योजना ॥ १।१०।२१ ॥

॥ १।१०।२२ ॥ आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।

गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ २२ ॥

व्रतचर्यामिति । मिथ्यैवगत्वास्माभिः किंचिद्व्रतमनुष्ठेयमितिव्रतानुष्ठानं तस्य निवेद्य तस्मात् अपदेशात् व्याजात् । तस्य पितुः ऋषेः विभण्डकात् भीतास्तास्सत्रियो गच्छन्ति स्म ॥ १।१०।२२ ॥

॥ १।१०।२३ ॥ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।

अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ २३ ॥

अस्वस्थहृदयःअप्रसन्नचित्तश्चासीत् । हियस्मात् दुःखंतादृशजैह्वचाक्षुषादिविषयसुखविश्लेषजं संपरिवर्तते स्म ॥ १।१०।२३ ॥

॥ १।१०।२४ ॥ ततो परेद्युस्तं देशं आजगाम स वीर्यवान् ।

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः ॥ २४ ॥

तत एव हेतोः । अपरेद्युश्च तं देशं जगाम । तमिति किमित्यतःमनोज्ञा इत्यादि ॥ १।१०।२४ ॥

॥ १।१०।२५ ॥ दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।

उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वचः ॥ २५ ॥

एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् ।

चित्राण्यत्र बहूनि स्युः मूलानि च फलानि च ।

तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ २६ ॥

एव विधिरितिस्वादिष्टभक्षणादिरूपः ॥ १।१०।२६ ॥

॥ १।१०।२७ ॥ श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् ।

गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ २७ ॥

हृदयङ्गममिति । खच्प्रकरणे ऽगमेस्सुप्युपसंङ्ख्यानम्ऽ इति खच् । तं च निन्युरिति । गङ्गायां पूर्वस्थापितं नावमारोप्य प्रवहणेनैवाङ्गदेशं निन्युरिति भारते प्रसङ्गात् ॥ १।१०।२७ ॥

॥ १।१०।२८ ॥ तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ।

ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ २८ ॥

तत्र चाङ्गदेशे तस्मिन्विप्रे आनीयमाने तु देवो ववर्ष ॥ १।१०।२८ ॥

॥ १।१०।२९ ॥ वर्षेणैवागतं विप्रं विषयं स्वं नाराधिपः ।

प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥

तदा वर्षेण सहैवाभीष्टेन विषयं स्वे देशमागतं प्रत्युज्जगाम । प्रह्वः–शिरसा महीं गतश्च । प्रथमं केवलाञ्जलिपूर्वं साष्टाङ्गनमस्कारं कृतवानिति यावत् ॥ १।१०।२९ ॥

॥ १।१०।३० ॥ अर्ध्यं च प्रददौ तस्मै न्यायतस्सुसमाहितः ।

वव्रे प्रसादं विप्रेन्द्रात् मा विप्रं मन्युराविशेत् ॥ ३० ॥

वव्र इति । अर्ध्यादिपूजितं तं विप्रं ऋश्यशृङ्गं वव्रे । किं वव्रे ? तस्य प्रसादं–सौमुख्यमेव मह्यं नित्यं प्रसन्नो भव, सापराधे ऽपि मयीति । किमर्थमेवं वरणम् । गणिकाभिः पश्चाव्द्यवहारकाले अतिजुगुप्सितप्रतीताभिर्विलोक्यस्वानयनमन्वीक्ष्य मन्युः ऋश्यशृङ्गं विप्रेन्द्रं मा प्रविशत्विति । ततः प्रसन्नत्वादेव तन्मत्यनुरोधेनान्तःपुरप्रवेशशान्तापरिग्रहतत्सम्बन्धजसन्तोषश्च ॥

सर्वमेतत् बालपिशाचकथोपमं मन्यामहे । कुतः ? अज्ञत्वे प्राकृतवद्वर्षानुग्रहनिग्रहादिशक्त्यभावप्रसङ्गात् । पुत्राद्यर्थं याजनादिप्रवृत्त्ययोगात् ।

स्वपितर्येव निरतिशयनिर्मलब्रह्मचर्यवासतो निखिलवेदशास्त्रज्ञत्वपूर्णतपस्त्वधर्मयोः स्थितयोः, अष्टविधस्त्रीप्रसङ्गपरिहारलक्षणब्रह्मचर्यपरिज्ञाने च स्थिते, स्वस्य च ब्रह्मचर्याश्रमित्वात् तद्भ्रंशे परमानर्थपरिज्ञानवत्वे स्थिते शास्त्रत एव, अन्ततो वचनरस्त्रीणामेव अनुभवात् स्त्र्यादिस्वरूपपरिज्ञाने तत्परिहार्यत्वबुद्धौ दृढं जागरूकायां, कथं नाम कटाक्षेणापि स्त्रीं निरीक्षयेत् कथं च तमुन्मत्तमिव सर्वज्ञं स्त्रीपिशाच्यो विलोभयेयुः ? कुतश्च ताः स्वाश्रमपदं पापयेत् ? पित्राज्ञाभीतः कुतस्तरां प्रपूजयेत् ? पितुरसन्निधिकाले ऽपि कथं च पित्रनुमतिं पितृप्रीतिं चोपेक्ष्य ता अनुयायात् ? कथं च नाम विलोभ्य वा ऽ ऽनीतः ? कुतः पुत्रं पिता नामार्गयत ? कथं च नेत्रीस्तास्तत्प्रयोजकं राजानं च समाधिना वीक्ष्य तत्क्षणादेव न क्रुद्धश्शपेत् ? अतः पिशाचकथोपममिति । अत्रोच्यतेप्रागुक्तरीत्या ऽवर्ज्यप्राप्तसार्वज्ञ्यत्वात् प्राचीनकर्मवशात् स्वजन्मविशेषसंम्बन्धवत् प्रारब्धकर्मवशादेव क्षत्रस्त्रीपरिग्रहकश्मलप्राप्तिरपि सर्वज्ञत्वाज्जानान एव तत्प्राप्तिद्वारभूतवेश्यापिशाच्यश्च विलोभ्यमान इवानुचक्रे । पिता ऽपि सर्वज्ञतमत्वात् कुलवृद्ध्यै सन्तत्यपेक्षत्वात्तेनापि स्वपुत्रस्य क्षात्रक्षेत्रप्राप्तिं विदित्वा उपेक्ष्यैव तद्विवासं नान्विष्ट । अपि तु दशशिरोपहृतसीतां रामवत् अज्ञातपुत्रविदेशगमनेनेव स्थितमिति सर्वमवदातम् । अतस्त्विह कविना ऽन्यनारीनरापरिज्ञानवर्णनं नित्यप्रत्यङ्मुखत्वपूर्णब्रह्मचर्यत्वगुर्वैकायनलौकिकालौकिकसर्वकृत्यत्वादिशुद्धतरपूर्ण ब्रह्मचर्य प्रतिपादनार्थम् । अपूपादेः फलत्वेन मननं च तदशुद्धिनिरासार्थम् । तद्भक्षणादिकं च तासां निजानुकूल्यद्योतनार्थम् । तच्च स्वप्रारब्धभोगशेषतयेत्युक्तमेव ॥ १।१०।३० ॥

॥ १।१०।३१,३२ ॥ अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।

शान्तां शान्तेन मनसा राजा हर्षवाप सः ॥ ३१ ॥

एवं स न्यवसत्तत्र सर्वकामैस्सुपूजितः ।

ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे दशमः सर्गः

द्वात्रिंशत् (३२) । आहत्य शतांग (३६५) मानम् ॥ १।१०।३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे दशमः सर्गः