००८ अश्वमेधसन्नाहः

अथ अष्टमः सर्गः

[पुत्रार्थं अश्वमेधयजनोद्यमो दशरथस्य]

॥ १।८।१ ॥ तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः ।

सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ॥ १ ॥

एवं समग्रसार्वभौमगुणस्यापि सत्पुत्रेणार्जितपितृलोकत्वात्, तदितरगुणानां तदभावे अगुणकल्पत्वात्, ऽसर्वं वा ऽश्वमेध्याप्नोतिऽ इति श्रुतेः, पुत्रार्थमप्यश्वमेधेन प्रवृत्तिरष्टमेन–तस्येत्यादि । तप्यमानस्येति । तपो लटशानचि श्यन् । सन्तापं कुर्वाणस्येत्यर्थः । वंशकरः, कृञो हेतौ टः ॥ १।८।१ ॥

॥ १।८।२ ॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।

सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

चिन्तयानस्येति । आनेमुगभावश्छान्दसः । एवमिति वक्ष्यमाणप्रकारम् ॥ १।८।२ ॥

॥ १।८।३ ॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।

मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥

यष्टव्यमिति निश्चितां मतिमिति योजना ॥ १।८।३ ॥

॥ १।८।४,५ ॥ ततो ऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।

शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।

समानयत् स तान् सर्वान् समेतान् वेदपारगान् ॥ ५ ॥

समानयत्स तान्सर्वानिति । तान्प्रसिद्धान् सपुरोहितांस्तानिति योजनीयम् । तच्छब्दद्वयस्य विद्यमानत्वात् ॥ १।८।४,५ ॥

॥ १।८।६ ॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥

तत्र सुयज्ञादयः तत्तद्विद्याविशेषगुरवो ऽध्यापकाः । वसिष्ठः पुरोहितः । तदेवोक्तम्पुरोहितं वसिष्ठं चेति । ननु ऽउपनयीत तमध्यापयीतऽ इति विधेरुपनेतुरेवाध्यापकत्वाद्वसिष्ठस्यैव च पुरोहितत्वत उपनेतृत्वात् कथं गुर्वन्तरसंबन्धः–उपनीतस्य स्वयं स्वशिष्यप्रायेषु स्वपौरोहित्यादिव्याक्षेपादध्ययनाय नियोजनादिति ब्रूमः । ये चान्य इति । अश्वमेधार्त्विज्यापेक्षिता इति शेषः ॥ १।८।६ ॥

॥ १।८।७,८ ॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।

इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमधाब्रवीत् ॥ ७ ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

पुत्रार्थंपुत्रप्राप्तिमुद्दिश्य, लालप्यमानस्यलपेर्यङ्न्तात् शानच्, पुनः पुनः भृशं विलपतः मम राज्यादिनापि सुखं नास्ति, वै प्रसिद्धौ । तदर्थं पुत्रार्थं हयमेधेन यक्ष्यामीति मतिःदृढाध्यवसायो ऽद्य मम संवृत्तः ॥ १।८।७,८ ॥

॥ १।८।९ ॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।

कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९ ॥

तत्तस्मात् । अहं यष्टुंयागकर्मणि प्रवर्तितुं इच्छामि । कर्मणाविधिना अहं कामंपुत्रप्राप्तिलक्षणाभीष्टं कथं प्राप्स्यामीत्यत्र बुद्धिःउपायः विचार्यताम् ॥ १।८।९ ॥

॥ १।८।१० ॥ ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।

वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखेरितम् ॥ १० ॥

पार्थिवस्य मुखेरितंसाक्षात्तन्मुखनिर्गतम् ॥ १।८।१० ॥

॥ १।८।११ ॥ ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।

सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

ते अश्वमेधीयाः प्रसिद्धाः सम्भाराःएकविंशतियूपपात्रशालामुखाः सम्भ्रियन्ताम् ॥ १।८।११ ॥

॥ १।८।१२ ॥ सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥

पुत्रानिति बहुवचनं विवक्षितबहुत्वम् । धार्मिकीऽधर्मं चरतिऽ इति ठक्, धर्माचरणविषयिणी ॥ १।८।१२ ॥

॥ १।८।१३ ॥ ततः प्रीतो ऽभवद्राजा श्रुत्वैताद्द्विजभाषितम् ।

अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १३ ॥

प्रीतो ऽभवदिति । सर्वथा प्राप्स्यसे इति प्रतिज्ञानात् । कर्मकर्तरीदमात्मनेपदम् । हर्षेणतज्जानन्दाश्रुणा पर्याकुलेपरिप्लवे ईक्षणे यस्य स तथा ॥ १।८।१३ ॥

॥ १।८।१४ ॥ सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह ।

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १४ ॥

इहेति । अस्मिन् काले सरयूत्तरतीरे चेत्यर्थः । समर्थाधिष्ठितः ऽचतुश्शता रक्षन्ति यज्ञस्याघातायऽ इति श्रुतेः, रक्षणसमर्थैश्चतुश्शतराजपुत्रै रक्षित इत्यर्थः । सोपाध्यायःऽअश्वस्य मेध्यस्य पदे पदे जुह्वतिऽ इति होमोपेक्षितोपाध्यायसहितस्तथा ॥ १।८।१४ ॥

॥ १।८।१५ ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥

शान्तयश्चेति । ऽअश्वमुत्सृक्ष्यन्निष्ठिभ्यां यजेत शुक्रं चान्द्रमस्या सौर्ययेतरम्ऽ इति श्रौती शान्तिः, स्मार्ती भगवतो ब्रह्णस्पतेर्विघ्नेश्वरस्य समाराधनलक्षणः, तथान्याश्च शान्तयःशान्तिकर्माणि अभिवर्द्धन्तांप्रवर्तयन्तामिति यावत् । ऽवर्धन्तु वा सुष्टुतयःऽ इतिवेदार्षत्वाच्छपो ऽप्यार्घधातुकत्वेन णिलोपः । यथाकल्पंशान्तिकल्पोक्तपुण्याहवाचनादिकर्मानुक्रमप्रकारम् । यधाविधिइदं कर्मैवं कर्तव्यमिति विधिं चानतिक्रम्येत्यर्थः ॥ १।८।१५ ॥

॥ १।८।१६ ॥ शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ।

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६ ॥

सर्वेणापि राजमात्रेणदेवतानुग्रहरहितेनापि चेत्यर्थः । अपराधःप्रायश्चेतव्यविध्यपराधः । यदिशब्दो यथापर्यायः, अव्ययानामनेकार्थत्वात् ।

अस्मिन् क्रतौ कष्टस्स यथा न भवेत्तथा प्रयत्यतामिति शेषः ॥ १।८।१६ ॥

॥ १।८।१७ ॥ छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः ।

निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥

सर्वथा विध्यपराधाभावार्थं यतितव्यमित्याहछिद्रमित्यादि । विद्वांसःअश्वमेधप्रवृत्तिं जानन्तः ब्रह्मराक्षसाःअकृतप्रायश्चित्तप्रतिग्रहायाज्ययाजनादिपापेन राक्षसत्वं प्राप्ता ब्राह्मणाः, तथा । ये तु यज्ञस्वरूपं तदपराधं च सम्यग्जानन्ति, ते तु अश्वमेधे छिद्रंअपराधं नानाविधं मृगयन्तेयदि छिद्रं प्राप्नुवन्ति, यज्ञे नाशयन्ति यज्ञस्यात्मसात्करणेन । किं तत इत्यतः–निहतस्य यज्ञस्य कर्ता–यजमानः ऋत्विग्वर्गश्च सद्यो विनश्यति ॥ १।८।१७ ॥

॥ १।८।१८ ॥ तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते ।

तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥

यदेवं तस्माद्यथा चेत् विधिपूर्वमेष क्रतुः समाप्यते तथा विधानं क्रियतां । तथाकरणेषुअनुष्ठापनेषु यूयं समर्थाः खल्वपीति स्तुतिः ॥ १।८।१८ ॥

॥ १।८।१९ ॥ तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन् ।

पार्थिवेन्द्रस्य तद्वाक्यं यथा ऽ ऽज्ञप्तं निशम्य ते ॥ १९ ॥

तथेत्यादि । ते सर्वे मन्त्रिणः यथाउक्तप्रकारतो नरेन्द्रेण आज्ञप्तम्आज्ञापितम् । ऽवा दान्तऽ इत्यादिना वैकल्पिक इडभावो निपातितः । स्वार्थणेर्ज्ञपेर्भावे निष्ठा, आज्ञापनरूपं पार्थिवेन्द्रस्य तद्वाक्यं निशम्य ततेत्यब्रुवन्, समीचीनो ऽध्यवसायो महाराजस्येति प्रत्यपूजयंश्च ॥ १।८।१९ ॥

॥ १।८।२० ॥ तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ।

अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥

वर्धयन्त इतिआसीर्भिरिति शेषः ॥ १।८।२० ॥

॥ १।८।२१ ॥ विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ।

ऋत्विग्भिरुपसन्दिष्टो यतावत्क्रतुराप्यताम् ॥ २१ ॥

उपसन्दिष्ट इति त्रिपदम्, उपदिष्टो ऽयं क्रतुः यथावत् समाप्यतामिति योजना । ऽव्यवहिताश्चऽ इति व्यवहितप्रयोग उपसर्गस्य ॥ १।८।२१ ॥

॥ १।८।२२,२३ ॥ इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ।

विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २२ ॥

ततस्स गत्वा ताः पत्नीः नरेन्द्रो हृदयप्रियाः ।

उवाच दीक्षां विशत यक्ष्ये ऽहं सुतकारणात् ॥ २३ ॥

ताः पत्नीःस्ववेश्मगताः पत्नीरित्यर्थः । ऽपत्युर्नो यज्ञसंयोगेऽ इतिनकारो ऽन्तादेशः । दीक्षां विशतेति । दीक्षाविषयकदृढबुद्धिं संगच्छध्वमिति यावत् ॥ १।८।२२,२३ ॥

॥ १।८।२४ ॥ तासां तेनातिकान्तेन वचनेन सुवर्चसा ।

मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टमः सर्गः

अतिकान्तेनअत्यन्तमिष्टेन । वर्चो दीप्तिःसुप्रकाशेन सुशोभनेनेत्यर्थः । अर्धाधिकचुतुर्विंशतिः ॥ १।८।२४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टमः सर्गः