अथ नवमः सर्गः
[सुमन्त्रेण दशरथाय सनत्कुमारवचसो निवेदनम्]
॥ १।९।१ ॥ एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ॥ १ ॥
अथ पुत्रप्राप्त्यसाधारणोपायप्रवृत्तिप्रस्तावः–एतच्छुत्वेत्यादि । एतदिति । पुत्रार्थं अश्वमेधप्रवृत्तिमित्यर्थः । सूतःसुमन्त्रः । स तूभयधर्मा राज्ञः । इदंवक्ष्यमाणम् । अयं अश्वमेधप्रवृत्तिरूपपुत्रार्थोपायस्ते ऋत्विग्भिरुपदिष्टः, मया तु पुरावृत्त इतिस्वरूपतो ऽन्य एव त्वत्पुत्रावाप्तये श्रुतः ॥ १।९।१ ॥
॥ १।९।२ ॥ सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ॥ २ ॥
कथमित्यतः–सनत्कुमार इत्यादि । कथामिति । सर्वज्ञत्वाद्भविष्यद्विषयिणीमिति शेषः ॥ १।९।२ ॥
॥ १।९।३ ॥ काश्यपस्य तु पुत्रो ऽस्ति विभण्डक इति श्रुतः ।
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ ३ ॥
का भविष्यन्मत्पुत्रप्राप्तिविषयिणी कथेत्यतः–काश्यपस्येत्यादि । वभण्डकास्तित्वं सनत्कुमारकथाकथनकालीनम् । ऋश्यशृङ्गजनिस्तस्मात् भाविनी । तदाख्यातो भविष्यतीति । धातुसम्बन्धे प्रत्यया इति न्यायेन भूतभविष्यतोस्साधुत्वम् ॥ १।९।३ ॥
॥ १।९।४ ॥ स वने नित्यसंवृद्धो मुनिर्वन चरस्सदा ।
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ ४ ॥
नित्यंसंवृद्धःपुरपौरग्रामग्रामीणादिस्वरूपव्यापारानुभवराहित्येनैव संवृद्धःपित्रा वर्धित इत्यर्थः । अत एव वनचरत्वादि । पित्रनुवर्तनादिति । न क्कापि त्वया गन्तव्यं इति पित्राज्ञानुवर्तनादित्यर्थः ॥ १।९।४ ॥
॥ १।९।५ ॥ द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ॥ ५ ॥
द्वैविध्यमित्यादि । यद्ब्रह्मचर्यं लोकेषु मेखलाजिनादिना सर्वलोकस्य प्रसिद्धं, यच्च विप्रैर्याज्ञवल्क्यादिस्मर्तृभिः कथितमृतुगमनलक्षणं गौणब्रह्मचर्यमस्ति तदिदं द्वैविध्यंद्विप्रकारकब्रह्मचर्यं च महात्मनस्तस्य भविष्यति । द्वे विधे यस्य तद्द्विविधम्, तस्य भाव इति ष्यञ् ॥ १।९।५ ॥
॥ १।९।६ ॥ तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ ६ ॥
अथ कथं तथा वनचरस्य यथोक्तगौणब्रह्मचर्यस्य प्रसक्तिरित्यतः तदुपपादनम्–तस्येत्यादि । अग्न्यादिकं शुश्रूषमाणस्य एवं मुख्यब्रह्मचर्ये वर्तमानस्य कालःकतिपयः समभिवर्तत । ऽछन्दसि लुङ्लुङ्लिटःऽ इति भविष्यति लह्, अडभावश्छान्दसः, समभिवर्तिष्यतेगमिष्यतीत्यर्थः ॥ १।९।६ ॥
॥ १।९।७ ॥ एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ ७ ॥
एतस्मिन्तस्य ब्रह्मचर्यदशायामित्यर्थः ॥ १।९।७ ॥
॥ १।९।८ ॥ तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥ ८ ॥
व्यतिक्रमात्क्षत्रनित्यप्राप्तप्रजापरिपालनवर्णाश्रमशिक्षणादिधर्मविलोपनादित्यर्थः ॥ १।९।८ ॥
॥ १।९।९ ॥ अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणाञ्छ्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ ९ ॥
श्रुतेन वृद्धाः श्रुतवृद्धाः ॥ १।९।९ ॥
॥ १।९।१० ॥ भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।
समादिशन्तु नियमं प्रायश्चित्तं यता भवेत् ॥ १० ॥
समादिशन्तु । यथा चेन्मत्पापस्यानावृष्ट्यादिमूलस्य प्रायश्चित्तं भवति तादृङ्नियममनुष्ठेयांशमादिशन्तु ॥ १।९।१० ॥
॥ १।९।११ ॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् ॥ ११ ॥
एवं राज्ञा पृष्टास्ते शुद्रब्रह्मचारिणे कन्याप्रदानमेव परं प्रायश्चित्तमिति वक्ष्यन्तीत्युपदिश्यते–वक्ष्यन्तीत्यादि–कन्यां प्रयच्छेत्यन्तेन । आनाय्येति । नीञो हेतुमण्ण्यन्ताल्ल्यप् । महीपाल ऋश्येति ऽऋत्यकःऽ इति प्रकृतिभावः ॥ १।९।११ ॥
॥ १।९।१२ ॥ विभण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १२ ॥
प्रयच्छ । ऋश्यशृङ्गायेति शेषः ॥ १।९।१२ ॥
॥ १।९।१३ ॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १३ ॥
राज्ञश्चिन्ताभिनयः–केनोपायेनेत्यादि । वीर्यवान्विद्यावृत्ततपोवीर्यवान् ॥ १।९।१३ ॥
॥ १।९।१४,१५ ॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ १४ ॥
ते तु राज्ञो वचश्श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १५ ॥
ते त्विति । पुरोहितमन्त्रिण इति यावत् । व्यथिताःअशक्यार्थयोगतः खिन्नाः, अत एव विनताननाः, ऋषेर्विभण्डकाद्भीतास्सन्तो न वयं गच्छेम इत्युक्त्वा तं नृपं रोमपादं अनुनेष्यन्ति । अशक्यार्थत्वात् त्वन्नियोगो नास्माभिरनुष्ठीयते, अतः क्षन्तव्यमित्यनुनेष्यन्ति ॥ १।९।१४,१५ ॥
॥ १।९।१६ ॥ वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ १६ ॥
एवमनुनीयाथ क्षमान्उचितान् तदानयनोपायांश्चिन्तयित्वा तस्य राज्ञो वक्ष्यन्ति । अस्मदुक्तं यदि शृणोषि तदा वयं तं विप्रमानेष्यामः । तदा ऽस्माकमपि शापादिदोषो न भविष्यति, गणिकाद्वारत्वात् ॥ १।९।१६ ॥
॥ १।९।१७,१८ ॥ एवमङ्गाधिपेनैव गमिकाभिऋ़षेस्सुतः ।
आनीतो ऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ १७ ॥
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावव्द्याहृतं मया ॥ १८ ॥
एवं स्वामात्यवचनात् गणिकाश्च प्रेषयता अङ्गाधिपेन गणिकाभिःद्वाराभिः ऋषेस्सुतः आनीतस्सन् देवःपर्जन्यः अवर्षयत्–वर्षयिष्यति । प्रदीयतेप्रदास्यते, छान्दसो लट् । अत एव ऋश्यशृङ्गस्तु राज्ञो जामाता भविष्यति । स एव तव पुत्रान्विधास्यति–इत्येवमेतावत् सनत्कुमारकथितं मया श्रुतं, इदानीं तुभ्यमिदं व्याहृतं च । अतः परं देवः प्रमाणमिति शेषः ॥ १।९।१७,१८ ॥
॥ १।९।१९ ॥ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे नवमः सर्गः
–
हृष्टःनिश्चितपुत्रप्राप्त्युपायलाभात्संतुष्टः । अथोत्तरसर्गप्रतिपाद्यार्थस्य पातनिका–यथेत्यादि । आनीत इति । गणिकाभिः रोमपादेनेति शेषः । धैर्य(१९)मानः ॥ १।९।१९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे नवमः सर्गः