००५ अयोध्यावर्णनम्

अथ पञ्चमः सर्गः

[कथावतारः, अयोध्यावर्णनं च़]

॥ १।५।१ ॥ सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।

प्रजापतिमुपादाय नृपाणां जयषाळिनाम् ॥ १ ॥

एवं उपोद्धाततः प्रस्थावितकाव्यस्य प्रस्तावो वस्तुनिर्देशतः क्रियते–दशरथो नाम अयोध्याधिपतिरभूदिति । प्रसङ्गात् काव्यलक्षणं पुरवर्णनं च क्रियते–ऽसर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् ॥

नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः । विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः । मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि ॥ अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति । ऊनमप्यत्र यैः कैश्चित् अङ्गैः काव्यं न दुष्यतिऽ इति पञ्चमेन । सर्वापूर्वमित्यादि । कृत्स्नेयं वसुन्धरा–अरिन्दमवत् ऽसंज्ञायां–ऽ इत्यादिना खच्, प्रजासर्गादिकारित्वात् प्रजापतिः वैवस्वतमनुः, तं उपादायतं उपक्रम्य सन्धायमानानाम् जयषाळिनाम्,शलाभेदष्षळयोः शलगतौ घञि शालो विशालः, तस्मान्मत्वर्थीय इनिः । जये शालीसमृद्धः जयशाली । तथाग्रे ऽपि । येषां नृपाणां सर्वा पूर्वं यथा तथा स्वमासीत् । सर्वे राजानो यस्यां विषये येषां पूर्वे प्रथमभोक्तारो यथा न सम्भवन्ति तथेत्यर्थः । भूमेः प्रथमाधिपतये इत्यर्थः । यद्वा सर्वापूर्वंऐहिकामुष्मिकसर्वापूर्वसाधनमभूत् ॥ १।५।१ ॥

॥ १।५।२ ॥ येषां स सगरो नाम सागरो येन खानितः ।

षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥

अथ असाधारण्यप्रयोजकधर्मान्तरोपदेशः येषामित्यादि । निर्धारणे षष्ठी । सगरो नामाभूदिति शेषः । को ऽस्य विशेष इत्यतःसागर इत्यादि । षष्टिरिति तु निपातो दर्शितः । तेन पुत्रसहस्राणीति सामानाधिकरण्यम् ॥ १।५।२ ॥

॥ १।५।३ ॥ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।

महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥

इक्ष्वाकूणामिति । तद्राजप्रत्ययस्य बह्वर्थतो लुक् । वंश इति विषयप्तमी । महदिदमुत्पन्नमाख्यानम् ॥ १।५।३ ॥

॥ १।५।४ ॥ तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।

धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४ ॥

तदिदं सर्वंसमग्रमाख्यानं आदितःआदिमारभ्य निखिलं पूर्वमुत्तरं च, वर्तयिष्यामिप्रवर्तयिष्यामि न तु कृतसमग्रकाव्यस्यैकदेशाप्रवर्तनम् । श्रोतव्यत्वे हेतुगर्भं विशेषणंधर्मेत्यादि ॥ १।५।४ ॥

॥ १।५।५ ॥ कोसलो नाम मुदितः स्फीतो जनपदो महान् ।

निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

एवं सप्रयोजनान्तश्रवणोन्मुखान् प्रति श्रावणम्–कोसल इत्यादि । “स्फायः स्फी निष्ठायां” स्फीतः, समृद्ध इत्यर्थः । सरयूतीर इति । तदुपलक्षितप्रदेशविशेष इत्यर्थः ॥ १।५।५ ॥

॥ १।५।६ ॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६ ॥

तत्रेति । कोसलजनपद इति यावत् ॥ १।५।६ ॥

॥ १।५।७ ॥ आयता दश च द्वे च योजनानि महापुरी ।

श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥

आयतादीर्घा । सरयूतीरोपश्लेषेणेति शेषः । त्रीणीति । योजनानीति शेषः । विस्तीर्णेति । तिर्यग्विस्तारवतीति यावत् । सुविभक्तमहापथेति । महापथःबहिर्मार्गः ॥ १।५।७ ॥

॥ १।५।८ ॥ राजमार्गेण महता सुविभक्तेन शोभिता ।

मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥

राजमार्गः । सर्वपण्यशोभितो राजद्वारात् पुरः प्रवृत्तः । मुक्तपुष्पेत्यादिकं राजमार्गविशेषणम् ॥ १।५।८ ॥

॥ १।५।९ ॥ तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।

पुरीमावासयामास दिवि देवपतिर्यथा ॥ ९ ॥

महाराष्ट्रविवर्धनः । महद्राष्ट्रं वर्धयतिधर्मन्यायबलेन पोषयतीत्यर्थः । पुरीमावासयामासेति । आवासत्वेनाकरोदित्यर्थः । ऽतत्करोतिऽ इति णिच् । दिवि देवपतिर्यथा पुरींअमरावत्याख्यां आवासयति तथेत्यर्थः ॥ १।५।९ ॥

॥ १।५।१० ॥ कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।

सर्वयन्त्रायुधवती मुपेतां सर्वशिल्पिभिः ॥ १० ॥

तोरणं बहिर्द्वारप्रदेशालङ्कारदारु बन्धः । सुविभक्तः अन्तरः परस्परान्तरालो येषां ते तथा, तादृशा आपणा यस्यां सा तथा । सर्वयन्त्रायुधवतीमिति । प्राकारोपरीति शेषः ॥ १।५।१० ॥

॥ १।५।११ ॥ सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् ।

उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ ११ ॥

सूताःस्तुतिपाठकाः । मागधाःवंशावलीकीर्तकाः । अट्टालाःउपरिगृहाः । उच्चेष्वट्टालप्रदेशेषु ध्वजयुक्ताम् । शतं पुरुषान् हन्तीति शतघ्नीअयोभारनिर्मितः प्राकारोपरि स्थापितो मुसलविशेषः । ऽअमनुष्यकर्तृके चऽ इति हन्तेष्टक् । उपधालोपादि ॥ १।५।११ ॥

॥ १।५।१२ ॥ वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।

उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

वधूनाटकशालासङ्घातैस्तथा । सर्वतो ग्रन्थगौरवभयात् उचितमेवार्थं निश्चित्य लिखामः । न तु यद्वाव्याधिमाश्रयामः । पुरीं सर्वत इति । ऽउभसर्वतसोः कार्याऽ इत्यादिना द्वितीया । आम्रवणेति । ऽप्रनिरन्तःऽ इत्यादिना णत्वम् । सालःप्राकारः ॥ १।५।१२ ॥

॥ १।५।१३ ॥ दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् ।

वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥

जलदुर्गैः गम्भीराअगाधा परिघा यस्यां सा तथा । अत एवान्यैः दुर्गां, ऽअन्यत्रापिऽ इति डः । दुरासदांअशक्यसमीपगमनामित्यर्थः ॥ १।५।१३ ॥

॥ १।५।१४ ॥ सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।

नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥

समन्ताद्भवाः सामन्ताः । बलिःकरः । मूलप्रभवे दशरथाय बलिदानरूपं कर्म येषां ते तथा ॥ १।५।१४ ॥

॥ १।५।१५ ॥ प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।

कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

विशेषेण कृताः विकृताः पर्वताःक्रीडापर्वताः । कूटःशाला । अगारंगृहम् ॥ १।५।१५ ॥

॥ १।५।१६ ॥ चित्रामष्टापदाकारां वरनारी गणैर्युताम् ।

सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥

अष्टापदंस्वर्णं, तद्रूपभूषणादिकृतः आकारःअलङ्कारो यस्याः सा तथा । विमानगृहंसप्तभूमिगृहम् । ऽविमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनिऽ इति भास्करः ॥ १।५।१६ ॥

॥ ।१।५।१७ ॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।

शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ १७ ॥

गृहैःपौरकुटुम्बिगृहैः गाढांनिबिडाम् । अत एव अविच्छिद्रां–शून्यगृहरहितरथ्याम् । इक्षुकाम्डरससमानस्वादूदकवतीम् ॥ १।५।१७ ॥

॥ १।५।१८ ॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवेस्तथा ।

नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

दुन्दुभीभिरिति । ऽअन्येषामपिऽ इति दीर्घः । भृशं नादिताम् । पृथिव्यां अत्यर्थंअत्यन्तमनुत्तमाम् ॥ १।५।१८ ॥

॥ १।५।१९ ॥ विमानमिव सिद्धानां तपसाधिगतं दिवि ।

सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

तपसाधिगतमिति विमानविशेषणम् । सुनिवेशितः वेश्मानामन्तःअन्तर्गेहप्रदेशः यस्यास्सा तथा ॥ १।५।१९ ॥

॥ १।५।२० ॥ ये च बाणैर्न विध्यन्ति विविक्त मपरावरम् ।

शब्दवेध्यं च विततं लघुहस्तां विशारदाः ॥ २० ॥

ये च लघुहस्ताःक्षिप्रकारिणः विशारदाःअस्त्रशस्त्रप्रयोगसमर्थाः शूराः विविक्तंस्वयूथ्यात् विवेकं प्राप्तंभ्राष्टमिति यावत्, तं सुवेधमपि बाणैर्न विध्यन्ति यश्चापरावरःपरकीयो स्वकीयश्च केवलप्रेक्षकः तं न विध्यन्ति । शब्दवेध्यंशब्दमात्रानुमितसत्ताकमनवगतवेध्यावेध्यत्वं न विध्यन्ति । तथा वितथंविरुध्य युद्धं कृत्वा पश्चात्ततः पलायमानं न विध्यन्ति तेषां सहस्रैः पूर्णामित्यग्रेण सम्बन्धः । उक्तविषयकस्सर्वो ऽपि वेधःशास्त्रनिषिद्धः शूरापयशस्करश्च ॥ १।५।२० ॥

॥ १।५।२१,२२ ॥ सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।

हन्तारो निशितैः शस्त्रैर्बलाद्वाहुबलैरपि ॥ २१ ॥

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।

पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

अथ शत्रुविषयकशौर्यप्रकाशः–सिंहेत्यादि । ये च वने मत्ततादिगुणानां सिह्मादीनां, कृद्योगलक्षणा षष्ठी, बलात्अस्त्रशस्त्राभ्यासबलात्, पाणिबलात्, सहजकायबलमूलबाहुबलादपि निशितैर्बाणैर्हन्तारो भवन्ति, तादृशानां सहस्रैरभिपूर्णां । तथा महारथैः–ऽ आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञस्स्यात्ऽ तैश्च पूर्णां तां पुरीं राजा दशरथः आवासयामास । एवं दृष्टबलसंपत्तिरुक्ता ॥ १।५।२१,२२ ॥

॥ १।५।२३ ॥ तामग्निमद्भिर्गुणवद्भिरावृतां

द्विजोत्तमैर्वेदषडङ्गपारगैः ।

सहस्रदैस्सत्यरतैर्महात्मभिः

महर्षिकल्पैः ऋषिभिश्च केवलैः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चमः सर्गः

अथ काव्यलक्षणं वृत्तभेदेन सर्गसमापनं कुर्वता अदृष्टबलसंम्पत्तिश्चोपदिश्यते–अग्निमद्भिरित्यादि । अग्नयस्त्रेधालक्षणाः, गुणाश्शमदमादयः । वेदानां वेदषडङ्गानां च पारगास्तथा । एवं ब्रह्मसङ्घभूयस्त्वम् । अथ राजर्षिसङ्घभूयस्त्वोपदेशः–सहस्रदैरित्यादि । ऽदानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्ऽ । महर्षिकल्पैःमहर्षितुल्यवृत्तैश्च, केवलैः ऋषिभिश्च, पूर्णां तां इति पूर्वेणान्वयः । गिरि(२३)मानः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चमः सर्गः ॥ १।५।२३ ॥