अथ षष्ठः सर्गः
[दशरथस्य, तत्प्रजानां च वर्णनम्]
॥ १।६।१ ॥ तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥
अथ काव्योत्तमस्य परलोकोपकारकत्वेन अप्राकृतत्वायान्वयमुखेन राजधर्मः व्यतिरेकमुखेन तत्प्रजाधर्मश्चोपदिश्यते–तस्यामित्यादि । वेदविदिति । त्रैवर्णिकमात्रस्य सर्वाद्यो ऽयं गुणः । अथ क्षत्रियविशेषधर्मःसर्वसङ्ग्रह इत्यादि । सर्वेषां अपरिमितकोशचतुरङ्गबलराष्ट्रदुर्गादीनां सार्वभौमापेक्षितपदार्थानां सङ्ग्रहो यस्मिन् । ऽग्रहवृदृ–ऽ इत्यप् । एवं सामादिप्रयोगे एवं फलं भविष्यतीत्यादिलक्षणदीर्घदर्शनशीलः । तेजःप्रतापः ॥ १।६।१ ॥
॥ १।६।२ ॥ इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥
ऽमहारथैरेकयोद्धा भवेदतिरथो रथीऽ । महर्षिकल्पःव्याकृतचरः ॥ १।६।२ ॥
॥ १।६।३ ॥ बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।
धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥
धनंहिरण्यम् । धनापेक्षयान्ये सञ्चयाःमुक्तादिनवरत्नदिव्याम्बराभरणादयः । विश्रवसो ऽपत्यं वैश्रवणः । विश्रवणरवण इत्यण्सन्नियोगे विश्रवणादेश इति प्रागेवोक्तम् ॥ १।६।३ ॥
॥ १।६।४ ॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसञ्जगदपालयत् ॥ ४ ॥
महातेजस्त्वे मनुदृष्टान्तः–तथा तद्वन्महातेजाःतस्यां पुर्यां वसन् जगदपालयदिति योजना ॥ १।६।४ ॥
॥ १।६।५ ॥ तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥
धर्मकामार्थास्त्रिवर्गसंज्ञाः । त्रिवर्गानुष्ठानप्राधान्यं गृहीत्वा पालिता ऽभवदिति योजनीयम् ॥ १।६।५ ॥
॥ १।६।६ ॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥
धर्मात्मानःधर्मवासनावासितान्तःकरणाः । बहुश्रुता इति बहुव्रीहिः । श्रुतंवेदशास्त्रलक्षणम् । कर्मणि निष्ठा । प्राप्तोत्तरस्पृहावत्त्वे सति काचमात्रस्यापि दित्साभावो लोभः ॥ १।६।६ ॥
॥ १।६।७ ॥ नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ॥ ७ ॥
अल्पतया सन्विद्यमानो निचयःधान्यादिसङ्ग्रहो यस्य स तथा । यो हि अगवाश्वधनादिमान्, अत एव असिद्धार्थःअसिद्धैहिकामुष्मिकप्रयोजनः, कुटुम्बी न कश्चिदिति योजनार्थः ॥ १।६।७ ॥
॥ १।६।८ ॥ कामी वा न कदर्यो वा नृशंसः पुरुषः क्कचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥
कामीकामैकतत्परः । कदर्यःऽआत्मानं धर्मकृत्यं च पुत्रदारांश्च वञ्चयन् । लोभाद्यः पितरौ भ्रातृन् स कदर्य इति स्मृतः ॥ ऽ इति मनुः । नृशंसःक्रूरः । द्रष्टुं शक्यमिति छान्दसं नपुंसकत्वम् ॥ १।६।८ ॥
॥ १।६।९ ॥ सर्वे नार्यश्च धर्मशीलास्सुसंयताः ।
उदिताश्शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥
सुसंयताःसुष्ठु निगृहीतेन्द्रियाः । सहशीलवृत्ततयोदितत्वे महर्षिदृष्टान्तः ॥ १।६।९ ॥
॥ १।६।१० ॥ नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १० ॥
भोगाःधर्माविरुद्धकामभोगाः । ऽनिर्णिक्तं शोधितं मृष्टंऽ । अमृष्टःअभ्यङ्गस्नानादिना ऽनिर्णिक्तदेह इति यावत् । नानुलिप्ताङ्ग इति । ऽसुप्सुपाऽ इति समासः । भद्रदारुपनसादिनाप्यनुलिप्तत्वसम्भवादुच्यतेअसुगन्ध इति । अलभ्यचन्दनादिसुगन्ध इति यावत् ॥ १।६।१० ॥
॥ १।६।११ ॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वा ऽपि दृश्यते नाप्यनात्मवान् ॥ ११ ॥
मृष्टंपूर्णम् । अन्नाभावप्रयुक्तपूर्णभोजनरहित इति यावत् । नादातेति । साक्षिभोजनरहित इति यावत् । अङ्गदं, निष्कंउरोभूषणं च धरतीति तथा । ऽहेम्न्युरोभूषणे निष्के दीनारे ऽपि फले ऽपि चऽ इति निघण्टुः । अनात्मवान्अजितान्तःकरणः ॥ १।६।११ ॥
॥ १।६।१२ ॥ नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ॥ १२ ॥
अयज्वासोमयागरहितः । क्षुद्रःअल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निर्वृत्तंअनुष्ठितं सङ्करःसाङ्कर्यंपरक्षेत्रे बीजावापादिसाङ्कर्यं येन स तथा ॥ १।६।१२ ॥
॥ १।६।१३ ॥ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥
दानाध्ययनेति । ऽततो यत्किंच ददाति सा दक्षिणाऽ इति नित्यप्राप्तयथाशक्त्यन्नपानादिदानादिमन्तः । संयताःसङ्कुचिताः ॥ १।६।१३ ॥
॥ १।६।१४ ॥ न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न वा ऽशक्तो नाविद्वान्विद्यते तदा ॥ १४ ॥
नास्ति दिष्टं मतिर्यस्य स नास्तिकः, ऽअस्ति नास्ति दिष्टं मतिःऽ इति ठक् । अनृतकःअसत्यवचनः । अशक्तःस्वस्यैहिकामुष्मिकार्थसाधनासमर्थः । नाविद्वानिति । गुणवर्णनेष्वादरात् पौनरुक्त्यमदोषायेति प्रागेवोपपादितम् ॥ १।६।१४ ॥
॥ १।६।१५ ॥ नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वा ऽपि कश्चन ॥ १५ ॥
व्रतंएकादश्यादिव्रतम् । क्षिप्तचित्त इति । उन्मादादिनेति शेषः । व्यथितःआधिव्याध्यादिपीडितचित्त इत्यर्थः ॥ १।६।१५ ॥
॥ १।६।१६ ॥ स्त्रियास्तु नाश्रीमतीत्याद्यूह्यम् । मूर्धाभिषिक्तो राजा दशरथः, तस्मिन् भक्ति स्नेहं, तद्रहितो नाभूत् । इदं सर्वप्रजासाधारणं शुभमित्युच्यते ॥ १।६।१६ ॥
॥ १।६।१७ ॥ वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ १७ ॥
वर्णेष्वित्यादि । अग्र्यःब्राह्मणः । अग्रे भवः, ऽअग्राद्यत्ऽ, स चतुर्थो येषां वर्णानां ते तथा । ऽवदान्यो दानशौण्डस्स्यात्ऽ इति विश्वः ॥ १।६।१७ ॥
॥ १।६।१८,१९ ॥ दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्रास्स्व धर्मनिरतास्त्रीन्वर्णा नुपचारिणः ॥ १९ ॥
ब्रह्ममुखंब्रह्मप्रधानम्, तदाज्ञानुवर्तीति यावत् । कश्शूद्रस्य धर्म इत्यतः–त्रीन्वर्णानित्यादि । उपचारणःउपचरणशीलाः । चरेस्ताच्छीलिको णिनिः ॥ १।६।१८,१९ ॥
॥ १।६।२०,२१ ॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ २० ॥
योधानामग्निकल्पानां पेशलानाम मर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ २१ ॥
योधानामग्निकल्पानामिति । शौर्यातिशयादग्निकल्पत्वं योधानाम् । पेशलाःअकुटिलाः । अमर्षिणःपराभिभवासहिष्णवः । अमर्षिणां सङ्घैः पूर्णेति योज्यम् । कृताशिक्षिता अस्त्रशस्त्रादिविद्या यैस्ते तथा ॥ १।६।२१ ॥
॥ १।६।२२ ॥ काम्भोजविषये जातैः वाह्लिजैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ २२ ॥
एवं पदातिसौष्ठवमुक्त्वा अश्वादिसौष्ठवोपदेशःकाम्भोजेत्यादि । विषयो देशः । वाह्लीकः बाह्लिरिति गृह्यते नामैकदेशतः, छन्दोवशात् । हरिःइन्द्रः, तस्य हयःउच्चैश्रवाः, तद्वदुत्तमा इति यावत् ॥ १।६।२२ ॥
॥ १।६।२३ ॥ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २३ ॥
हैमवतैः । ऽतन्न जातःऽ इति शेषिको ऽण् ॥ १।६।२३ ॥
॥ १।६।२४ ॥ ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ॥ २४ ॥
कुले भवाः कुलीनाः । ऽकुलात्खःऽ । पुण्डरीकाख्यो दिग्गजो महापद्म इत्युच्यते, तस्य कुलंवंशो येषां ते तथा । अञ्जनादिरपि दिग्गजविशेषः ॥ १।६।२४ ॥
॥ १।६।२५ ॥ भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥
नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ।
हिमवति जाता भद्राख्याः । विन्ध्यजाता मन्द्राख्याः । सह्यजाता मृगाख्याः । तत्र त्र्यादिस्वभाववन्तो ऽन्ये भद्रमन्द्रमृगाः । द्विस्वभाववन्तो भद्रमन्द्रादयः ॥ १।६।२५ ॥
॥ १।६।२६ ॥ सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २६ ॥
पुरी द्वे योजने, द्वयोर्योजनयोरत्यन्तसंयोगे द्वितीया । भूयःअभ्यधिकम् । सत्यनामायोद्धुमशक्या अयोध्येत्येवं अन्वर्थनामा प्रकाशते । द्वादशयोजनायामायाः तिर्यक् त्रियोजनविस्तारवत्याः तस्याः राज्ञो मूलधाम्न उक्तद्वियोजनमानकत्वतो भूयः सत्यनामत्वम् । सत्यनामेति । ऽडाबुभाभ्याम्ऽ इति डाप् ॥ १।६।२६ ॥
॥ १।६।२७,२८ ॥ तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥
तां सत्यनामां दृढतोरणार्गलां
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसङ्कुलां
शशास वै शक्रसमो महीपतिः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्ठः सर्गः
शमितःनाशितः अमित्रो येन स तथा । ऽनिष्ठायां सेटिऽ इति णिलोपे अमन्ततो मित्वाद्ध्रस्वः । तां सत्यनामामित्यत्रापि डाप् । [सप्तविंशतिः अर्धाधिका ?] ॥ १।६।२७,२८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्ठः सर्गः